पूर्वम्: ८।२।१०४
अनन्तरम्: ८।२।१०६
 
सूत्रम्
अनन्त्यस्यापि प्रश्नाख्यानयोः॥ ८।२।१०५
काशिका-वृत्तिः
अनन्त्यस्य अपि प्रश्नाख्यानयोः ८।२।१०५

पदस्य इति वर्तते, स्वरितम् इति च। अनन्त्यस्य अपि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च। अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ। सर्वेषम् एव पदानाम् एष स्वरितः प्लुतः। अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः ८।२।१०० इति अनुदत्तो ऽपि पक्षे भवति। आख्याने अगम३ः पूर्वा३न् ग्रामा३न् भो३ः।
न्यासः
अनन्त्यस्यापि प्रश्नाख्यानयोः। , ८।२।१०५

"अन्त्यस्य तु" इत्यादि। तुशब्दः पदान्तरेभ्यो विशेषं दर्शयति। अन्त्यस्येत्यनेनापि स्वरितः, "अनुदात्तं प्रश्नान्ताभिपूजितयोः" ८।२।१०० इत्यनेनाप्यनुदात्तः; तयोश्चैकत्र यौगपद्यं न सम्भवति। तत्र वचनप्रामाण्यादनुदात्तोऽपि पक्षे न भवति, स्वरितोऽपि॥