पूर्वम्: ८।२।१
अनन्तरम्: ८।२।३
 
सूत्रम्
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति॥ ८।२।२
काशिका-वृत्तिः
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ८।२।२

नलोपः पूर्वत्र असिद्धो भवति सुब्विधौ, स्वरविधौ, सज्ञाविधौ, तुग्विधौ च कृति। विधिशब्दो ऽयं प्रत्येकम् अभिसम्बध्यमानः स्वरसंज्ञातुकां विधेयत्वात् तैः कर्मषष्ठीयुक्तैः भावसाधनो ऽभिसम्बध्यते। सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः। तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वो ऽसौ सुब्विधिः इति सर्वत्रासिद्धत्वं भवति। सुब्विधौ तावत् राजभिः, तक्षभिः इत्यत्र नलोपस्य असिद्धत्वाततो भिस ऐस् ७।१।९ इति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षसु इति सुपि च ७।३।१०२ इति, बहुवचने झल्येत् ७।३।१०३ इति दीर्घत्वमेत्वं च न भवति। स्वरविधौ राजवती इत्यत्र नलोपस्य असिद्धत्वातन्तो ऽवत्याः ६।१।२१४ इति न भवति। पञ्चार्मम्, दशार्मम्, इत्यत्र नलोपस्य असिद्धत्वातर्मे चावर्णं द्व्यच् त्र्यच् ६।२।९० इति पूर्वपदस्य आद्युदात्तत्वं न भवति। पञ्चदण्डी इत्यत्र नलोपस्य असिद्धत्वादिगन्ते द्विगौ इति पूर्वपदप्रकृतिस्वरो न भवति। संज्ञाविधौ पञ्च ब्राह्मण्यः, दश ब्राह्मण्यः इति नलोपस्य असिद्धत्वात् ष्णान्ता षट् १।१।२३ इति षट्संज्ञा भवति, ततश्च न षट्स्वस्रादिभ्यः ४।१।१० इति टापः प्रतिषेधो भवति। तदेतत् प्रयोजनं कथं भवति? यदि प्रतिकार्यं संज्ञाप्रवृत्तिः इत्येतद् दर्शनम्। या हि जश्शसोर्लुगर्था षट्संज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियते इति सा पुनः प्रवर्तयितव्या इति। तुग्विधौ वृत्रहभ्याम्, वृत्रहभिः इति नलोपस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् ६।१।६९ इति तुग् न भवति। अत्र केचित् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तुकं प्रति नलोपस्य अनिमित्तत्वात्, बहिरङ्गलक्षणेन वा असिद्धत्वात्, तुग्विधिग्रहणम् अनर्थकम् इति प्रतिपन्नाः। तत् तु क्रियते परिभाषद्वयस्य अनित्यत्वं ज्ञापयितुम्। कृति इति किम्? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च ६।१।७१ इति तुग् भवति। अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्वेव नलोपो असिद्धो भवति, न अन्यत्र। तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश्च सिद्धो भवति।
लघु-सिद्धान्त-कौमुदी
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति २८४, ८।२।२

सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥
न्यासः
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति। , ८।२।२

