पूर्वम्: ८।२।३६
अनन्तरम्: ८।२।३८
 
सूत्रम्
एकाचो बशो भष् झषन्तस्य स्ध्वोः॥ ८।२।३७
काशिका-वृत्तिः
एकाचो बशो भष् झषन्तस्य स्ध्वोः ८।२।३७

धातोरवयवो य एकाच् झषन्तः तदवयवस्य बशः स्थाने भषादेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च। अत्र चत्वरो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र सङ्ख्यातानुदेशे प्राप्ते डकारस्य स्थानिनो ऽभावात् ढकारादेशो न भवति? आन्तर्यतो व्यवस्था विज्ञास्यते। बुध भोत्स्यन्ते। अभुद्ध्वम्। अर्थभुत्। गुह निघोक्ष्यते। न्यघूढ्वम्। पर्णघुट्। दुह धोक्ष्यते। अधुग्ध्वम्। गोधुक्। अजर्घाः गुधेः यङ्लुगन्तस्य लङि सिपि लभूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोः अवयवस्य एकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्, दश्च ८।२।७५ इति रुत्वम्, रो रि ८।३।१४ इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घो ऽणः ६।३।११० इति दीर्घत्वम्। गदर्भयतेः अप्रत्ययः गर्धप्। एकाचः इति किम्? दामलिहम् इच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः, दामलिट्। असति ह्येकाज्ग्रहणे धातोः इत्येतद् बशो विशेषणं स्यात्। बशः इति किम्? क्रुध क्रोत्स्यति। झषन्तस्य इति किम्? दास्यति। स्ध्वोः इति किम्? बोद्धा। वोद्धुम्। बोद्धव्यम्। धकारस्य बकारोपसृष्टस्य ग्रहणं किम्? दादद्धि। दध धारणे इत्येतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिः ६।४।१०१ इति धिभावे सत्येतद् भवति।
लघु-सिद्धान्त-कौमुदी
एकाचो बशो भष् झषन्तस्य स्ध्वोः २५४, ८।२।३७

धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च। धुक्, धुग्। दुहौ। दुहः। धुग्भ्याम्। धुक्षु॥
न्यासः
एकाचो बशो भष्? झषन्तस्य स्ध्वोः। , ८।२।३७

