पूर्वम्: ८।२।२
अनन्तरम्: ८।२।४
 
सूत्रम्
न मु ने॥ ८।२।३
काशिका-वृत्तिः
न मु ने ८।२।३

मुभावो नाभावे कर्तव्ये न असिद्धो भवति। किं तर्हि? सिद्ध एव। अमुना। मुभावस्य असिद्धत्वात् घिलक्षणो नाभावो न स्यात्। कृते तु नाभावे मुभावस्य असिद्धत्वात्, सुपि च ७।३।१०२ इति दीर्घत्वं यत् प्राप्नोति, तत् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। अथवा योगद्वयम् इदम् उभयार्थं तन्त्रेण उच्चारितम्। अथ वा ने परतो यत् प्राप्नोति तस्मिन् कर्तव्ये मुभावो न असिद्धः इत्येष एव अत्र सूत्रार्थः। ने तु कर्तव्ये मुभावस्य यत् सिद्धत्वं तदर्थात् सङ्गृहीतम्। तेन अत्र मुभावस्य सिद्धत्वात् नाभावश्च भवति, दीर्घत्वं च न भवति। एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदत्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेश उदात्तेन उदात्तः ८।२।५ इत्युदात्तः। तस्य? सिद्धत्वं वक्तव्यम्। आन्तर्यतः अयादेशः उदात्तो यथा स्यात्। आय् कुमार्या इदम्। कथम् इदम् उदाहरणम् यदि उदात्तयणो हल्पूर्वात् ६।१।१६८ इत्युदात्तत्वे कृते विभक्तेः आटश्च ६।१।८७ एकादेशः, तदा भवति इदम् उदाहरणम्। अथ तु कृते एकादेशे उदात्तयणो हल्पूर्वात् ६।१।१६८ इति स्वरः, तदा न एतदस्य प्रयोजनं भवति। आव् वृक्षाविदम्। प्लक्षाविदम्। एकादेशः स्वरः गाङ्गे ऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेन उदात्तः ८।२।५ इति उदात्तः। तस्य सिद्धत्वात् य पुनः एङः पदान्तादति ६।१।१०५ इति एकादेशः स एकादेश उदात्तेन उदात्तः ८।२।५ इति, अत स्वरितो वा ऽनुदात्ते पदादौ ८।२।६ इत्येतद् भवति। शतृस्वरः तुदती। नुदती। अदुपदेशातिति लसार्वधातुकानुदत्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात् शतुरनुमो नद्यजादी ६।१।१६७ अन्तोदात्तातित्येष स्वरो भवति। अनुम इति प्रतिषेधो ज्ञापकः, एकादेशस्वरः शतृस्वरे सिद्धः इति। नहि सनुंकं शत्रन्तं शत्रन्तं किञ्चिदेकादेशस्वरम् अन्तरेण अन्तोदात्तम् अस्ति। एकाननुदात्तः तुदन्ति। लिखन्ति। एकदेशस्वरस्य सिद्धत्वात् तेन अनुदात्तं पदम् एकवर्जम् ६।१।१५२ इति वर्ज्यमानता भवति। सर्वानुदात्तः ब्राह्मणास् तुदन्ति। ब्राह्मणाः लिखन्ति। एकादेशस्वरस्य सिद्धत्वात् कृते तस्मिन् तिङ्ङतिङः ८।१।२७ इति निघातो भवति। अन्तरङ्ग इति वचनाद् बहिरङ्गस्य असिद्धत्वम् एव, पचतीति, प्रपचतीति। संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः किं प्रयोजनम्? हरिवो मेदिनं त्वा। हरिवः इति मतुबन्तम् एतत्, तत्र छन्दसीरः ८।२।१५ इति वत्त्वे, संयोगान्तस्य लोपे च कृते, मतुवसो रु मम्बुद्धौ छन्दसि ८।३।१ इति रुत्वम्, तस्य संयोगान्तस्य लोपस्य असिद्धत्वात् हशि च ६।१।११० इति उत्वं न प्राप्नोति। सिज्लोप एकादेशे सिद्धो वक्तव्यः। अलावीत्। अपावीत्। इट ईटि ८।२।२९ इति सिज्लोपस्य सिद्धत्वात् सवर्णदीर्घत्व भवति। निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्द्H वक्तव्यः। वृक्णः। वृक्णवान्। निष्ठादेशस्य सिद्धत्वात् झलि इति षत्वं न भवति। कुत्वं तु प्रति असिद्ध एव इति तद् भवति। स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते। तत्र च निपातनम् अनेकधा समाश्रीयते। यदा क्षीबेर् निष्ठायाम् इटि कृते इत्शब्दलोपो निपात्यते, तदा क्षीबः इति संज्ञायाम् इत्शब्दलोपस्य असिद्धत्वात् निष्ठा च द्व्यजनात् ६।१।