कृतोत्येतदनन्तरोक्तेन तुग्ग्रहणेनैव सम्बध्यते, न तु सर्वेः सुबादिभिः; अन्यथा यथा विधिशब्दस्य प्रत्येकं विधिसम्बन्धो दर्शितः, तथाऽस्यापि सम्बन्धं दर्शयेत्()। इहायं विधिशब्दः सुबादिभिःसम्बध्यमानो भावसाधनो वा सम्बध्येत? कर्मसाधनो वा? तत्राद्ये पक्ष आश्रीयमाणे--राजभिः, तक्षभिरित्यत्रैस्भावे कत्र्तव्ये नलोपस्यासिद्धत्वं न प्राप्नोति, भावसाधने हि यत्रासतो विधानं तत्रासिद्धत्वेन भवितव्यम्(), न तु सतः। न चात्रासतः सुपो विधानम्(); किं तर्हि? सत एव, यतस्तस्य स्थान ऐस्भावस्य राजभ्यां राजभ्य इत्यत्रापि "सुपि च" ७।३।१०२ इति दीर्घत्वे "बहुवचने झल्येत्()" ७।३।१०३ इत्येत्त्वे च कत्र्तव्ये नैवासिद्धत्वं प्राप्नोति; यस्मादिह सुपि परतो दीर्घत्वस्यैत्त्वस्य च विधानम्(), त्वसतः सुपः। इतर()स्मस्तु पक्षे स्वरसंज्ञातुकामसतामेव विधानेन लोपस्यासिद्धत्वमिष्यते, एतच्च न सिध्यति; कर्मसाधने हि विधिशब्दे तैः सम्बाध्यमाने सतामेव तेषामन्यस्मिन्? कार्ये विधीयमाने सत्यसिद्धत्वेन भवितव्यम्(), न तु तेषामसतां विधानेन ["विधानेन तु"--प्रांउ।पाठः] शक्यते वक्तुम्()--सुपा कर्मसाधनः सम्बध्यते, स्वरादिभिश्च भावसाधन इति। एको ह्रय#ं विधिशब्दः सूत्रोपात्तः, स च भावसाधनो वा स्यात्(), कर्मसाधनो वेति; न तूभयसाधनः, न ह्रेकस्योभयसाधनत्वमुपपद्यत इति? --एतच्चोद्यमपाकत्र्तमाह--"विधिशब्दोऽयम्()" इत्यादि। यद्येव विधिशब्दः सुप्स्वरादिभिः समुदायेन सम्बध्यते, तदा स्यादयं दोषः। न च समुदायेन सम्बध्यते, किं तर्हि? सुबादिभिः प्रत्येकम्। प्रत्येकञ्चास्मिन्? सम्बध्यमाने यावद्भिः सहायं सम्बध्यते तावन्त्येव स्वरादिदिधौ मलोपोऽसिद्धो भवतीत्येवमादीनि वाक्यानि भवन्ति। नलोपः सुप्स्वरसंज्ञातुग्विधिष्वेतद्ग्रहणकवाक्यं तेषामेव। निबन्धनम्()। तेषु च भिन्नेषु वाक्येषु विधिशब्दोऽपि भिन्न एव। तत्र कश्चिद्भावसाधनः, कश्चित्कर्मसाधनः। तत्र स्वरसंज्ञातुकामसतामेव विधाने कत्र्तव्ये नलोपस्यासिद्धत्वमुच्यते, तेन च ते विधीयमानत्वात्? कर्मभावमापद्यन्ते। ततो भावसाधनेन विधिशब्देन कर्मणोऽनभिहितत्वादेषु "कर्त्तृकर्मणो कृति" २।३।६५ इति षष्ठ()आ भवितव्यम्()। तेन तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसम्बध्यते, सुपा च सम्बन्धसामान्यवचनषष्ठ()न्तेन। "कर्मसाधनः" इति। सुपो विधीयमानेन कार्येण सम्बन्धमात्रम्()। सम्बन्धसामान्ये षष्ठी तु यत्र "शेषे" २।३।५० इति षष्ठी विधीयते तत्र वेदितव्यम्()। सम्बन्धसामान्यस्य वचनीति षष्ठीसमासः, सा चासौ षष्ठी चेति विशेषणसमासः सम्बन्धसामान्यवचनषष्ठी अन्ते यस्य सुपः स तथोक्तः। कर्मषष्ठीयुक्तेन सुपा कर्मसाधनस्य विधिशब्दस्य सम्बन्धो नोपपद्यते; कर्मषष्ठ()नुपपत्तेः। यदि हि सुप्? कर्म स्यात्? तत्र कर्मणि षष्ठी स्यात्(), न चासौ सुप्? कर्म; सुपो विधीयमानत्वात्()। तत्तु तत्सम्बन्धिकार्यम्()। विधीयमानत्वात्? कर्म तद्विधिशब्देनोक्तम्()। अतस्तत्रापि तावत्? कर्मषष्टो न सम्भवति, किं पुनरकर्मणि सुपि! ["सुप्()"--कांउ।पाठः] "तेन" इत्यादि। यस्मात्? सम्बन्धमात्राभिधायिनी या षष्ठी तदन्तेन सुपा कर्मसाधनो विधिशब्दः सम्बध्यते, तेन हेतुना सुपः स्थाने यो विधिर्भिस ऐस्भावः, सुपि परतः यो विधिर्दीर्घत्वादिर्यस्य सुब्निमित्तं सर्वोऽसौ सुप्सम्बन्धी भवतीति सर्वत्राप्यसिद्धत्वं भवति। ननु च "षष्ठी स्थानेयोया" (१।१।४९) इति वचनात्? सम्बन्धविशेषे षष्ठ()आ भवितव्यम्(), न तु सम्बन्धसामान्ये। ततश्च सुप एव स्थाने यत्? कार्यं तत्रैवासिद्धत्वं स्यात्(), नान्यत्र? नैतदस्ति; यत्र ह्रादेशो विधीयते--"अस्तेर्भूः" २।