पूर्वम्: ८।२।३७
अनन्तरम्: ८।२।३९
 
सूत्रम्
दधस्तथोश्च॥ ८।२।३८
काशिका-वृत्तिः
दधस् तथोश् च ८।२।३८

दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते। तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः। धत्तः। धत्थः। धत्से। धद्ध्वम्। वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति। अभ्यासजश्त्वस्य च असिद्धत्वम्। तथोः इति किम्? आनन्तर्यात् स्ध्वोरेव विज्ञायेत। चकारः तयोरनुवृत्त्यर्थः। झषन्तस्य इत्येव, दधाति।
लघु-सिद्धान्त-कौमुदी
दधस्तथोश्च ६२८, ८।२।३८

द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः। धत्तः। दधति। दधासि। धत्थः। धत्थ। धत्ते। दधाते। दधते। धत्से। धद्ध्वे। घ्वसोरेद्धावभ्यास लोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्, धासीष्ट। अधात्, अधित। अधास्यत्। अधास्यत॥ णिजिर् शौचपोषणयोः॥ ११॥ (इर इत्संज्ञा वाच्या)॥
न्यासः
दधस्तथोश्च। , ८।२।३८

दधातेरप्येतत्? कृतद्विर्वचनस्य रूपमस्ति। "दध धारणे" (धा।पा।८)--इत्यस्य चाकृतद्विर्वचनस्य रूपम्(), तत्र तु शपा व्यवहितत्वादनन्तरौ तथो न सम्भवतः; तस्माद्दधातेरेव ग्रहणं विज्ञायते, इत्याह--"दध इति कृतद्विर्वचनो दधातिः परिगृह्रते" इति। "धत्तः, इति। लटस्तस्थसौ, शपः [शपः श्लुलुपि द्विर्वचनम्()--प्रांउद्रितः पाठः] श्लुः "श्लौ" ६।१।१० (इति) द्विर्वचनम्(), "अभ्यासे चर्च" ८।४।५३ इति जश्त्वम्()--दकारः, "श्नाभ्यस्तयोरातः" ६।४।११२ इत्याकारलोपः, अभ्यासदकारस्य भष्? धकारः। धातुधकारस्य चत्र्वम्()--तकारः। "धत्से" इति। "थासः से" ३।४।८० "धध्वे" इति। टेरेत्त्वम्()। "धध्वम्()" इति। लोटि "सवाभ्यां वामौ" ३।४।९१ इत्यमादेशः। कथं पुनरत्र भष्भावः; यावता दधातेर्झषन्तस्य यो दश्? तस्य भष्? भवतीत्युच्यते, अत्र नापि झषन्ततास्ति; आकारलोपस्य "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इति स्थानिवद्भावात्(); नापि बश्(), अभ्यासजशत्वस्यासिद्धत्वात्()? इत्यत आह--"वचनसामथ्र्यात्()" इत्यादि। "अभ्यासजश्त्वस्यासिद्धत्वम्()" इति वचनसामथ्र्यान्न भवतीत्य पेक्षते। यद्याकारलोपस्य स्थानिवद्भावः स्यादभ्यासजश्त्वस्यासिद्धत्वम्()। एवं सत्यपार्थकतैवास्य वचनस्य स्यात्(), न हि दधातेराकारलोपेन विना बश्? स्यात्()। तस्माद्वचनप्रामाण्यादुभयं न भवति। इह झलोत्यनुवत्र्तते, झषन्तस्येति च, तकारथकाराभ्यामन्यः स झलस्ति यत्र दधातेर्झषन्तस्य भष्भावो नेष्यते। तस्मात्? "तथोः" इति वचनमन्तरेणापिसिद्धमिष्टमित्यभिप्रायेणाह--"तथोरिति किम्()" इति। "आनन्तर्यात्()" इत्यादि। अनन्तरसूत्रे हि "स्ध्वोः" ८।२।३७ इत्युक्तम्(), ततश्च "अनन्तरलस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति स्ध्वोरेव भष्भावो विज्ञायते, न तथोः; अतः "तथोः" इत्युच्यते। यद्येवम्(), निमित्तान्तरोपा दाने पूर्वस्य निमित्तस्य निवृत्त्या भवितव्यम्(), ततश्च तथोरेव स्यात्(), न स्ध्वोः? इत्यत आह--"चकारः" इत्यादि। परिहारः॥
बाल-मनोरमा
दधस्तथोश्च ३३१, ८।२।३८