१९९ इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबिकः इति द्व्यजलक्षणष्ठन् न प्रप्नोति। यदा तु तकारलोपो निपात्यते, तदा तस्य असिद्धत्वातिडागमः प्राप्नोति। प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः। अग्ना३इच्छत्रम्। पटा३उच्छत्रम्। प्लुतविकारस्य असिद्धत्वत् छे च ६।१।७१ इति ह्रस्वलक्षणो नित्यस् तुग् न प्राप्नोति। श्चुत्वं धुटि सिद्धं वक्तव्यम्। श्च्युतिर् क्षरणे इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्य असिद्धत्वातट् श्च्योतति, रट् श्च्योतति इति डः सि ढुट् ८।३।२१ इति प्राप्नोति। अटति इति अड्, रटति इति रड्, क्विबन्तो ऽयम्। किमर्थं पुनः सकारादिः पठ्यते? इह मधु श्च्योतति इति मधुश्च्युत्, क्विबन्तः, मधुश्च्युतम् आचष्टे इति णिच्, मधुश्च्ययति, मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात् सलोपः, संयोगान्तत्वाद् यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम्। शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात्। अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये। बभणतुः। बभणुः। अभ्यासजश्त्वस्यासिद्धत्वातनादेशादेः इति एत्वं प्राप्नोति। छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात् छे च ६।१।७१ इति तुक् न प्राप्नोति। द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम्। सय्म्̐ य्म्̐ यन्ता, सव्म्̐ व्म्̐, वत्सरः, यल्म्̐ ल्म्̐, लोकम्, तल्म्̐ ल्म्̐ लोकम् इति परसवर्णस्यासिद्धत्वाद् यरः इति द्विर्वचनं न स्यात्। पदाधिकारश्चेल् लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि। लत्वम् गलो हलः, गरो गरः। घत्वम् द्रोग्धा द्रोग्धा। ढत्वम् द्रोढा द्रोढा। नत्वम् नुन्नो नुन्नः, नुत्तो नुत्तः। रुत्वम् अभिनो ऽभिनः, अभिनदभिनत्। षत्वम् मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा। पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा। णत्वम् माषवापाणि माषवापाणि, माषवापानि माशवापानि। अनुनासिकम् वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम्। छत्वम् वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम्। लत्वादीनां विकल्पितानाम् असिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टद् विकल्पे सिति गरो गलः, गलो गरः इत्येवं रूपम् अपि द्विरुक्तं स्यात्। तदेतत् सर्वं न मु ने इति योगविभागेन साध्यते। न इत्येतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम्। ततो मु ने इति। नेत्येतदनुवर्तते।
लघु-सिद्धान्त-कौमुदी
न मु ने ३६०, ८।२।३

नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम् ३। अमीभिः। अमुष्मै। अमीभ्यः २। अमुष्मात्। अमुष्य। अमुयोः २। अमीषाम्। अमुष्मिन्। अमीषु॥
लघु-सिद्धान्त-कौमुदी
इति हलन्त पुंल्लिङ्गाः ३६०, ८।२।३

लघु-सिद्धान्त-कौमुदी
अथ हलन्तस्त्रीलिङ्गाः ३६०, ८।२।३

न्यासः
न मु ने। , ८।२।३

"मु" इत्यविभक्तिकोऽयं निर्देशः। "अमुना" इति। अदसस्त्यदाद्यत्वम्(), "अदसोऽदेर्दादु दो मः" ८।२।८० इत्युत्वमत्वे, "अच्च घेः" ७।३।११८ इत्यतः "घेः" इत्यनुवत्र्तमान "आङी नास्त्रियाम्()" ७।३।११९ इति नाभावः। यदि मुभावो नाभावे कत्र्तव्ये नासिद्धो भवति--इत्येव सूत्रार्थः स्यात्(), एवं सति नाभावे कृते यत्? कार्यं प्राप्नोति तत्र तस्यासिद्धत्वं न स्यात्(), ततश्चामुनेत्यत्राकारान्तस्याङ्गस्य "सुपि च" (७।३।