४।५२ इत्येवमादौ तत्रास्याः परिभाषाया व्यापारः, न तु यत्र लक्षणान्तरेण विहितं कार्यं कार्यान्तरार्थ मुपादीयते तत्रापि; अन्यथा "उदीकारस्तस्य ग्रहणं भवति। ननु चेह सुपामादेशो न विधीयते, किं तर्हि? लक्षणान्तरविहितस्यापि सिद्धत्वम्()। तस्मान्नान्न स्थानेयोगपरिभाषाया १।१।४८ व्यापारः। "राजवती" इत्यादि। राजशब्दाद्()मतुप्(), "उगितश्च" ५।१।६ इति ङीपि कृते अन्तोऽबत्या" ६।१।२१४ इत्यन्तोदात्तत्वं प्राप्नोति। नलोपस्यासिद्धतवान्नायमवतीशब्द इति न भवति। तस्मिन्नसति "कनिन्युवृवितक्षिराजिधन्विद्युप्रतिदिवः" (द।उ।६।५१) इति राजशब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वात्? राजवतीशब्द आद्युदात्त एव भवति। "पञ्चार्भम्(), दशार्मम्()" इति। "दिक्संख्ये संज्ञायाम्()" २।१।४९ इति मासः। अत्र नलोपे कृतेऽवर्णान्तं पूर्वपद जातमिति "अर्भे चावर्णम्()" ६।२।९० इत्यादिना सूत्रेण तस्याद्युदात्तत्वं प्राप्नोति, असिद्धत्वान्न भवति, समासान्तोदात्तत्वमेव ६।१।२१७ भवति। "पञ्चदण्डि" [पञ्चदण्डी--काशिका] इति। पञ्चानां दणाडिनां समाहार इति "तद्धितार्थ" २।१।५० इत्यादिना समासः, समाहाहे द्विगुः, "स नपुंसकम्()" २।४।१७ इति नपुंसकत्वम्()। नलोपे कृत इगन्तता जातेति "इगन्तकालकपालभगालशरावेषु द्विगौ" ६।२।२९ इति पूर्वपदस्य प्रकृतिस्वरः प्राप्नोति, नलोपस्यासिद्धत्वान्न भवकति, समासान्तोदात्तत्वमेव ६।१।२१७ भवति। "तदेतत्()" इत्यादि। इह केषाञ्चिदेकयैव संज्ञयाऽनेकसंज्ञाकार्यं क्रियते--"यावन्ति संज्ञाकार्याणि तत्रैकैव संज्ञा प्रवत्र्तते" इति। दर्शनम्()। अन्येषां तु "यथा संज्ञयैककार्यं क्रियते तयैवान्यम्(), अतो यावन्ति संज्ञाकार्याणि तावस्य एव संज्ञाः प्रवत्र्तन्ते इति दर्शनम्()। तत्र पूर्वस्मिन्? दर्शने नेदं प्रयोजनम्(); ययैव हि पाक्प्रवृत्त्या संज्ञया "षङ्भ्यो लुक्()" ७।१।२२ इति जश्शसोर्लुक्कार्यं कृतं तयैव हि टाप्प्रतिषेधो भविष्यति। तस्मादितरस्मिन्? दर्शने तत्? प्रयोजनं भवति। अत्रापि कथमेतत्? प्रयोजनं भवति? इत्याह--"या हि" इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्ते। यस्माज्जश्शसोर्लुगर्था या षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न भवति, तस्मात्? पुनः सा प्रवत्र्तयितव्या। यस्मात्? सा प्रवत्र्तयितव्या तस्मादेतत्? प्रयोजनमित्यर्थः। "वृत्रहाभ्याम्(), वृत्रहभिः" इति। वृत्रं हतवानिति "ब्राहृभ्रूणवृत्रेषु क्विप" (३।२।८७) तदन्तात्? भ्याम्भिसौ, ततर नलोपे कृते "ह्यस्वस्य पिति कृति तुक्()" ६।१।६९ स्यात्(), असिद्धत्वान्न भवति। "अत्र केचित्()" इत्यादि। सन्निपातः=आनन्तर्यम्(), तल्लक्षणं निमित्तं यस्य न तथोक्तः। सुपः सन्निपातेन नलोपः। स यदि तुकं प्रवत्र्तयेत्? तत्? सन्निपातं विहन्यात्()। अनिमित्तञ्च "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।पा।