"धातोः" ८।२।३२ इति यदीहानुवत्र्तते तदवयवषष्ठ()न्तमेकाचो विशेषणम्()। "झषन्तस्य" इत्येतदपि समानाधिकरणं तस्यैव विशेषणम्()। "एकाचः" इत्येतदवयवषष्ठ()न्तं बशः। "तदवयवस्य" इति। तस्यावयवस्तदवयवः। योऽसौ धातोरवयव एकाज्? झषन्तस्तस्य, तदित्यनेनाभिसम्बध्यते। "झलि परतः" इत्यनेन झलीत्यनुवत्र्तते ८।२।२६, तस्य सकारो विशेषणमिति दर्शयति। किमर्थं पनर्झलीत्यनुवत्र्तते? पदान्तस्येत्यनुवृत्तिर्यथा स्यात्(); अन्यथा झलीत्यस्मिन्? निवत्र्तमाने तत्सम्बद्धं पदान्तग्रहणमपि निवत्र्तत, ततश्च पदान्ते न सिध्येत्()। ननु च स्वरितत्वात्? पदान्तस्येस्यानुवृत्तिर्भविष्यति? तह्र्रनेनापि प्रकारेणाख्यायते मन्दधियां सुखप्रतिपत्त्ये। "ध्वशब्दे च" इति। अत्र झलीत्येतन्नापेक्षते, असम्भवात्()। न हि कश्चित्? झल्? ध्वशब्दोऽस्ति; तस्य प्रत्याहारेष्वसन्निवेशात्()। "भोत्स्यते" ["भोत्स्यन्ते"--काशिका, पदमञ्जरी च] इति। "बुध अवगमने" (धा।पा।८५८), लृट्(), स्यः, "खरि च" ८।४।५४ इति चत्त्र्वम्()--तकारः, अनुदात्तेत्त्वादात्मनेपदम्()। अत्र बुधेर्धातोव्र्यपदेशिवद्भावेन स्वरूपमेवैकाजवयवो झषन्तः, तदवयवो बकारो बश, अस्यान्तरतम्यादोष्ठ()स्य स्थान ओष्ठ्य एव भकारो भविष्यति। एवमन्यत्रापि विज्ञेयम्()। "अभुध्वम्()" ["अबुद्ध" इति प्रांउ।पाठः] "षढोः कः सि" ८।२।४१ इति कत्वम्(), "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्()। "न्यघूढ्वम्()" इति। "ढ्रलोपे पूर्वस्य दोर्घोऽणः" ६।३।११०। "धोक्ष्यते" इति। दुहो लृट्(), "दादेर्धातोर्धः" ८।२।३२, तस्य "खलि च" ८।४।५४ इति चत्र्वम्()--ककारः। "अजर्घाः" इति। "गुधु अभिकाङ्क्षायाम्()" (धा।पा।१२४६), यङ्(), द्विर्वचनम्(), हलादिशेषः, "उरत्()" ७।४।६६ इत्यत्वम्(), "कुहोश्चुः" ७।४।६२ इति चुत्वम्(), "यङोऽचि च" २।४।७४ यङ्लुक्(), "रुग्रिकौ च लुकि" ७।४।९१ इति रुक्()। जगृध इति स्थिते इङादयो विधेयाः। अत्र मुख्य एव गृध इत्ययं धातोर्झषन्तोऽवयवः। "गर्दभयतेः" इति। गर्दभशब्दात्? तदाचष्ट इति णिच्(), "णाविष्ठवत्? प्रातिपदिकस्य" (वा।८१३) इति टिलोपः। अत्र गर्वभीत्ययं मुख्य एव धातोर्झषन्तोऽवयवः। "अप्रत्ययः" इति। अश्राविप्रत्ययः क्विबादिरप्रत्यय इत्युच्यते। "दामलिट्()" इति। अत्र "होढः" ८।२।३१ इति ढत्वे कृते झषन्ततायामुपजातायामेकाज्ग्रहणाद्भष्भाषो न भवति। ननु चात्र द्वावेकाजवयवौ--दकारादिर्मकारान्तः, लकारादिर्झषन्तश्च; तयोश्चासत्यप्येकाज्ग्रहणे नैव भष्भावः प्रसज्यते। तथा हि-यो झषन्तस्तस्य वश्? न विद्यते, यस्तु दकारादिर्मकारान्तस्तस्य वश्? विद्यते, झषन्तता तु नास्ति, तदनर्थमेकाज्ग्रहणम्()? इत्यत आह--"असत्येकाजग्रहणे" इत्यादि। वशो विशेषणं व्यवच्छेदार्थम्()। व्यवच्छेदोऽर्थः प्रयोजनं यस्य तत्तथो क्तम्()। यद्येकाज्ग्रहणं न स्यात्(), ततोऽन्यस्येहाश्रुतत्वात्(), बशस्तु श्रुतत्वाच्च स एव धातोरित्यनेन विशेष्यते न धातोरवयवो वशिति। एवं च बशो झषन्तता न सम्भवतीति झषन्तस्येत्यनेन धातुरेव विशेष्यते; अन्यस्येहासम्भवात्()। तथा चायं सूत्रार्थः स्यात्()--झषन्तस्य धातोर्योऽवयवो बश तस्य झलि सकारे ष्वे च परतः पदान्ते च भव्? भवतीति। अ()स्मश्च सूत्रार्थं दामलिडित्यत्रापि प्रसज्येत। भवति दकारोऽत्र बश्? झषन्तस्य धातोरवयवः। एकाच इत्येतस्मिन्? सति धातोर्झषन्तस्येत्येतदुभयान्तस्यैव विशेषणं भवति, तदपि बशः। तेन वृत्तिकारोपदर्शित एव सूत्रार्थो जायते; ततश्च न किञ्चिदनिष्टमापद्यते। दामलिडित्यत्र हि यो झषन्त एकाजवयवो लकारादिनं तस्य बश्? विद्यते, यस्य तु विद्यते दकारादिर्मान्तस्य स झषन्तो न भवति। "क्रोत्स्यति" इति। "क्रुध कोपे" (धापा।११८९)। "दादद्वि" इति। "दीर्घोऽकितः" ७।४।८३ इत्यभ्यासस्य दीर्घत्वम्()। अन्तग्रहणमसन्देहार्थम्()। असति हि तस्मिन्? सन्देहः स्यात्()--किमत्र बशः स्थानित्वम्()? अथ झषः? इति॥
बाल-मनोरमा
एकाचो बशोभष् झषन्तस्य स्ध्वोः , ८।२।३७