१०२) इति विधीयमानं दीर्घत्वं प्रसज्येत? इत्यत आह--"कृते तु नाभावे" इत्यादि। ह्यस्वसन्निपातेन हि नाभावो ह्यस्वस्य विघातं प्रति निमित्तं न भवतीति सत्यप्यसिद्धत्वे न भवति दीर्घत्वप्रसङ्गः। "अथ वा" इत्यादि। यथैकेन हि क इतो धावतीति पृष्टोऽपरेणापि किंवर्णो धावतीति प्रश्ने कश्चिन्निपुणमतिस्तन्त्रेण वाक्यद्वयमुत्तरयति--()ओतो धावतीति, तथेहापि योगद्वयमेतत्? तन्त्रेणोच्चरितम्()। तत्र द्वितीयस्य योगस्य न परतो यत्? प्राप्नोति तस्मिन्? कत्र्तव्यं भुभावो नासिद्ध इत्येव सूत्रार्थः। तेन दीर्घत्वं न भविष्यति। एकस्मिन्नेव योगे दीर्घत्वप्राप्तिमपाकर्त्तुमाह--"अथ वा" इत्यादि। ननु चास्मिन्? सूत्रार्थे ने कर्त्व्ये मुभावस्य यत्? सिद्धत्वं तत्? सूत्रेण संगृहीतं स्यात्(), ततश्च नाभाव एव तावन्न प्राप्नोति, कुतः पुनस्तस्मिन्? परतो यत्? प्राप्नोति तस्मिन्? कत्र्तव्ये मुभावस्यासिद्धत्वम्()? इत्याह--"ने तु कत्र्तव्ये" इत्यादि। यथा पुत्रा मे बहुक्षीरघृतमोदनं सुवर्णापात्र्यां भुञ्जोरन्निति वरं प्रार्थयमानया वृद्धकुमार्या अर्थतः पतिः पुत्रा गावो धनं संगृहीतम्(), एवमिहापि ने परतो यत्? कार्यं प्राप्नोति तस्मिन्? कत्र्तव्ये मुभावस्य सिद्धत्वं ब्राउवता ने कत्र्तव्ये मुभावस्यासिद्धत्वं नाश्रितम्()। "तेन" इत्यष्दि। यस्मादेव एव वाक्यार्थः--ने कत्र्तव्ये मुभावस्य यत्? सिद्धत्वं तदर्थतो गृहीतम्(), तेन हेतुना नाभावश्च भवति, दीर्घत्वञ्च न भवतीति। "एकदेश" इति। "प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोः" इति। वृक्षशब्दः प्रातिपदिकस्वरेणान्तोदात्त इति तस्यान्तो योऽकारः स उदात्तः। सप्तम्येकवचनम्(), "अनुदात्तौ सुप्तितौ" ३।१।४ इत्यनुदात्तम्(), तयोः "आद्गुणः" (६।१।८७) इत्येकादेश आन्तरतम्यात्? स्वरिते प्राप्ते "एकादेश उदात्तेनोदात्तः" असिद्धत्वे हि सति तस्य स एकादेशः स्वरित एवायादेशे कत्र्तव्ये स्यादिति तस्य स्थानेऽयादेश आन्तर्यतः स्वरित एव प्रसज्येत। अन्तरङ्गत्वं पुनरेकादेशस्यान्तरश्रितत्वात्()। आद्गुणो ह्रवान्तरङ्गः; एकपदाश्रितत्वात्()। अयादेशस्तु बहिरङ्गः; तद्विपर्वयात्()। "कुमार्या इदम्()" इति। कुमारशब्दो वृक्षशब्दवदन्तोदात्तः। तस्मात्? "वयसि प्रथमे" ४।१।२० इति ङीप्(), "यस्येति च" ६।४।१४८ इत्यकारलोपः, "अनुदात्तस्य च य्रोदात्तलोपः" ६।१।१५५ इतीकारस्योदात्तत्वम्(), चतुर्थ्येकवचनम्(); कुमारी+ए इति स्थिते "आण्()नद्याः" (७।३।११२) इत्याट्? यणादेशः ६।१।७४, "उदात्तयणो हल्पूर्वात्()" ६।१।१६८ इति विभक्तेरुदात्तत्वम्()। तच्च "आदेः परस्य" १।१।५३ इति विभक्तिभक्तस्याट एव भवति, "आटश्च" ६।१।८७ इति वृद्धिरेकादेशः। स च पूर्ववत्? स्वरिते प्राप्ते "एकादेश उदात्तेनोदात्तः" ८।२।५ इत्युदात्तः क्रियते। तस्य सिद्धत्वं वक्तव्यम्()--कुमार्या इदमित्यत्रायादेश उदात्ते यथा स्यात्(), अन्यथा हि पूर्ववत्? स्वरितः [वास्ति--कांउ।पुस्तके] स्यातद्()। "यदि" इत्यादि। यदि पूर्वमुदात्तत्वं क्रियते, पश्चादेकादेशः, यथादर्शितमनन्तरायां रूपसिद्धावेवायादेश कत्र्तव्ये सिद्धो भवतीति युज्यत इदमुदाहरणम्()। "अथ तु" इत्यादि। कुमारी+ए इति स्थित आट्(), यणादेशः। "तत्रैकादेशे "उदात्तयणो हल्पूर्वात्()" ६।१।१६८ इति विभक्तिस्वरः" इति। यदि कृत एकादेशे विभक्तिस्वरः क्रियते तदा नैतदस्योपसंख्यानस्य प्रयोजनम्()। अस्यां हि रूपसिद्धावेकादेशस्य यदुदात्तत्वं तस्यायादेशे कत्र्तव्ये सिद्धत्वादनेन प्रकारेणोपसंख्यानस्येदं प्रयोजनं न भवतीत्याचष्टे। युक्तञ्चैतत्()। तथा हि--अन्तरङ्गवादेकादेशेनैव तावद्भवितव्यम्, पश्चद्विभक्तिस्वरेण। वर्ण ह्राश्रित्यैकादेशो भवतीति तस्यान्तरङ्गत्वम्()। उदात्तत्वं विभक्तेराश्रितत्वात्? पदस्य भवतीति तस्य बहिरङ्गत्वम्()। "वृक्षाविदम्()" इति। वृक्ष इदमित्येतदनुसारेणानुगन्तव्यम्(), एकादेशः पुनरत्र "वृद्धिरेचि" ६।