पूर्वम्: ८।२।१६
अनन्तरम्: ८।२।१८
 
सूत्रम्
नाद्घस्य॥ ८।२।१७
काशिका-वृत्तिः
नाद् घस्य ८।२।१७

नकारान्तातुत्तरस्य घसंज्ञाकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः। भूरिदाव्नस्तुड् वक्तव्यः। भूरिदावत्तरः। ईद् रथिनः। रथिनः ईकारान्तादेशो धे परतः। रथीतरः। रथशब्दादेव वा मत्वर्थीयो ऽयम् ईकारः छन्दसीवनिपौ इति।
न्यासः
नादघस्य। , ८।२।१७

"सुपथिन्तरः" इति। शोभनः पन्था इति प्रादिसमासः--सुपन्थाः, सुशब्दात्? "न पूजनात्()" (५।४।६९) इति प्रतिषेधात्? "ऋक्पूरब्धूः" ५।४।७४ इत्यादिना समासान्तो न भवति, तरप्()। "दल्युहन्तमः"। दस्युं हतवानिति क्विप्(), तदन्तात्? तमप्()। "भूरिदावत्तरः" इति। भूरि वदातीति "आतो मनिन्()" ३।२।७४ इत्यादिना वनिप्(), तदन्तादुत्तरपदस्य तुट्()। "रथीतरः" इति। रथिन्नित्येतस्मान्मत्वर्थीयेनिप्रत्ययान्तात्? तरप्(), नकारस्य लोपः, ईकारः अथ वा--नकारस्यैवेकारः, सवर्णदीर्घत्वम्()॥