एकाचो वशो। स् च् ध्व् च स्ध्वौ, तयोरिति विग्रहः। ""बश" इति स्थानषष्ठी। एकाच" इत्यवयवषष्ठी। एकोऽच् यस्येति विग्रहः। झषन्तस्येत्यस्य शब्दस्येति विशेष्यम्। एकाच्कस्य झषन्तशब्देनान्वेति। पदस्येत्यधिकृतं "स्कोः संयोगाद्योः" इत्यतोऽन्ते चेत्यनुवर्तते। तदाह--धातोरवयव इत्यादिना। ननु संभवति सामानाधिकरण्ये वैयधिकरण्याश्रयणस्या।ञन्याय्यत्वादेकाच् झषन्तो यो धातुस्तदवयवस्य बश इत्येवान्वय उचित इत्यत आह--एकाचो धातोरित्यादि। गर्दभयतीति। "तत्करोति तदाचष्टे" इति णिजन्तस्य "सनाद्यन्ताः" इति दातुत्वात्तिबादि। ततः क्विबिति। गर्दभि इति ण्यन्तात्कर्तरि क्विबित्यर्थः। कपावितौ। वेर्लोपः। णिलोप इति। "णेरनिटीत्यनेने"ति शेषः। गर्धबिति। गर्दभित्यस्मात्सुः। हल्ङ्यादिलोपः। "एकाचो बशः" इति दस्य धः। "वावसाने" इति चत्र्वम्। "एकाचो धातोर्झषन्तस्ये"त्यन्वये गर्दभित्यस्य सुब्धातोरनेकाच्त्वाद्दकारस्य भष्भावो न स्यात्। धात्ववयवस्य झषन्तस्येत्यन्वये तु दभिति एकाचो झषन्तस्य धात्वयवत्वात्तदवयवस्य दस्य भष्भावो निर्बाध इति भावः। अत्र प्राचीनैर्झलीत्यनुवर्तितम्। तदयुक्तमित्याह--झलीति निवृत्तमिति। स#आमथ्र्यादिति। "झली"त्यनुवृत्तौ तद्वैयथ्र्यादिति भावः। ननु झलीत्यस्यानुवृत्तिरेवास्तु। स्ध्वोरित्येव न क्रियतामित्यत आह--तेनेति। झलीत्यननुवर्तनेनेत्यर्थः। दुग्घमिति। दुहेः क्तः। कित्त्वान्न सघूपधगुणः। "दादेः"ति हस्य धः। "झषस्तथोर्धोऽधः" इति तकारस्य धः। "झलां जश् झशी"ति घस्य गः। दुग्धमिति रूपम्। दोग्धेति। दुहेस्तृच्। लघूपधगुणः। "दादेः" इति हस्य घः। "झषस्तथोः" इति तकारस्य धः। "ऋदुशनस्" इत्यनङ्। "सर्वनामस्थाने च" इति दीर्घः। हल्ङ्यादिलोपः। " न लोपः" इति नकारलोपः, "दोग्धा" इति रूपम्। झलीत्यनुवृत्तौ इहोभयत्रापि घत्वे कृते भष्भावः स्यादिति भावः। ननु दुहेः क्विबन्तात्सोर्लोपे"दादेः" इति घत्वे कृते दुघिति झषन्तमेकाच्कम्। तस्य धातुत्वाद्धात्ववयवत्वाऽभावात्कथमिह दकारस्य भष्भावेन धकारः स्यादित्यत आह--व्यपदेशिद्भावेनेति। विशिष्टोऽपदेशो व्यपदेशः=मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत्। धातावेव धात्वयवयत्वव्यवहारो गौणः, "राहोश्शिरः" इत्यादिवदिति भावः। इदं च "आद्यन्तवदेकस्मि"न्निति सूत्रे भाष्ये स्पष्टम्। धुक्दुगिति। क्विपः प्राक् प्रवृत्ताया धातुसंज्ञाया अनपायात् "दादेः" इति धत्वे कृते झषन्तत्वाद्भष्भावे चत्र्वविकल्प इति भावः। दुहौ दुहः। दुहम् दुहौ दुहः। दुहा। भ्यामादौ "दादेः" इति घत्वे कृते स्वादिष्विति पदत्वात् पदान्तत्वप्रयुक्तो भष्भावः। "झलां जशो।ञन्ते" इति जश्त्वम्। धुग्भिः। दुहे धुग्भ्याम् धुग्भ्यः। दुहः दुहोः दुहाम्। दुह् सु इति स्थिते प्रक्रियां दर्शयति--षत्वेति। घत्वे कृते भष्भावे "झलां जशोऽन्ते" इति जश्त्वेन गकारः। तस्य "खरि चे"ति चत्र्वस्याऽसिद्धत्वात् "आदेशप्रत्यययोः" इति षत्वे कृते चर्त्वे धुक्षु इति रूपमिति भावः। "द्रुह जिघांसायाम्," "मुह वैचित्त्ये" "ष्णुह उद्गिरणे" "ष्णिह प्रीतौ" एभ्यः क्विबन्तेभ्यः सोर्लोपे द्रुहेर्दादित्वाड्ढत्वं बाधित्वा नित्यं घत्वे प्राप्ते इतरेषामदादित्वादप्राप्ते घत्वे इदमारभ्यते।

