पूर्वम्: ८।२।३८
अनन्तरम्: ८।२।४०
 
प्रथमावृत्तिः

सूत्रम्॥ झलां जशोऽन्ते॥ ८।२।३९

पदच्छेदः॥ झलाम् ६।३ जशः १।३ अन्ते ७।१ पदस्य ६।१ ८।१।१६

अर्थः॥

पदस्यान्ते वर्त्तमानानां झलां जशः आदेशाः भवन्ति।

उदाहरणम्॥

वागत्र, श्वलिडत्र, अग्निचिदत्र, त्रिष्टुबत्र॥
काशिका-वृत्तिः
झलां जशो ऽन्ते ८।२।३९

झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्।
लघु-सिद्धान्त-कौमुदी
झलां जशोऽन्ते ६७, ८।२।३९

पदान्ते झलां जशः स्युः। वागीशः॥
न्यासः
झलां जशोऽन्ते। , ८।२।३९

"()आलिट्()" इति। ढत्वे कृते जश्त्वम्()। अथान्तग्रहणं किमर्थम्(), ननु "स्कोः संयोगाद्योरन्ते च" (८।२।२९) इत्यतोऽन्तग्रहणमनुवत्र्तत एव? इत्यत आह--"अन्तग्रहणम्()" इत्यादि। तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्(), अतस्तदनुवृत्तौ झलीत्येतदप्यनुवत्र्तत, तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। तेन च वसतेः--वस्ता, वस्तुमित्यत्र न भवति॥
बाल-मनोरमा
झलां जशोऽन्ते ८४, ८।२।३९

अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते। पदस्येत्यधिकृतं। तदाह--पदान्त इति। पटत्पटदितीति। स्थानसाम्यात्तकारस्य दकारो जशिति भावः। अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम्।