१।८५ इति वृद्धिः। प्रथमयोः पूर्वसर्वदीर्घः ६।१।९८ इत्येतत्त न प्रवत्र्तते; "नादिचि" ६।१।१०० इति दीर्घप्रतिषेधात्()। "गाङ्गेऽनूपः" इति। गङ्गायां जात इत्यणि कृते प्रत्ययस्वरेणान्तोदात्तो गाङ्गशब्दः। अनुगता आपोऽस्मिन्निति बहुव्रीहिः, "ऊदनीर्देशे" ६।३।९७ इत्यूत्त्वम्(), ऋक्पूरब्धूःपथामानक्षे" ५।४।७४ इत्यकारप्रत्यये कृतेऽनूपशब्दोऽपि प्रत्ययस्वरेणान्तोदात्तः, शेषमस्यानुदात्तम्()। "तस्य सिद्धत्वात्()" इति। योऽसावेकारो गाङ्गशब्दे सप्तम्यकवचने परतः "आद्गुणः" ६।१।८४ इत्यनेनाभिनिर्वृत्तः, तस्य सिद्धत्वाद्यः पुनः "एङः पदान्तादति" ६।१।१०५ इत्येकादेशोऽनूपशब्दाकारेण सह सः "एकादेश उदात्तेनोदात्तः" ८।२।५ इति भवति। अतो हेतोः "स्वरितो वानुदात्ते पदादौ" ८।२।६ इति पक्षे स्वरितो भवति। यदि पुनरसिद्धत्वं स्यात्? तदासावेकार उदात्तानुदात्तस्थानित्वादान्तर्यतः स्वरितः स्यात्()। यः पुनः "एङः पदान्तादति" ६।१।१०५ इत्येकादेशः, स उदात्तनानुदात्तस्य न भवतीति "स्वरितो वानुदात्ते पदादौ" ८।२।६ इति पक्षे स्वरितो न स्यात्(), अपि तु स्वरितानुदात्तयोः स्थाने भवन्नान्तरतम्यान्नियमेन स्वरितः स्यात्()। "शतृस्वरः" इति। शत्राश्रयः स्वर इति शाकपार्थिवादित्वादुत्तरपदलोपो (वा।८३) समासः। "तुदती, नुक्ती" इति। तुदिनुदिभ्यां (धा।पा।१२८१,१२८२) लट्(); तुदादित्वाच्छः, स च प्रत्ययस्वरेणान्तोदात्तः, लसार्वधातुकस्यानुदात्ते कृते "अतो गुणे" ६।१।९४ पररूपत्वमेकादेशः। स च "एकादेश उदात्तनोदात्तः" ८।२।५; तदुदात्तसय सिद्धत्वात्()। "अन्तोदात्तादुत्तरपदात्()" ६।१।१६३ इत्यन्तोदात्तादित्यनुवत्र्तमाने "शतुरनुमो नद्यजादी" ६।१।१६७ इति शत्रन्तादन्तोदात्तादीकारस्योदात्तत्वं भवति। असिद्धत्वे त्वेकादेशेऽस्योदात्तत्वं न स्यात्(); अन्तोदात्तादित्यधिकारात्? ६।१।१६३। "अनुमः इत्यादिना ज्ञापकमाश्रित्यैतत्प्रयोजनमपाकरोति। कथं पुनरेतज्ज्ञापकम्()? इत्याह--"न हि" इत्यादि। हिशब्दो हेतौ। अनुम इति प्रतिषेधस्यैतत्? प्रयोजनम्()--तुदन्ती, नुदन्तीत्यत्र "आच्छीनद्योर्नुम्()" ७।१।८० इति नुमि कृते सनुम उदात्तत्वं मा भूदिति। यदि च शतृस्वरे, एकादेशस्वरोऽसिद्धः स्यात्(), प्रतिषेधस्य वैयध्र्यं स्यात्(); यस्मादेकादेशस्वरमन्तरेण नास्ति शतुरन्तोदात्तत्वम्()। अतः प्रतिषेधादवसीयते--सिद्ध एकादेशस्वरः। न हि एकादेशस्वरमन्तरेण शत्रन्तं सनुम्क#ं किञ्चिदन्तोदात्तमस्ति। तस्मादनुम इति प्रतिषेधवचनं ज्ञापकमेव। "तुदन्ति, लिखन्ति" इति। अत्रापि पूर्ववल्लसार्वधातुकानुदात्तत्वे कृत उदात्तत्वे कृत उदात्तानुदात्तयो रेकादेश उदात्तः। "तेन" इति। एकादेशस्वरेण सिद्धेन। "वज्र्यमानता" इति। "अनुदात्तं पदमेकवर्णम्()" ६।१।१५२ इत्येषोऽर्थोऽनेन लक्ष्यते। एकं वजंयित्वा शेषस्यानुदात्तत्वं भवतीत्यर्थः। यदि पुनरसिद्धत्वं स्यात्? "अनुदात्तं पदेमकवर्जम्()" (६।१।१५८) इत्यस्मिन्? कत्र्तव्ये सत्येकादेशस्वरस्यासिद्धत्वादसत्यां च वज्र्यमानतायां द्वयोरुदात्तयोः श्रवणं प्रसज्येत। ननु चासिद्धवचनमुत्सर्गलक्षणभावार्थमित्युक्तम्(), अस्य च स्थानी स्वरितः; तथा हि "अतो गुणे" ६।१।९४ पररूपत्व इत्यनेनैवान्तयैतो यो विहितः स्वरितस्यस्य स्थाने "एकदेश उदात्तेनोदात्तः" ८।२।