१२) इति। तस्मान्नलोपस्तुकं न प्रवत्र्तयतीति तुग्ग्रहणमनर्थकम्()। ननु च तुकः पूर्वान्तत्वात्? तुक्? प्रातपदिकग्रहणेनैव गुह्रते, तत्? कुतस्तस्य सन्निपातस्य विघातः, न हि स्वावयवेनैव स्वस्य व्यवधानमुपपद्यते? नैतदस्ति; ह्यस्वो ह्रागमी तुकः, न तदन्तः समुदायः, तत्कुतस्तस्य प्रातिपदिकग्रहणेन ग्रहणम्()? बहिरङ्गलक्षणेन वासिद्धत्वात्? तुकं प्रति नलोपस्य, तुग्विधिग्रहणमनर्थकम्()। पदस्य बाहृविभक्तिप्रत्ययमाश्रित्य नलोपो विधीयत इति तस्य बहिरङ्गत्वम्(), अन्तर्वर्तिनं पदमाश्रित्य वर्णस्य तुग्विधीयत इति तस्यान्तरङ्गत्वमिति--"असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इति। यद्येवम्(), युक्तमेवेति प्रतिपन्ना#ः, तत्किमर्थं तुग्ग्रहणं क्रियते? इत्यत आह--"तत्? क्रियते" इत्यादि। अनित्यत्वज्ञापने तु सन्निपातलक्षणपरिभाषायाः प्रयोजनम्()--"दृक्षाय" इत्यत्र "सुपि च" ७।३।१०२ इति दीर्घत्वसिद्धिः। अकारान्ततासन्निपाते हि ङेर्यो ७।१।१३ विधीयत इति; तन्निमित्तत्वादिति दीर्घत्वनिमित्तभावोपगमनद्वारेण तद्विघातं न कुर्यात्()। अनित्यत्वात्त्? करोति। अन्यच्चात्र प्रयोजनमुत्तरत्रैव वक्ष्यते। बहिरङ्गलक्षणपरिभाषया सुप्यनित्वस्य ज्ञापने--एषा, द्वे इतयत्र टाप्सिद्धिः। अत्र हि त्यादद्यत्वस्य विभक्त्याश्रयत्वाद्बहिरङ्गत्वम्(), प्रातिपदिकाश्रयत्वाट्टाबन्तरङ्गः। तत्र टाप कत्र्तव्ये त्यदाद्यत्वस्यासिद्धत्वं स्यात्, ततष्टाप्? न सिद्ध्येत्()। अनित्यत्वात्तु सिध्यति। प्रतिदीब्नेत्यत्र "हलि च" ८।२।७७ इति दीर्घत्वसिद्धिः प्रयोजनम्()। असति तस्यानित्यत्वे "हलि च" इति दीर्घत्वे कत्र्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्? हलि परतो वकारान्तो धातुर्नं भवतीति दीर्घत्वं न स्यात्()। अनित्यत्वात्तु सिद्ध्यति। "राजीयति" इति। "सुप आत्मनः क्यच्()" ३।१।८ इति क्यच्(), "क्यचि च" ७।४।३३ इतीत्त्वम्()। "राजायते" इति। "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति क्यङ् "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "राजश्यः" इति। "अकः सवर्णो दीर्घः" ६।१।९७
बाल-मनोरमा
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति , ८।२।२

नच नलोपस्याऽसिद्धत्वादिह दीर्घ ऐस् एत्त्वं च नेति वाच्यं, नलोपविषये "पूर्वत्राऽसिद्ध"मित्यस्य प्रवृत्तौ राजा()आओ दण्ड()श्च इत्यादावपि नलोपस्याऽसिद्धत्वात्सवर्णदीर्घ यणाद्यनापत्तेरित्यत आह--नलोपः सुप्। नस्य लोपो नलोपः। विधिशब्दो भावसाधनः, विधानं विधिः। सुप्च स्वरश्च संज्ञा च तुक्च तेषां विधय इति सम्बन्धसामान्यषष्ठ()आ समासः। "कृती"ति तु तुकैव सम्बध्यते, अन्यत्राऽसम्भवात्तदाह--सुब्विधावित्यादिना। सुपो विधिः सुब्विधिः। सम्बन्धसामान्यं विवक्षितम्। सुबाश्रयविधाविति यावत्। स्वरस्य विधिः। कर्मणः शेषत्वविवक्षया षष्ठी। स्वरे विधेये इति यावत्। एवं संज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी। संज्ञायां विधेयायामिति यावत्। कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः। इहापि कर्मणः शेषत्वविवक्षया षष्ठी। कृति परे यस्तुक्। तस्मिन् विधेये इति यावत्। "पूर्वत्रासिद्ध"मित्येव