पूर्वम्: ८।२।१९
अनन्तरम्: ८।२।२१
 
सूत्रम्
ग्रो यङि॥ ८।२।२०
काशिका-वृत्तिः
ग्रो यङि ८।२।२०

गृ̄ इत्येतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः। निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः। केचिद् ग्रः इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर् हि यङेव न अस्ति, अनभिधानादिति। यङि इति किम्? निगीर्यते।
न्यासः
॒वृ? वरणे॑ (धा।पा।१४९०) इत्यस्येदं ग्रहणं वा स्यात्??, २। अथ वा--अस्यान्येषाञ्च ऋकारान्तानाम्??, ३। उत्त तस्यान्येषाञ्च ऋकारान्तानाम्??, ४। आहोस्विद्? वृ?ङवृञोश्चान्येषाञ्च ऋकारान्तानाम्?? अथ वा--५। तयोश्च ऋकारान्तानाम्?? तत्र यदि प्रथमः पक्ष आश्रितः स्यात्? तदा यणादेशं कृत्वा ॒व्रः॑ इति निर्देशं कुर्यात्?, यथा--॒ग्रो यङि॑ , ८।२।२०

"वृ()त इति किम्()" इति। एवं मन्यते--"उर्षा" इत्येवं वक्तव्यम्(), एवमप्युच्यमाने वृङ्वृञोॠकारान्तयोः सवर्णग्रहणादृकारान्तानाञ्च ग्रहणं भविष्यति। एवमप्युच्यमाने सत्यतिप्रसङ्गो भवतीति दर्शयन्नाह--"करिष्यति, हरिष्यति" इति। अत्र "ऋद्धनोस्ये" ७।२।७० इतीट्()॥
न्यासः
ग्रो यङि। , ८।२।२०

"निजेगिल्यते" इति। "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्(), द्विर्ववचनम्(), अभ्यासकार्यम्()। "भावगर्हायां ग्रो यङ विहितः" इति। "लुपसदचर" ३।१।२४ इत्यादिना। "गिरतेः" इति। "गृ? निगरणे" (धा।पा।१४१०) इत्येतस्य तौदादिकस्य। "गृणातेः" इति। "गु शब्दे" (धा।पा।१४९८) इत्यस्य ॠयादिकस्य।"सामान्येन ग्रहणमिच्छन्ति" इति। विशेषणानुपादानात्()। "अपरे तु" इत्यादि। कथं पुनः सामान्योपादानेऽपि गिरतेरेव ग्रहणं लभ्यते? इत्याह--"गृणातेः" इत्यादि। किं "कारणं यङेव नास्ति? इत्याह--"अनभिधानात्()" इति। "निगीर्यते" इति। "सार्वधातुके यक्()" ३।१।६७, "हलि च" ८।२।७७ इति दीर्घः॥
तत्त्व-बोधिनी
ग्रो यङि ४०२, ८।२।२०

ग्रो यङि। "कृपो रो लः" इत्यतो रो ल इति वर्तते। तदाह-- रेफस्य लत्वमिति। चेक्रीयते। इति। परत्वाद्रीङि कृते द्विर्वचनम्। संचेस्क्रीयते इति। रीङि द्वित्वे च सुट्। न च "सं - कृ"इत्यस्यामवस्थायां द्वित्वात्परत्वात्सुटि कृते संयोगादित्वेन रीङ्प्रवृत्तेः प्राग्गुणः स्यादिति वाच्यम्, "अडभ्यासव्यवायेऽपी"त्यस्यारम्भेण अडभ्यासयोः कृतयोरेव सुण्न तु ततः प्रागिति सिद्धान्तात्।एतेन "सुटो बहिरङ्गत्वान्न संयोगादित्वेन गुण" इति केषांचित्समाधानं परास्तम्। अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्तत्वं च नास्तीति गुणप्राप्तेरभावात्। ननु "अडभ्यासव्यवायेऽपि सुट्कात्पूर्वः"इति वार्तिकप्रत्याख्यानाय "पूर्वं धातुरुपसर्गेण युज्यते" इति पक्षं स्वीकृत्य भाष्यकृता सं त्यादावन्तरङ्गत्वात्सुटि ससुक्टस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत्। तत्र हि सुटि कृते रीङं बाधित्वा पर्तवात् "यङि चे"ति गुणे संचास्कर्यत इत्यनिष्टरूपप्रसङ्गात्। यदि तु इष्टानुरोधेन "पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे"ति मताश्रयणेन रीङादेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हि "अडभ्यासव्यवायेऽपी"ति वचनं स्वीकर्तव्यमेव स्यादिति चेत्। अत्राहुः-- "अडभ्यासव्यवायेऽपी"ति वचनं स्वीकर्तव्यमेव स्यादिति चेत्। अत्राहुः-- अडभ्यासे"त्यादिवार्तिकं विनापि संचस्करतुरित्यादरूपसिद्धये भाष्याकृता "पूर्वं धातुरुपसर्गेण युज्यते" इति पक्ष आश्रितः। संचेस्क्रीयते संचस्करतुरित्यादिरूपसिद्धये समचेस्क्रियतेत्यादिसिद्धिस्तु वार्तिकायत्तैवेति।