पूर्वम्: ८।२।२२
अनन्तरम्: ८।२।२४
 
सूत्रम्
संयोगान्तस्य लोपः॥ ८।२।२३
काशिका-वृत्तिः
संयोगान्तस्य लोपः ८।२।२३

संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वम् परम् अपि असिद्धत्वात् संयोगान्तसय् लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति। दध्यत्र, मध्वत्र, इत्यत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात् संयोगान्तलोपो न भवति।
लघु-सिद्धान्त-कौमुदी
संयोगान्तस्य लोपः २०, ८।२।२३

संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
न्यासः
संयोगान्तस्य लोपः। , ८।२।२३

"संयोगान्तस्य" इति। संयोगोऽन्तो यस्य तत्तथोक्तम्()। अन्तग्रहणं विस्पष्टार्थम्()। "पदस्य" ८।१।१६ इति हि वत्र्तते, तत्र संयोगेन पदे विशिष्यमाणे "येन विधिस्तदन्तरस्य" १।१।७१ इत्येव संयोगान्तता पदस्य लभ्यते। "गोमान्()" इति। हल्ङ्यादिलोपे कृतेऽलोऽन्त्यस्य लोपः १।१।५१, "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "क्षेयान्(), भूयान्()" इति। अत्र संयोगान्तलोपे न प्राप्नोति; परत्वाद्रुत्वेन बाध्यत इति यो मन्येत, तं प्रत्याह--"श्रेयान्(), भूयान्()" इत्यादि। यदि तर्हि परमपि रुत्वमसिद्धत्वात्? संयोगान्तसय बाधकं न भवति, एवं सत्यत एव हेतोर्जश्त्वस्यापि बाधकं न स्यात्(), ततश्च यशः, पय इति जशत्वमेव स्यात्(), न रुत्वम्()? इत्यत आह--"जश्त्वे तु" इत्यादि। संयोगान्तलोपे हि प्राप्ते चाप्राप्ते च रुत्वमारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युवतं यद्रुत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युक्तं यद्रूत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। तस्माद्बाधकलक्षणयोगाद्रुत्वं जश्तवस्य बाधकं भवत्येव। श्रेयानिति--"प्रहशस्यस्य श्रः" ५।३।६) इतीयसुनि श्रभावः, "आद्गुणः" ६।१।८४, "सान्तमहतः" ६।४।१० इति दीर्घः। भूयानिति--"बहोर्लोपो भू च बहोः" ६।४।१५८ इतीयसुनि ईकारस्य लोपः, बहोश्च भूभावः। अथ दध्यत्र, मध्वत्रेत्यत्र संयोगान्तलोपः कस्मान्न भवति? इत्याह--"दध्यात्र" इत्यादि। बहिरङ्गत्वं तु यणादेशस्य द्विपदाश्रयत्वात्()। संयोगान्तलोपस्य त्वेकपदाश्रयत्वादन्तरङ्गत्वम्()। पदस्येति किम्()? गोमन्तौ, गोमन्तः॥
बाल-मनोरमा
संयोगान्तस्य लोपः ५६, ८।२।२३

तदाह--प्रसक्तस्येति। तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते। प्रसक्तस्य किम्? दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्यस्वस्य पिति कृतीति तुग्मा भूत्। संयोगान्तस्य लोपः। पदस्येत्यधिकृतम्। संयोगोऽन्तो यस्येति विग्रहः। संयोगान्तस्य पदस्य लोप इत्यन्वयः। न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव। तदाह--संयोगान्तमित्यादिना। अत्र अन्तग्रहणं स्पष्टार्थमेव। संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात्। यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम्। अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या।ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः।

इति यलोप इति। सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते। यणः प्रतिषेधो वाच्यः। यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः। "अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती"ति शेषः। इदं वार्तिकमाकरे प्रत्याख्यातम्।

अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह--यणो मयो द्वे वाच्ये। अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः। ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते। प्रकृते च यकारो न यणः परो नापि मय्। अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह--मय इतीति। "पक्षे" इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम्। विनिगमनाविरहादिति भावः। अत्रापि वार्तिके "यरोऽनुनासिक" इत्यतो "वा" ग्रहणमनुवर्तते। ततश्च फलितमाह--तदिहेति। "त"दित्यव्यम्। इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः। एकधमेकयमिति। एको धकारो यस्य तदेकधम्। एवमेकयमित्यपि। धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः। द्विधं द्वियमिति। द्वो धाकारौ यस्य द्विधम्। एवं द्वयमित्यपि। धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः। द्विधमेकयमिति। धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः। एकधं द्वियमिति। धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः। सुद्ध्युपास्य इति। इह "न भूसुधियो"रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात्। "इकोऽसवर्ण" इत्यपि न, "न समासे इति तन्निषेधात्। मद्ध्वरिरिति। मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः--मद्ध्वरिः। हरिरित्यर्थः। अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः। न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात्। अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः। धात्रंश इति। अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते। लाकृतिरिति। लृवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः। अत्र आकारे परे लृवर्णस्य दन्तस्थानसाम्याल्लकारः। न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु। आन्तरतम्ये य()त्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्,?त्र हि चत्वारो यणो यवरला विधेयाः। तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः। लाकृतिरित्यत्र लृवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम्। अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते। यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात्। अतोऽत्र लृवर्णस्य लकार एवेत्यास्तां तावत्।

तत्त्व-बोधिनी
संयोगान्तस्य लोपः ४८, ८।२।२३

संयोगान्तस्य। तदन्तस्येति। अलोऽन्त्यस्ये"ति परिभाषयेति भावः। यद्यपि विशेषणेन तदन्तविधिवलाभात्संयोगस्येत्येव सूत्रयितुमुचितं तथापि "प्रत्येकं संयोगसंज्ञे"ति पक्षे "दृष्टत्करोती"त्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणमिति मनोरमायां स्थितम्। "संयोग" इति महासंज्ञाकरणसामथ्र्यादेकस्य संयोगसंज्ञा न भविष्यतीति अन्तग्रहणमिह त्यक्तुं शक्यम्।

यणः प्रतिषेधः इति। वाचनिकमिदम्। यद्वा वाच्यो=व्याख्येयः। व्याख्या च द्वेधा, "झलो झली"त्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयत इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा। न च षाष्ठी परिभाषा त्रैपादिकमन्तरङ्गलोपं न पश्यतीति वाच्यम्; कार्यकालपक्षाभ्युपगमात्। न च "नाजानन्तर्ये" इति निषेधः, उत्तरकालप्रवृत्ते लोपेऽजानन्तर्याभावात्। तदुक्तम्-"संयोगान्तलोपे यणः प्रतिषेधः"। "न वा झलो लोपात्" "बहिरङ्गलक्षणत्वाद्वे"ति।