सिद्धेऽन्यनिवृत्तिफलकनियमार्थमेतदित्याह--नान्यत्रेति। "अन्यत्रे"त्येतदुदाह्मत्य दर्शयति-राजा()आ इत्यादाविति। आदिना दण्डय()आ इत्यादिसङ्ग्रहः। अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्यटाद्यनन्तर्भावात्तेषु कर्तव्येषु नलोपस्याऽसिद्धत्वाऽभावे सति नकारलोपस्य सत्त्वात्सवर्णदीर्घादिकं निर्बाधमिति भावः। प्रकृते-राजाभ्यां राजभ्य इत्यत्र दीर्घादिन भवत्येवेत्याह--इत्यसिद्धत्वादिति। सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्त्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसङ्ख्याविधिलभ्याऽसिद्धत्वनिषेधाऽभावे सति "पूर्वत्रासिद्ध"मिति नलोपस्याऽसिद्धत्वान्नदीर्घादिकमित्यर्थः। वस्तुतस्त्वन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम्। अत एव "पञ्च पञ्चनखा भक्ष्याः" इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदितरेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशाह्निकभाष्ये प्रपञ्चितम्। तदाह-इत्यसिद्धत्वादिति। ननु दण्डिष्वित्यत्र नलोपे कृत इणः परत्वात्सस्य षत्वमिति स्थितिः। तत्र षत्वविधेः सुबाश्रयविधित्वात्तत्र कर्तव्ये नलोपस्याऽसिद्धत्वात्कथं षत्वमिति चेत्, मैवं--न हि षत्वविधि सुब्विधिः। सुप्त्वं तद्व्याप्यधर्मं वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः। नच षत्वविधिस्तथा। अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम्। अस्तु वा षत्वविधिरपि सुब्बिधिस्तथापि तस्मिन् कर्तव्ये नलोपस्याऽसिद्धत्वं न भवत्येव। तदसिद्धत्वंहि किं "पूर्वत्रासिद्ध"मित्यनेनापाद्यते, उत "नलोपः सुप्स्वरे"त्यनेनैव?। न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्येऽसिद्धत्वाऽसंभवात्। न द्वितीयः, "नलोपः सुप्स्वरे"त्यनेन हि "राजभ्या"मित्यादौ नलोपस्याऽसिद्धत्वमपूर्वं न विधीयते, किंतु "पूर्वत्रासिद्ध"मित्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते "राजा()आ" इत्यादौ सुप्स्वरसंज्ञातुग्बिधिभिन्नसवर्णदीर्घादिविधिसिद्धये। दण्डिष्वित्यत्र तु नलोपस्याऽसिद्धत्वं "पूर्वत्रासिद्ध"मित्यनेन प्राप्तं न भवतीति तस्य "नलोपः सुप्स्वरे"ति सूत्रविषयत्वं न सम्भवति। अन्यथा सुब्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपाऽसिद्धत्वमपूर्वं विधीयेत। राजभ्या"मित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत, तस्माद्दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावान्नलोपस्य सत्त्वादिणः परत्वाऽनपायात्षत्वं निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम्। प्रकृतमनुसरामः। स्वरविधौ यथा-पञ्चार्मम्। अत्र नलोपस्याऽसिद्धत्वादकारान्तत्वाऽभावात् "अर्मेचावर्णं द्व्यच्ञ्य"जिति पूर्वपदाद्युदात्तत्वं न भवति। संज्ञाविधौ यथा-दण्डिदत्तौ दत्तदण्डिनौ। अत्र "द्वन्द्वे धी"ति पूर्वनिपातनियमो न भवति, घिसंज्ञाविधौ नलोपस्याऽसिद्धत्वेन इदन्तत्वविरहात्। कृतितुग्विधौ यथा-वृत्रहभ्याम् वृत्रहभिः। अत्र "ब्राहृभ्रूणवृत्रेषु क्वि"बिति विहितं