दधस्तथोश्च। धाधातोः कृतद्वित्वस्य दधा इत्यस्य "दधः" इति षष्ठ()न्तम्। "एकाचो बशः" इत्यतो झषन्तस्य बशो भष् इत्यनुवर्तते। त थ् अनयोद्र्वन्द्वात् सप्तमीद्विवचनम्। तकारादकार उच्चारणार्थः। तकारथकारयोरिति लभ्यते। चकारात्स्ध्वोरिति समुच्चीयते। सकारे ध्वशब्दे चेति लभ्यते। तदाह-- द्विरुक्तस्येत्यादिना। तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात्। ननु "श्नाभ्यस्तयो"रित्याल्लोपः। धत्थधत्त इति। धस्य चर्त्वेन त इति भावः। दधतीति। "अदभ्यस्ता"दित्यदादेशे "श्नाभ्यस्तयो"रित्याल्लोपः। धत्थ इति। थकारपरकत्वाद्भष्। धत्थ। दधामि। दध्व इति। परनिमित्ताऽभावान्न भष्। दध्मः। धत्ते इति। दधाते दधते। धत्से इति। सकारपरकत्वाद्भषिति भावः। दधाथे। धद्ध्वे इति। दध् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः। दधे दध्वहे दध्महे। दधौ। दधे। धाता। धास्यति धास्यते। दधातु--धत्तात् दधतु। धेहीति। "ध्वसो"रित्येत्त्वाभ्यासलोपाविति बावः। धत्तात् धत्तम् धत्त। दधानि दधाव दधाम। धत्ताम् दधाताम् दधताम्। धत्स्व दधाथाम् धद्ध्वम्। दधै दधावहै दधामहै। अदधात् अदधात् अधत्त। दध्यात् दधीत। धेयात् धासीष्ट। अधात्। अधितेति। "स्थाध्वोरिच्चे"ति इत्त्व#ए "ह्यस्वादङ्गा"दिति सिचो लोप इति भावः। अधास्यत् अधास्यत। णिजिर् धातुः। अनिडयं णोपदेशः। इरित्। इकारस्य प्रत्येकमित्त्वाऽभावान्न नुम्। इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदं भवत्येव। तस्मादयमप्युभयुपदी। एवं विजिरपि ज्ञेयः। निजां त्रयाणाम्। निजां त्रयाणाम्। निजामिति बहुवचनात्तदादीनां ग्रहणम्। "अत्र लोपः" इत्यतोऽभ्यासस्येत्यनुवर्तते। तदाह-- णिजिरित्यादिना। नेनेक्तीति। श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः। अभ्यस्तत्वाददादेशं मत्वा आह-- नेनिजतीति। नेनेक्षि नेनिक्थः नेनिक्थ। नेनेज्मि नेनिज्मः। नेनिक्ते नेनिजाते नेनिजते। नेनिक्षे नेनिजाथे नेनिध्वे। नेनिजे नेनिजवहे नेनिज्महे। निनेज निनिजतुः निनिजुः। निनेजिथ निनिजथुः निनिज। निनेज निनिजिव निनिजिम। निनिजे निनिजाते निनिजिरे। निनिजिषे निनिजाथे निनिजिध्वे। निनिजे निनिजिवहे निनिजिमहे। नेक्ता। नेक्ष्यति। नेनेक्तु नेनिक्तात् नेनिक्ताम् नेनिजतु। नेनिग्धीति। अपित्त्वेन ङित्त्वान्न गुणः। हेर्धिः। नेनिक्तात् नेनिक्तम् नेनिक्त। "आडुत्तमस्य" इति पित्त्वेन अङित्त्वाल्लघूपधगुमे प्राप्ते

तत्त्व-बोधिनी
दधस्तथोश्च २८७, ८।२।३८

दधस्तथोश्च। "दध" इति कृतद्विर्वचनाभ्यासकार्यो धाञेव गृह्रते न तु दध धारण इत्ययमिति व्याचष्टे--- द्विरुक्तस्येति। झषन्तस्य किम्?। दधाति। नन्वेवं "धत्ते" इत्यादावपि न स्यादाल्लोपस्य स्थानिवत्त्वेनाऽझषन्तत्वादत आह-- वचनसामथ्र्यादिति।