५ इत्यनेनोदात्त आदेशो विधीयते, तत्र यद्युदात्तस्यादेशस्यासिद्धत्वात्? तन्निमित्ता वज्र्यमानता न भवति मा भूत्(); यस्त्वस्य स्वरितस्य स्थानी तन्निमित्ता भविष्यति, तत्कथमेतत्? प्रयोजनमुपपद्यते? यथोपपद्यते तथाख्यायते--"एकादेश उदात्तेनोदात्तः" ८।२।५ इत्यत्र चत्वारि दर्शनानि। "आद्गुणः" (६।१।८७) इत्येवमादिभिरुदात्तानुदात्तयोरेकादेश आन्तरतम्यात्? स्वरितगुणयोर्निवृत्तः, तस्य "एकादेश उदात्तेनोदात्तः" ८।२।५ इत्यनेन स्वरितस्य स्थान उदात्तगुण आदेशो विधीयत इत्येकं दर्शनम्()। स्वरितगुणस्यैवाभिनिर्वृत्तस्य गुणान्तरापसिद्वारेण शब्दान्तरं प्रतिपद्यत इति द्वितीयम्()। परिभाषेयमनुदात्तानुदात्तयोरेकादेश उदात्त इति तृतीयम्()। अस्मिन्? दर्शने परिभाषायाः पराङ्गभूतत्वादेकादेशशास्त्रैः सहास्यैकवाक्यता भवति, तत्रायमर्थः सम्पद्यते--आद्गुणो भवति, उदात्तानुदात्तयोस्तु "आद्गुणः" ६।१।८४ भवतीति। चतुर्थं तु दर्शनम्()--उदात्तानुदात्तयीर्य एकादेशः स उदात्तो भवति, न स्वरितगुणयुक्त इति। स्वरितस्यापवादभूतस्तूदात्तत्वमारभ्यते। येन नाप्राप्तिब्यायेनेदं (व्या।प।४९) दर्शनमाश्रित्येवं प्रयोजनमुपन्यस्तम्()। उपपद्यते च तदेतस्मिन्? दल्शने। अत्र हि नाम विधान समकालमेवोदात्तत्वं विधीयते, न तु स्वरितगुणविहितस्य पुनरुदात्तत्वगुण आदेश इति न सम्भवति स्वरितेन स्थानिना वज्र्यमानता; एकादेशस्वरस्य सिद्धत्वात्()। "कृते तस्मिन्? तिङङतिङ इति निघातः" इति। असति तु तस्य सिद्धत्वे पश्चादेकादेशस्वरः स्यात्(), ततश्च मध्योदात्तता प्रसज्येत। "पचति" इति। अत्र तिशब्दे य इकारः स सतिशिष्टत्वादनुदात्तः, इतिशब्दः "निपाता आद्युदात्ताः" (फि।सू।४।८०) इत्याद्युदात्तः; तयोरकः सवर्णदीर्घत्वमेकादेशो द्विपादश्रयत्वाद्वाहिरङ्गः, तस्य बहिरङ्गत्वात् तदाश्रयोऽपि स्वरो बहिरङ्गः, तत इकारस्यासिद्धतवमेव भवति। ततश्च तेन "अनुदात्तं पदमेकवर्जम्()" ६।१।१५२ इति वज्र्यमानता न भवति। "प्रपचति" इति। अत्रापि बहिरङ्गत्वेनासिद्धत्वात्? तिङि चोदात्तवति" ८।१।७१ इति गतेरनुदात्तत्वं न भवतति "तिङङतिङः ८।१।२८ इति निघात एवात्र भवति। "हरिवो मेदिनम्()" इति। हरिशब्दान्मतुप्(), सुः, नुम्? हल्ङ्यादि६।१।६६ लोपः, संयोगान्तलोपश्च ८।२।२३, तस्मिन्? कृते रुत्वम्(), "हशि च" ६।१।११० इत्यस्योत्वम्(), "आद्गुणः" ६।१।८४ "संयोगान्तलोपस्यासिद्धत्वात्? हशि चेत्युत्वं न प्राप्नोति" इति। संयोगान्तलोपस्यासिद्धत्वे सति तकारेक इशो मकारस्य व्यवधानात्(), तकारस्याहक्त्वात्()। "अलादीत्()" इति। लुङ्(), च्लेः सिच्(), इट्(), "अस्तिसिचोऽपृक्ते" ७।३।९६ इतीट्(), सिज्वृद्धिः, "इट ईटि" ८।२।२८ इति सिचो लोपेऽकः सवर्णदीर्घत्वम्()। "वृक्णः, वृक्णवान्()" इति। "ओव्रश्चू छेदने" (धा।पा।१२९२) निष्ठा, ग्रहिज्यादिसूत्रेण ६।१।१६ सम्प्रसारणम्(), "चोः कुः" ८।२।३० इति कुत्वम्(), "ओदितश्च" ८।२।४५ इति नत्वम्(), "अट्कुप्वाङ्()" ८।४।२ इति णत्वम्()। षत्वे चासति "स्कोः संयोगाद्योः" ८।२।२९ इति सलोपः। "कुत्वं प्रत्यासिद्ध एव" इति। षत्वस्वरपरत्ययविधीङ्()विधिग्रहणस्य व्यावर्त्त्य दर्शयति--"स्वरप्रत्ययविधीडविधिषु क्षीबशब्द उदाह्यियते" इति। कथं पुनस्त्रिषु विधिषु क्षीबशब्द एक एवोदाहरणमुपपद्यते? इत्याह--"तत्र" इत्यादि। "अनुपसर्गात्? फुल्लक्षीव" (८।२।५५) इत्यत्र "क्षीब्? मदे" (धा।पा।