पूर्वम्: ८।१।७२
अनन्तरम्: ८।१।७४
 
सूत्रम्
नामन्त्रिते समानाधिकरणे (सामान्यवचनम्)॥ ८।१।७३
काशिका-वृत्तिः
न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ८।१।७३

अविद्यमानवत्त्वस्य प्रतिषेधः आमन्त्रितान्ते समानाधिकरने परतः पूर्वम् आमन्त्रितान्तं सामान्यवचनम् न अविद्यमानवद् भवति। किं तर्हि? विद्यमानवदेव। अग्ने गृहपते। माणवक जटिलकाध्यापक। पूर्वस्य विद्यमानवत्त्वात् परमनुदात्तम् एव भवति। आमन्त्रिते इति किम्? देवदत्त पचसि। समानाधिकरने इति किम्? देवदत्त पण्डित यज्ञदत्त। अत्र यज्ञदत्तविशेषनम् पण्डितशब्दः, न पूर्वेण समानाधिकरनः। सामान्यवचनम् इति किम्? पर्यायेषु मा भूत्, अध्न्ये, देवि, सरस्वति, ईडे, काव्ये, विहव्ये। पर्यायशब्दा एते। एवं हि उक्तम्, एता ते अघ्न्ये नामानि इति।
न्यासः
नामन्त्रिते समानाधिकरणे सामान्यवचनम्?। , ८।१।७३

"समानाधिकरणम्()" [समानाधिकरणे--काशिका] इति। समानाभिधेयमित्यर्थः। "अग्ने गृहपते" इति। अग्निशब्दोऽत्राग्निमात्राभिधायित्वात्? सामान्यवचनोऽपि गृहपतिशब्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तद्वाच्ये गार्हपत्याख्येऽग्निविशेषे एवावतिष्ठत इति गृहपतिशब्दस्तेन समानाधिकरणः। एवं "माणवक जटिलाध्यापक" इत्यत्रापि समानाधिकरणाता विज्ञेया। अत्र जटिलकशब्दस्यापेक्षाभेदात्? सामान्ये विशेषत्वं न; किं तर्हि? माणवकापेक्षया विशेषत्वम्(), अध्यापकापेक्षया सामान्यभावः। अत्र जटिलके समानाधिकरणे परतो माणवकस्याविद्यमानवत्त्वं न भवति, अध्यापके तु जटिलकशब्दस्य। पूर्वस्य" इत्यादिना प्रतिषेधस्य फलं दर्शयति। "देवदत्त पचसि" इति। तत्र देवदत्तस्य योऽभिधेयोऽर्थस्तत्रैव कत्र्तरि लकारो विहित इति भवति पचसीत्येतद्देवदत्तशब्देन समानाधिकरणम्()। आमन्त्रितं तु न भवति--देवदत्त यज्ञदत्तेति। देवदत्तशब्दोऽत्र न संज्ञाशब्दो गृह्रते, किं तर्हि? क्रियानिमित्तकः; अन्यथा संज्ञशब्दस्यैकवस्तुनिष्ठत्वात्? सामान्यवचनः, स न स्यात्()। "एते पर्यायाः" इति। एतेन सामान्यवचनत्वाभावं दर्शयति। विशेषापेक्षं सामान्यम्()। न चात्र कस्यचिद्विशेषो वाच्यो यदपेक्षया सामान्यं स्यात्(), सर्वेषामत्यन्ताभिन्नार्थत्वात्(), अन्यथा पर्याया एवं न स्युः। कथं पुनज्र्ञायन्ते पर्याया एते? इत्याह--"एवं ह्रुक्तम्()" इत्यादि॥
बाल-मनोरमा
नामन्त्रिते समानाधिकरणे सामान्यवचनम् , ८।१।७३

नामन्त्रिते। आमन्त्रितम् अविद्यमानवदित्यनुवर्तते।"सामान्यवचन"मित्यनेन विशेष्यसमर्पकः शब्दो विवक्षितः। विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात्। तेन च विशेषणमाक्षिप्यते। समानाधिकरणे इति तत्रान्वेति। समानम् अधिकरणं यस्येति विग्रहः। समानशब्द एकत्वपरः। विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह-विशेष्यमित्यादिना। हरे दयालो इति। अत्र "दयालो" इति समानाधिकरणविशेषणे परे हरिशब्दो नाऽविद्यमानवत्। ततश्च "दयालो" इत्यस्याऽविद्यमानवत्त्वेऽपि "हरे" इति पदात्परत्वान्नसादेश इति भावः। अग्ने तेजस्विन्निति। इह " तेजस्वि"न्निति विशेषणे परे "अग्ने" इत्यस्य अविद्यमानवत्त्वाऽभावात्पदात्परत्वात्तेजस्विन्नित्यस्य निघात इति भावः।