चत्वारि रूपाणीति। इह धकारस्य द्वित्वे जश्त्वे च कृते "पूर्वत्रासिद्धीयमद्वित्वे" इति जशोऽसिद्धत्वाभावेन लक्ष्यभेदात्पुनर्दकारे द्वित्वप्रवृत्तौ रूपाधिक्यमस्ति। अत्र केचिदाहुः-"उकारात्पर्सय यरो द्वित्वे कृते पुनरुकारात्परस्य यरो द्वित्वं न भवति, निमित्तभादेभावादित्याशयेनेदमुक्तमिति। तेषां तु तुदादिगणे "वव्रश्चेत्यत्र उरदत्त्वस्य, अचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति वस्योत्वं ने"ति समाधानग्रन्थो मूलस्थो विरुध्येत, तन्निमित्तस्य लिटो भेदाऽभावादिति दिक्। अन्ये तु धकारस्य जश्त्वे कृते "पूर्वत्रासिद्धीयमद्वित्वे" इति जशोऽसिद्धत्वाबावाद्दकारे पुनर्द्वित्वं भवत्येव, व्यक्तिभेदात्। अत एव सय्यँन्तेत्यादौ परसवर्णद्वित्वं भाष्यकृता उदाह्मतम्। "षट्ट्स्सन्त" इत्यत्र सकारद्वित्वसिद्धये "पूर्वत्रासिद्धीयमद्वित्वे" इति मनोरमायामप्युक्तम्। एवं यकारेऽपि द्वित्वस्य पुनः प्रवृत्तौ क्षत्यभावः, आष्टमिकद्विर्वचनस्य स्थाने द्विर्वचनरूपत्वात्स्थान्यादेशव्यत्तयोश्च भेदात्। यत्तूक्तं मनोरमायायम्-"एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते" इति "एकः पूर्वपरयोः" इति सूत्रे भाष्ये सिद्धान्तितत्वात्कथं पुनर्द्वित्वप्रवृत्तिः, अन्यथा द्वित्वानन्त्यापत्ते"-रित्यादि, तदनवधाननिबन्धनम्,तत्राधानादिशास्त्रदृष्टान्तेन प्रयोगान्तरेऽपि गुणादिशास्त्रप्रवृत्तेरेव सिद्धान्तितत्वात्, न तु सकृच्छास्त्र प्रवृत्तेः। आनन्त्यापत्तिरपि प्रकृते न दोषः। सा हि अनन्तकार्यसहितप्रयोगस्याशक्यत्वात्तच्चास्त्रकत्र्तव्यस्य परिनिष्ठितप्रयोगस्याऽभावात्तच्छास्त्रस्याननुष्ठापकत्वापत्त्या दोषः। प्रकृते तु नास्ति, द्वित्वस्य वैकल्पिकत्वेन यावच्छक्ति द्वित्वप्रयोगसहितस्य परिनिष्ठितत्वेन तेनैव शास्त्रस्य कृतार्थत्वात्। "लिटि धातो"रिति द्वित्वस्य तु नित्यत्वादानन्त्यापत्तेः क्वचिद्विश्रान्तौ कल्पनीयायां लाघवात्प्रथमप्रवृत्तावेव विश्रान्तिकल्पनादनभ्यासग्रहणं प्रत्याख्यातम्। अत एव "सर्वस्य द्वे" इत्यस्यापि न पुनः पुनः प्रवृत्तिरित्याहुः। नन्वत्र "इकोऽसवर्णे" इति शाकल्यमतेन रूपान्तरमस्त्विति चेन्मैवम्; समासे तन्निषेधात्। न च नित्यसमास एव तन्निषेध इति वाच्यम्; "सिन्नित्यसमासयोः शाकलप्रतिषेधः" इति वार्तिकस्थनित्यग्रहणस्य भाष्ये प्रत्याख्यतत्वात्। मनोरमायां तु जश्त्वेन दकारे कृते तस्य द्वित्वं नेत्याद्य#आशयेन सकारद्वित्वेनाष्टौ, विसर्गाद्वित्वेन षोडशेत्युक्तम्। द्विधमिति। यद्यपि धस्य जश्त्वेन दकारे धद्वय नास्ति, तथापि भूतपूर्वगतिमाश्रित्यैवमुक्तम्। सुध्युपास्य इति। "कर्तृकरणे कृता बहुल"मिति तृतीयासमासः। नन्विह यणेव दुर्लभः, "सुधी"शब्दस्य ध्यायतेः संप्रसारणेन निष्पन्नत्वेन "संप्रसारणाच्चे"ति पूर्वरूपापत्तेरिति चेन्मैवम्, "संप्रसारणपूर्वत्वे समानाङ्गग्रहण"मिति वार्तिकोक्तेः। न चैवमपि " न भूसुधियो"रिति यण्निषेधः शङ्क्यः ; आङ्गत्वेन प्रत्यये परत एव तन्निषेधप्रवृत्तेः। "सुपी"त्यनुवर्त्त्य सुपि परत एव यण्निषेधाच्च। धात्रंश इति। अत्र रेफस्य द्वित्वं न, द्वित्वप्रकरणे "रहाभ्या"मिति साक्षाच्छ()तेन निमित्तभावेन रेफस्य कार्यित्वबाधनात्। "सुध्युपास्य" इत्यादौ तु स्थानित्वेन निमित्तत्वमिको न बाध्यते, "तस्मादित्युत्तरस्य" "वाय्वृतुपित्रुषसः" इत्यादिनिर्देशाज्ज्ञापकात्। तकारस्य तु द्वित्वं भवत्येव। तच्च वेत्यतो रूपद्वयम्।