३८२) इत्यस्मात्? क्तप्रत्यये परभूते क्षीबशब्दो निपातितः। तत्र चानेकपरकारं निपातनमाश्रितम्()। तत्र क्वचिन्निपातने प्रत्ययविधौ स्वरविधौ च क्षीबशब्द उदाह्यियते, क्वचिदिङ्()विधौ। कथम्()? इत्याह--"यदा" इत्यादि। संज्ञायामित्यादिग्रहणम्(); "संज्ञायामुपमानम्()" ६।१।१९८ इत्यतः संज्ञाग्रहणानुवृत्तेः। "एष स्वरः" इति। आद्युदात्तः। तत्र हि "कर्षात्वतो घञोऽन्त उदात्तः" ६।१।१५३ इत्यतः उदात्तग्रहणमनुवत्र्तते, "ञ्नित्यादिर्नित्यम्()" ६।१।१९१ इत्यत आदिग्रहणञ्च प्राप्नोतीति; इच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दस्याद्व्यच्कत्वात्()। न होच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दो द्व्यच्को भवति, किं तर्हि? त्र्यच्कः। "क्षीबिकः" इति। "नौद्व्यचष्ठन्()" ४।४।७। "इडागमः प्राप्नोति" इति। तकारलोपस्या सिद्धत्वे सति; आर्धधातुकस्य बलादित्वात्()। "अग्नात्रि [अग्नात्रि इच्छत्रमिति] इच्छत्रम्(), पटात्रि उच्छत्रम्()" इति। अग्निपटुशब्दयोः सम्बुद्धौ ह्यस्वस्य गुणे कृते एङ्? ह्यस्वात्? सम्बद्धेः" ६।१।६७ इति सम्बुद्धिलोपे "एचोऽप्रगृह्रस्यादूराद्धते पूर्वस्यार्धस्यादूत्तरस्येदूत्तौ" ८।२।१०७ इत्येकारौकारयोः पूर्वस्यार्थस्याकारावशः, स च पुनरुत्तरस्य च यथाक्रममिकारोकारौ। "नित्यस्तुग्न प्राप्नोति" इति। नित्यश्चेष्यते; "पदान्ताद्वा" ६।१।७३ इत्यनेन विकल्पेन प्राप्नोति, स चातिष्टः। तस्मात्तुग्विधौ प्लुतविकारः सिद्धो वक्तव्यः छ इति किम्()? अन्यत्र तुग्विधौ प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्()--खलं पुनाति ब्राहृणकुलमिति। क्विप; "ह्यस्वो नपुंसके प्रातिपदिकस्य" ७।१।२३ इति तस्य लुक्(), "ह्यस्वस्य गुणः ७।३।१०८, पूर्ववत्? प्लुतविकारः। अस्यासिद्धत्वात्? खलपु इत्यत्र "ह्यस्वस्य पिति कृति तुक्()" ६।१।६९ इति तुग्न भवति। "श्चुत्वं धुटि" इत्यादि। अटश्च्योतति, रट्श्च्योतति" इति। अट रट गतौ" (धा।पा।२९५,२९७) इत्याभ्यां क्विप; सुः, हल्ङ्यादिलोपः ६।१।६६, "झलां जशोऽन्ते ८।२।३९ इति टकारस्य डकारः। तस्मिन्? श्च्योततिशब्दे परतः श्चुत्वस्यासिद्धत्वात्? धुङ्? न प्राप्नोति तस्मात् श्चुत्वं धुट्त्वे कत्र्तव्ये सिद्धं वक्तव्यम्()। किमर्थं पुनरयम्()" इत्यादि। न त्वस्य सकारस्य क्वचित्? क्वचित्? श्रवणमस्तीत्यभिप्रायः। "मधुश्च्यत्()" इति। तत्करोति तदाचष्टे" (वा।२०९) इति भधुश्च्युतमाचष्ट इति णिचि कृते "णाविष्ठवत्? प्रातिपदिकस्य" (वा।८१३) इति। णिलोपः, मधुश्च्यित्? इति स्थिते ण्यब्तात्? पुनरपि क्विप्(), "णेरनिटि" ६।४।५१ इति णिलोपः। श्चुत्वस्यासिद्धत्वात्? "स्फोः संयोगाद्योः" ८।२।२९ इति सकारस्य संयोगाद्यस्य लोपः, ततः सयोगन्तस्य लोपः" ८।२।२३ इति यलोपः, ततः "चोः कुः" ८।२।३० इति कुत्वम्()--मधुगित्येतदिष्टं रूपं भवति। तदर्थं सकारादिः पठ()तेऽयमित्यभिप्रायः स्यादेतत्()। शकारादावप्येतस्मिन्नेतद्रूपं भवत्येव? इत्यत आह--"शकारादौ पुनरेतस्मिन्()" इत्यादि। पूर्वं तावद्यकारस्य संयोगान्तस्य लोपः" ८।२।२३ इति लोपः, लुप्ते यकारे चकारः संयोगान्तो जात इति तस्यापि लोपः, ततः शकारस्य व्रश्चादिसूत्रेण ८।२।३६ षत्वे सति "झलां जशोऽन्ते" ८।२।३९ इति षकारस्य डकारे मधुङित्यपि नित्यं स्यात्()। "बभणतुः, बभणुः" इति। "अण रण भण" (धा।पा।४४४,४४५,४४७) इत्यस्माल्लिट्(), तस्य तावद्()द्विर्वचने "अभ्यासे चर्च" ८।४।५३ इति जश्त्वम्()--बकारः, तस्यासिद्धत्वादनादेशादिरेवायमिति, "अत एक हल्मध्येऽनादेशादेलिटि" ६।४।१२० इत्येत्त्वं प्राप्नोतीति। "विचिच्छित्सति" इति। छिदेः सन्(), द्विरवचनं छिदत्यस्य, "अभ्यासे चर्च" ८।