पूर्वम्: ८।२।४२
अनन्तरम्: ८।२।४४
 
सूत्रम्
संयोगादेरातो धातोर्यण्वतः॥ ८।२।४३
काशिका-वृत्तिः
संयोगादेरातो धातोर् यण्वतः ८।२।४३

संयोगादिः यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्थातकारस्य नकारदेशो भवति। प्रदाणः। प्रदाणवान्। म्लानः। म्लानवान्। संयोगादेः इति किम्? यातः। यातवान्। आतः इति किम्? च्युतः। च्युतवान्। ल्पुतः। प्लुतवान्। धातोः इति किम्? निर्यातः। निर्वातः। यण्वतः इति किम्? स्नातः। स्नातवान्।
लघु-सिद्धान्त-कौमुदी
संयोगादेरातो धातोर्यण्वतः ८२०, ८।२।४३

निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥
न्यासः
संयोगादेरातो धातोर्यण्वतः। , ८।२।४३

"प्रद्राणः" इति। "द्रा कुत्सायां गतौ" (धा।पा।१०५४)। "कृत्यचः" ८।४।२८ इति णत्वम्()। "म्लानः" इति। "म्लै गात्रविनामे" ["म्लै हर्षक्षये"--इति धातुपाठः] (धा।पा।९०४)। "च्युतः, प्लुतः" इति। "च्युङ्? प्लुङ्? गतौ" (धा।पा।९५५,९५८)। "निर्यातः" इति। "या प्रापणे" (धा।पा।१०४९)। "निर्वातः" इति। "वा गतिगन्धनयोः" (धा।पा।१०५०)। अत्र र्या, र्वा-इत्येतयोर्धातुत्वं न भवति। "र्या" इत्ययं हि समुदायः संयोगादिः, न चायं धातुः, किं तर्हि? "या" इत्ययम्()। एवं "र्वा" इत्ययं संयोगादिः, न चैष धातुः, किं तर्हि? "वा" इत्ययम्()। ननु च बहिरङ्गमत्र संयोगादित्वम्(), द्विपदाश्रयत्वात्(), नत्वं तु विपर्ययादन्तरङ्गम्(); "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यसिद्धत्वादेव संयोगादित्वस्य नत्वं न भवतीति किं धातुग्रहणेन? एवं तर्हि एतज्ज्ञापयति--उपसर्गसम्बन्धेन यो धर्म उपजायते धातूपसर्गसमुदायस्य स धातोरतद्धर्मवतोऽपि कार्याणि प्रापयतीति। तेनोपास्तते गुरुः, अभिभूयते शत्रुरिति कर्मणि लकारः सिद्धो भवति। अत्र ह्रु पसर्गसम्बन्धेन सकर्मकत्वधर्मो जातः। स च धातूपसर्गसमुदायस्य, न धातुमात्रस्य। तत्र यद्ययमर्थो न ज्ञाप्येत, कर्मणि लकारो न स्यात्(); धातोरकर्मकत्वात्()। अ()स्मश्चार्थे ज्ञापिते तु भवति। "स्नातः" इति। "ष्णा शौचे" (धा।पा।१०५२)॥
बाल-मनोरमा
संयोगादेरातोधातोर्यण्वतः ८२७, ८।२।४३

संयोगादेः। निष्टातस्य नः स्यादति। शेषपूरणमिदम्। द्राण इति। "द्रा कुत्सायां गतौ"अस्मात् क्तः, तनत्वम्, णत्वम्। ग्लान इति। "ग्लै हर्षक्षये" "आदेचः" इत्यात्त्वे नत्वम्। ल्वादिभ्य एकविंशतेरिति। क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः। ज्येति। धातुसूचनम्। ग्रहिज्येति। संप्रसारणसूचनम्। जीन इति। ज्या- त इति स्थिते "संयोगादे"रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् "संयोगादेरातः" इति नत्वस्याऽप्राप्तावनेन नत्वम्। दुग्वार्दीर्घश्चेति। वार्तिकमिदम्। दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः। "मृदुतया दुतया" इति माघकाव्ये दुतशब्दं साधयितुमाह-- टु दु उपतापे इत्यादि। गून इति। गुधातोः क्ते दीर्घः। पूञो विनाशे इति। वार्तिकमिदम्। विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः। सिनोतेरिति। वार्तिकमिदम्। कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् "षिञ् बन्धने" इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः।