पूर्वम्: ८।१।७३
अनन्तरम्: ८।२।१
 
सूत्रम्
सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्)॥ ८।१।७४
काशिका-वृत्तिः
विभाषितं विशेषवचने बहुवचनम् ८।१।७४

पूर्वेण विद्यमानवत्त्वे प्रतिषेद्धे विकल्प उच्यते। विशेषवचने समानाधिकरने आमन्त्रितान्ते परतः पूर्वम् आमन्त्रितं बहुवचनान्तं विभाषितम् अविद्यमानवद् भवति। देवाः शरण्याः, देवाः शरण्याः। ब्राहमणा वैयाकरणाः, ब्राह्मणाः वैयाकरणाः। सामान्यवचनाधिकारदेव विशेषवचने इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम्। भुवचनम् इति किम्? माणवक जटिलक। नित्यम् एतद् विद्यमानवदेव। इति वामनकाशिकायां वृत्तौ अष्टमस्य अध्यायस्य प्रथमः पादः। अष्टमाध्यायस्य द्वितीयः पादः।
न्यासः
विभाषितं विशेषवचने बहुवचनम्?। , ८।१।७४

पूर्वेण नित्यं विद्यमानवत्त्वे प्राप्ति विकल्पार्थमिदं वचनम्()। "देवाः शरण्याः" इति। यदाऽविद्यमानवत्त्वं तदा शरन्या इत्यस्यामन्त्रिताद्युदात्तत्वं भवति; अन्यथा निघातः। एवं "ब्राआहृणा वैयाकरणाः" इत्यात्रापि वैयाकरणशब्दस्याद्युदात्तत्वम्(), पाक्षिकनिघातश्च वेदितव्यः। अथ विशेषवचनं किमर्थम्(), यावता "सामान्यवचनम्()" इत्यनुवत्र्तते, सामान्यञ्च विशषापेक्षम्(), तत्रान्तरेणापि विशेषवचनं विशेषवचनं विज्ञास्यते? इत्यत आब--"सामान्यवचनाधिकारादेव" इत्यादि। य एवं न शक्नोति मन्दधीः प्रतिपत्तुम्(), तं प्रति विस्पष्टार्थ विशेषवचनग्रहणं क्रियते। यदि तर्हि सामान्यस्य विशेषापेक्षत्वात्? सामान्यवचनग्रहणाद्विशेषवचने कार्यं विज्ञायते, तत्र पूर्वसूत्रेऽपि ८।१।७३ तत्रैव कार्यं विज्ञायते, तथा च देवदत्त यज्ञवत्तेति प्रत्युदाहरणं द्वयङ्गविकलं स्यात्(); तथा हि यथा यज्ञदत्तशब्दो न समानाधिकरणो भवति, तथा विशेषवचनोऽपि। अथासौ विशेषवचनः? एवं सति यथाऽग्ने गृहपत इत्यत्राग्निशब्दः सामान्यवचनोऽपि गृहपतिशभ्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तदग्नि विशेषणं भवति गृहपतिशब्दस्तेन समानाधिकरणः, एवं देवदत्तशब्दो विशेषाभिधायिना यज्ञदत्तशपब्देन व्यवच्छिद्यमानस्तद्वच्य एव विशेषेऽवतिष्ठत इति यज्ञदत्तशब्दस्तेन समाधिकरण इति चिन्त्यमेतत्()॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायामष्टमाध्यायस्य प्रथमः पादः - - - अथाष्टमाऽध्यायः द्वितीयः पादः
बाल-मनोरमा
विभाषितं विशेषवचने , ८।१।७४

सु=शोभनौ पादौ यस्येति बहुव्रीहौ "संख्यासुपूर्वस्ये"ति पादशब्दान्त्यलोपे सुपाच्छब्दः। तस्य सुटि रूपाण्याह--सुपादित्यादिना।

तत्त्व-बोधिनी
विभाषितं विशेषवचने ३६४, ८।१।७४

अग्ने तेजस्विन्निति। इह पदात्पपरत्वात्तेजस्विन्नित्यस्य "आमन्त्रिस्य चे"त्याष्टमिकनिघातः सर्वानुदात्तः।

तत्त्व-बोधिनी
विभाषितं विशेषवचने ३६५, ८।१।७४

सुपादिति। शोभनौ पादौ यस्येति बहुव्रीहिः। सङ्ख्यासुपूर्वस्याऽन्तलोपः।