तत्त्व-बोधिनी
एकाचो बशो भष् झषन्तस्य स्ध्वोः २८६, ८।२।३७

एकाचो बशो। झलीति निवृत्तमिति। "धुग्भ्यां" "धुक्ष्वि"त्यादौ "पदान्ते"इत्येव भष्भावसिद्धेरिति भावः। प्राचा तु "प्रातिपदिकस्य"तु झलि पदान्ते चे"त् व्याख्यातम्। तत्प्रामादिकमेव। "अधोक्" "अधोग्ित्याद्यसिद्द्यापत्तेः। प्रातिपदिकग्रहणस्याऽप्रकृतत्वाच्च। ननु "धातोरवयव"इति वैयधिकरण्येनाऽन्वये क्विन्तस्य दुह्#H "दादे"रिति घत्वेन झषन्तत्वेऽपि भष्भावो न स्यात्, "दु"घिति समुदायस्य यः पूर्ववयवो "दु"घिति समुदायस्य यः पूर्वावयवो "दु"इत्येकाच् तस्य झषन्तत्वाऽभावात्। "उघ्ित्युत्तरावयवे तु बशोऽभावादित्यत आह---व्यपदेशिवद्भावेनेति। न च धात्ववयवो धातुरित्येव व्यपदिश्यतां, तथाच "गर्ध"बिति सिध्येदिति वाच्यम्, अर्थवतां हि व्यपदेशिवद्बावः, न चावयवोऽर्थवानिति तस्य धातुत्वव्यपदेशाऽसंबवात्। भष्भाव इति। क्विपः प्राक्प्रवृत्ताया धातुसंज्ञाया निरपवादत्वेनावस्थितत्वात् "दादेर्धातो"रिति घत्वे कृते झषन्तत्वादिति भावः। धुगिति। "दुह प्रपूरणे"क्विप्।