पूर्वम्: ८।२।२५
अनन्तरम्: ८।२।२७
 
सूत्रम्
झलो झलि॥ ८।२।२६
काशिका-वृत्तिः
झलो झलि ८।२।२६

झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्त इत्यत्र वा सिचः सकारलोपस्य असिद्धत्वात् सः स्यार्धधातुके ७।४।४९ इति सकारस्य तकारः। झलः इति किम्? अमंस्त। अमंस्थाः। झलि इति किम्? अभित्साताम्। अभित्सत। अयम् अपि सिच एव लोपः, तेन इह न भवति, सोमसुत् स्तोता, दृष्त्स्थानम् इति।
लघु-सिद्धान्त-कौमुदी
झलो झलि ४८०, ८।२।२६

झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥ क्षि क्षये॥ १३॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते --।
न्यासः
झलो झलि। , ८।२।२६

"अभित्त, अभित्थाः" इति। भिदेर्लुङि स्वरितेत्त्वादात्मनेपदम्(); तथासो, दकारस्य "खरि च" ८।४।५४ इति चत्त्र्वम्()--तकारः। "अवात्ताम्()" इति। दसेर्लुङि तसस्ताम्()। "अदात्त" इति। थस्य तः, "वदव्रज" ७।२।३ इत्यादिना वृद्धिः। अत्र सकारलोपे कृते "सः स्यार्धधातुके" ७।४।४९ इति तकारो न प्राप्नोतीति यस्य भ्रान्तिः स्यात्(), तं प्रत्याह--"अवात्ताम्()" इत्यदि। "अमंस्त, अमंस्थाः" इति। "मन ज्ञाने" (धा।पा।११७६), अनुदात्तेत्त्वादात्मनेपदम्()। "अभित्साताम्()" इति। भिदेराताम्()। "अभित्सत" इति। "आत्मनेपदेष्वनतः" ७।१।५ इति झस्यादादेशः॥
बाल-मनोरमा
झलो झलि १२५, ८।२।२६

असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते-- झलो झलि। झल इति पञ्चमी। संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते। तदाह--झलः परस्येत्यादि। असैद्धामिति। असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम्। पक्ष इति। इट्पक्षे इत्यर्थः। असेधीदिति। इट ईटीति सलोपः। नेटीति वृद्धिप्रतिषेधः। लघूपधगुणः। खादृ इति। अत्र ऋदित्वं "नाग्लोपी"त्याद्यर्थमित्यभिप्रेत्याह-- ऋकार इदिति। खदेति। स्()थैर्यं--स्थिरीभवनम्।

तत्त्व-बोधिनी
झलो झलि १००, ८।२।२६

"संयोगान्तस्ये"त्यतो लोप इति, "रात्सस्ये"त्यतः सस्येति चानुवर्तते। तदाह-- सस्य लोपः स्यादिति। पदस्येत्यधिकारात्प्रत्यासत्तेर्झलो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम्। तेन "सोमसुत्स्थानटमित्यत्र नभवति। झलः किम्। अनैष्टाम्। झलि किम्?। असैत्सीत्। असेधीदिति। "नेटी"ति वृद्धिप्रतिषेधः गुणः। रखादृ भक्षणे। ऋकार इदिति। तेन "नाग्लोपी"ति निषेधः। अचखादत्।