४।५३ इति चर्त्वं चकारः, तस्य सिद्धत्वादभ्यासे परे चिशब्दस्य "छे च" ६।१।७१ इति तुग्न भवति। "उचिच्छिषति" इति। "उछी विवासे" (दा।पा।२१६), सन्(), अजादेर्द्वितीयस्य (६।१।२) इत्युच्छेरन्तरङ्गत्वात्? तुकि कृते त्छिस्शब्दो द्विरुच्यते, तत्र "खर्पूर्वाः खयः" (वा।८७८) इति छकारः शिष्यते, पूर्ववच्चत्र्वम्(), तस्य सिद्धत्वादुकारस्य तुग्न भवति। "सयँय्यन्ता, सवँव्वत्सरः" इत्यादि। समित्येतस्य यन्तेत्येतस्मिन्? परतः वत्सरशब्दे च परतः, यल्लोकं तल्लोकमित्यत्रापि यत्तदोर्द्वितीयैकवचनान्तयोर्लोकशब्दे परतो मोऽनुस्वारे ८।३।२३, तस्य "अनुस्वारस्य ययि परसवर्णः" (८।४।५८) इति परसवर्णे आन्तर्यतः सानुनासिके ययि कृते तस्यासिद्धत्वात्? "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति वत्र्तमाने "अनचि च" ८।४।४६ इति यरो द्विर्वचनं न प्राप्नोति। ततश्च पक्षे त्रयाणां यकारादीनां द्वित्वं न स्यात्()। "पदाधिकारश्चेत्()" इत्यादि। यदि लत्वादिषु "पदस्य" ८।१।१६ इति नानुवत्र्तते, तदा पदस्य द्विर्वचनमपदस्य द्विर्वचनेन तुल्यत्वाद्()द्विर्वचनस्य् बहिरङ्गत्वम्(), लत्वादीनाञ्चान्तरङ्गत्वम्()। "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इति लत्वादिषु कत्र्तव्येषु द्विवैचनसिद्धत्वात्? ["द्विर्वचनस्यासिद्धम्()"--प्रांउ।पाठः। द्विर्वचनेनेति सिद्धत्वात्()--कांउ। पाठ]"पूर्वत्रासिद्धम्()" ८।२।१ इत्येतन्न प्रवत्र्तते, ततश्च लत्वादिभिरेव तावद्भवितव्यम्(), तेषु सत्सु पश्चाद्()द्विर्वचनेनेति सिध्यत्येवेष्टम्()। पदाधिकारे सति लत्वादीनामपि बहिरङ्गत्वादसत्या बहिरङ्गपरिभाषया (व्या।प।४२) तेषु सत्सु द्विर्वचनं सिद्धम्()। लत्वादयस्त्वस्मिन्? कत्र्तव्येऽसिद्धाः, पूर्वत्रासिद्धत्वात्? ८।२।१; ततश्च पूर्वं द्विर्वचने कृते पश्चाल्लत्वादिषु विधीयमानेषु परतश्चानिष्टमपि प्रसज्येत। तस्माद्यदि पदाधिकारः ततो लत्वादीनि सिद्धानि वक्तव्यानि। "गलो गलः" इति। "मृ? निगरणे" (धा।पा।१४१०)। "नुन्नः" इति। "मुदविव" ८।२।५६ इत्यादना नकारः, पक्षे तकारश्च। "अभिनोऽफभिनः" ति। भिदेर्लङ्(), सिप्(), श्नम्(), हल्ङ्यादिलोपः, ६।१।६६ "सिपि धातोरुर्व#आ" ८।२।७४, "दश्च" ८।२।७५ इति वा रुत्वं पूर्ववदेव "अतो रोरप्लुदादप्लुते" ६।१।१०९ इत्युत्वम्()। "आद्गुणः" ६।१।८४। "मातृष्ष्वसा, पितृष्षवसा" इति। "मातुःपितृभ्यामन्यतरस्याम्()" ८।३।८५ इति पक्षे षत्वम्()। "माष वापाणि" इति। "वा भावकरणयोः" ८।४।१० इत्यनुवत्र्तमाने "प्रातिपदिकान्तनुम्बिभक्तिषु" ८।४।११ इति पक्षे णत्वम्()। "वाङनयनम" इति। "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति पक्षेऽनुनासिकः। "वाक्छयनम्()" इति। "झयो होऽन्यतरस्याम्()" ८।४।६१ इति वत्र्तमाने "शश्छोटि" ८।४।६२ इति वा छत्वम्()। "लत्वादीनाम्()" इत्यादि। एतेनासिद्धत्वे सति लत्वादीनां यो दोषस्तं दर्शयति। लत्वादीनामसिद्धत्वात्? पूर्वं द्विर्वचने कृते सत्युत्तरत्र काले विकल्पविधित्वादयमर्थः प्रवत्र्तमानो यथा पूर्वत्र वत्र्तते, तथा नियोगातः परत्रापि न प्रवत्र्तत ["प्रवत्र्तेत"--कांउ।पाठः] इत्यनियोगो लभ्यते; नियमकारणाभावात्()। ततश्चानिष्टो विकल्पः स्यात्()--पूर्वपरयोरेकत्र प्रवृत्तेः, अपरत्राप्यप्रवृत्तेः। नेषेटोऽनिष्टो विकल्पः। तथा सति गरो गलः, गलो गर इत्येवमाद्यनिष्टमापद्यते। तत्र "न" इत्येतावदनिष्टविषये सूत्रं कत्र्तव्यम्()। किमर्थम्()? अनिष्टविषये पूर्वत्रासिद्धत्वस्य प्रतिषेधार्थम्()। यत्र पूर्वत्रासिद्धत्वस्यानिष्टविषयः। ततः "भु ने" इत्येतद्ध्यत्र वचनेऽनुवत्र्तते। यद्येदम्(), किमर्थमिदम्(), पूर्वसूत्रेणैव सिद्धा प्रतिषेधः? सर्वत्र तत्? सूत्रं नास्तीति ज्ञापनार्थम्()। तेन यत्रासिद्धत्वमिष्यते तत्रैदासौ प्रवत्र्तते। तदन्यत्र विपर्ययस्तु न भवति; योगविभागादस्मिन्? सूत्रे॥
