पूर्वम्: ८।२।२१
अनन्तरम्: ८।२।२३
 
सूत्रम्
परेश्च घाङ्कयोः॥ ८।२।२२
काशिका-वृत्तिः
परेश् च घाङ्कयोः ८।२।२२

परि इत्येतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः परिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणम् अत्रेष्यते, न तरप्तमपौ इति। योगे चेति वक्तव्यम्। परियोगः, पलियोगः।