क्विपमाश्रित्य "ह्यस्वस्य पिति कृति तुगि"ति न तुक्, नलोपस्याऽसिद्धत्वेन ह्यस्वस्य नकारव्यवहितत्वात्। कृतीति विशेषणाच्छे चे"ति तुग्विधौ नलोपस्य नाऽसिद्धत्वम्। ततश्च वृत्रहच्छत्रम्। इह स्यादेव "छे चे"ति तुक्। भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेऽपि संनिपातपरिभाषया "ह्यस्वस्य पिती"ति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम्। "स्वादिषु" इति पदत्वद्वारा भ्याम्()संनिपातमिमित्तको नलोपस्तद्विघातकं न प्रवर्तयतीत्याशयः।

ननु "वृत्रहधन"मित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकं, तत्र नलोपस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य संनिपातनिमित्तकत्वाऽभावादिति चेन्न, तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येनतादृशसंनिपाताऽनिमित्तकनलोपविषयाणां "वृत्रहझन"मित्यादीनामनिधानकल्पनादित्यास्तां तावत्। राज्ञि-राजनीति। "विभाषा ङिश्योः" इत्यल्लोपविकल्प इति भावः। प्रतिदिवेति। "दिवु क्रीडादौ"। तस्मात् "कनिन्युवृषितक्षी"त्युणादिसूत्रेण कनिन्प्रत्ययः। कनावितौ। इकार उच्चारणार्थः। प्रतिदिवन्शब्दात्सुबुत्पत्तिः। "सर्वनामस्थाने चे"ति दीर्घः। हल्ङ्यादिना सुलोपे "प्रतिदिवा" इति रूपम्। सुटि राजवत्। अस्येति। प्रतिदवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः।

तत्त्व-बोधिनी
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ३१३, ८।२।२

नलोपः सुप्स्वर। "पूर्वत्रासिद्ध"मित्यनेनैव नियमार्थोऽयमारम्भ इत्याह--नान्यत्रेत्यादि। तेन "राजा()आ"इत्यादौ सवर्णदीर्घो कर्तव्ये नलोपोऽसिद्धो न भवतीति भावः। सुब्विधिमिदाहरति--आत्वमित्यादिना। सुबाश्रितो विधिः--सुब्विधिः। स्वरविधौ तु "पञ्चार्मम्"। "दिक्सङ्खये संज्ञाया"मिति समासे नलोपे कृते अवर्णान्तं पूर्वपदं जातमिति "अर्मे चाऽवर्णं द्द्यच्त्र्य"जिति पूर्वपदाद्युदात्तत्वं प्राप्तंनलोपस्यादिद्धत्वान्न भवति।थ संज्ञाविधौ "पञ्चेत्यत्र नलोपे कृतेऽपी"त्यादिना स्त्रीप्रत्ययेषु वक्ष्यति। अन्येतु--"दण्डिगुप्तौ""गुप्दण्डिना"वित्यप्युदाहरन्ति। अत्र नलोपस्याऽसिद्धत्वाद्धिसंज्ञा नास्तीति "द्वन्द्वे घी"ति पूर्वनिपातनियमो न भवतीत्याहुः। कृति तुग्विधाविति किम्? वृत्रहच्छत्रम्। इह स्यादेव "छे चे"ति तुक्। यद्यपि "वृत्रहभ्या"मित्यत्र "असिद्धं बहिरङ्गमन्तरङ्गे"इत्यनेनैव नलोपस्याऽसिद्धत्वं सिध्यति, तथाप्यस्याः परिभाषाया अनित्यत्वज्ञापनार्थं कृति तुग्ग्रहणं, तेन"या""से"त्यादि सिध्यति। अन्यथा विभक्त्यश्रयस्याऽत्वस्य बहिरङ्गत्वेनाऽसिद्धत्वाट्टाब्न स्यात्। एतच्च "नजानन्तर्ये बहिष्ट्वप्रक्लृप्ति"रित्यत्र "यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य"मिति हरदत्तादिमतेन कैश्चिदुक्तम्। "उत्तरकार्ये अच आनन्तर्य"मिति कैयटमते तु नाऽत्र बहिरङ्गपरिभाषा प्रवर्तते। "या""से"त्यत्र टाप्तु संनिपातपरिभाशषामपि बाधित्वा "न यासयो "रिति निर्देशादेव सिध्यतीति ज्ञेयम्। प्रतिदिवेति। "कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः"इति कनिन्।