पूर्वम्: ८।२।९
अनन्तरम्: ८।२।११
 
सूत्रम्
झयः॥ ८।२।१०
काशिका-वृत्तिः
झयः ८।२।१०

झयन्तादुत्तरस्य मतोः वः इत्ययम् आदेशो भवति। अग्निचित्वान् ग्रामः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान्। दृषद्वान् देशः।
लघु-सिद्धान्त-कौमुदी
झयः १०६७, ८।२।१०

झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥
न्यासः
झयः। , ८।२।१०

"अग्निचित्वान्()" इति। "तसौ मत्वर्थे" १।४।१९ इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वं न भवति॥
बाल-मनोरमा
झयः १८७३, ८।२।१०

अथ "विद्युत्वा"नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह--झयः। अपदान्तत्वादिति। तसौ मत्वर्थे" इति भत्वेन पदत्वबाधादिति भावः।

तत्त्व-बोधिनी
झयः १४४२, ८।२।१०

झयः। इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम्। तदाह----झयन्तादिति। विद्युत्वानिति। एतेन "वह्निमद्वा"निति नैयायिकप्रयोगो निरस्तः। उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः। मत्वन्तान्मतुपो निषेधाच्च। ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृते "झयः"इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात् "प्रत्यये भाषायां नित्य"मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत। मैवम्। घत्वढत्वयोरसिद्धत्वेन "झयः"इति वत्वाऽप्रवृत्तेः।