बाल-मनोरमा
न मु ने , ८।२।३

ननु कृतेऽपि प्रथमं मुत्वे नाभावो न संभवति, तस्मिन् कर्तव्ये मुत्वस्याऽसिद्धतया घेः परत्वाऽभावादित्यत आह--नमुने इति। असिद्धमित्यनुवर्तते। म् च उश्चेति समाहारद्वन्द्वः। "ने" इति ना इत्यस्य सप्तम्येकवचनम्। विषयसप्तमी सत्सप्तमी च एषा। तथाच "नाभावे कर्तव्ये कृते चे"ति लभ्यते। तदाह-नाभावे इत्यादिना। प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावाद्धेः परत्वान्नाभावो निर्बाधः। यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नाभावे कृते "सुपि च" इति दीर्घः प्रसज्येत। दीर्घे कर्तव्ये मुत्वस्याऽसिद्धतयाऽकारस्य सत्त्वात्। अतः "कृतेऽपी"त्याश्रितम्। ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मत्वस्याऽसिद्धत्वाभावादकाराऽभावात् न दीर्घ इति भावः। अमूभ्यामिति। त्यदाद्यत्वे, पररूपे, "सुपि च" इति दीर्घे, दस्य मत्वम्, आकारस्य ऊत्त्वमिति भावः। अमीभिरिति। त्यदाद्यत्वं, पररूपं, "नेदमदसोरकोः" इति ऐस्()निषेधः, "बहुवचने झल्येत्" इत्येत्वम्, "एत ईद्बहुवचने" इति ईत्त्वमत्वे इति भावः। अमुष्मै इति। त्यदाद्यत्वं, पररूपं, ङेः स्मै, उत्त्वमत्वे, षत्वमिति भावः। अमीभ्य इति। त्यदाद्यत्वं, पररूपं "बहुवचने झल्येत्" इत्येत्वम्, ईत्त्वमत्वे इति भावः। अमुष्मादिति। त्यदाद्यत्वं, पररूपं, ङसेः स्मात्, उत्वमत्वे, षत्वमिति भावः। अमुष्येति। त्यदाद्यत्वं, पररूपं, ङसः स्यादेशः, उत्वमत्वे, षत्वमिति भावः। अमुयोरिति ओसि त्यदाद्यत्वं, पररूपम्, "ओसि चे"त्येत्त्वम्, अयादेशः, उत्वमत्वे इति भावः। अमीषामिति। आमि त्यदाद्यत्वं, पररूपं, "ङेः स्मिन्नादेशः, उत्वमत्वे, षत्वमिति भावः। अमीष्विति। सुपि त्यदाद्यत्वं, पररूपम्, एत्त्वम्, ईत्त्वमत्वे, षत्वमिति भावः। इति सान्ताः।

***** इति हलन्ताः पुंलिङ्गाः *****

***** अथ हलन्तस्त्रीलिङ्गप्रकरणम् *****

तत्त्व-बोधिनी
न मु ने ३९१, ८।२।३

न मु ने। "ने"इति विषयसप्तमीत्याह--नभावे कर्तव्य इति। अन्यथा घेः परत्वाऽभावान्नाभावो न स्यादिति भावः। नन्वेवमपि कृते नाभावे "सुपि चे"ति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्याऽसिद्धत्वादत आह--कृते चेति। एतच्च "ने"इत्यस्यावृत्त्यां लभ्यते। एकत्र विषयसप्तम्यपरत्र तु परसप्मीत्याश्रयणात्। वस्तुतस्तु "कृते चे"चि व्याख्यानं व्यर्थं, संनिपातपरिभाषाया "सुपि चे"ति दीर्घस्य सिसमाधेयत्वात्। ननु "अधुना"इति वत् "अमुना"इत्येवोच्यतां किमनेनाऽसिद्धक्वनिषेधेनेति चेत्। अत्राहुः---"न मु ने"इत्युक्तिः "न"इति योगविभागार्था, तेन "रामः""रामेभ्य"इत्यादि सिध्यति। अन्यथा हि रोरसिद्धतयोकारस्येत्संज्ञालोपौ कतं स्याताम्। न चानुनासिकनिर्देशसामर्थादित्संज्ञालोपौ प्रति रुत्वम नासिद्धमिति वाच्यम्, "तरुमूलं" "देवरुही"त्यादौ "हशि चे"त्यस्य व्यावृत्तये "अतो रो"रित्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात्। एवं च स्थानिवत्सूत्रस्यापि प्रवृत्तौ पदत्वाद्विसर्गौ लभ्यते। "पत्र्ययः""परश्चे"त्यादिनिर्देशाश्चेह लिङ्गमिति दिक्। इति हलन्तपुंलिङ्गप्रकरणम्।