पूर्वम्: ८।२।४३
अनन्तरम्: ८।२।४५
 
सूत्रम्
ल्वादिभ्यः॥ ८।२।४४
काशिका-वृत्तिः
ल्वादिभ्यः ८।२।४४

लूञ् छेदने इत्येतत् प्रभृति वृ̄ञ् वरणे इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्यः उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्। ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम्। कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। पूनिः। दुग्वोर्दिर्घश्च इति वक्तव्यम्। दु आदूनः। दु विगूनः। पूञो विनाश इति वक्तव्यम्। पूना यवाः। विनष्टाः इत्यर्थः। विनाशे इति किम्? पूतम् धान्यम्। सिनोतेर् ग्रासकर्मकर्तृकस्य इति वक्तव्यम्। सिनो ग्रासः स्वयम् एव। ग्रासकर्मकर्तृकस्य इति किम्? सिता पाशेन सूकरी। ग्रासो ऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति।
लघु-सिद्धान्त-कौमुदी
ल्वादिभ्यः ८२१, ८।२।४४

एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥
न्यासः
ल्वादिभ्यः। , ८।२।४४

"जीनः" इति। "ज्या वयोहानौ" (धा।पा।१४९९), "ग्रहिज्या" ६।१।१६ इत्यादिसूत्रेण सम्प्रसारणम्(), "हलः" ६।४।२ इति दीर्घः। "ऋकारल्पादिभ्यः" इत्यादि। ऋकारान्तेभ्यो ल्वादिभ्यश्च परो यः क्तिन्? स निष्ठा भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं नु "ओदितश्च" ८।२।४५ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्()। यथा ऋकारल्पादिभ्यो निष्ठातकारस्य नत्वं भवति, तथा क्तिनोऽपि तकारस्य नत्वं भवतीति। "दुग्वोः" इति। "दु उपतापे" ["टु टु उपतापे"--धातुपाठः, पदमञ्जर्यां तु-"दु गतौ(९४४)इत्ययं धातुरुपात्तः, न "टु टु उपतापे" इति] (धा।पा।१२५६)। "गु पुरीषोत्सर्गे" (धा।पा।१३९९)। "पूनाः" इति विनष्टा इत्यर्थः। "पूतं धान्यम्()" इति। विधूतमित्यर्थः। "सिनोतेः" इति। "विञ्? बन्धने" (धा।पा।१२४८) इत्येतस्य। "ग्रासकर्मकर्त्तृकस्य" इति। ग्रासः कर्मकर्ता यस्य स तथोक्तः। अर्थद्वारकञ्चेदम्()। तस्य ग्रासकर्मकर्त्तृकत्वं विशेषणं वेदितव्यम्()। यथा सिनो ग्रासो बन्धनक्रियायां व्यञ्जनविशेषयोगादानुकूल्यं प्रतिपद्यते, तथा कर्मणोऽपि सतस्तस्य कर्त्तृत्वं विवक्षितमिति कर्मकत्र्तासौ भवति। "सिनो ग्रासः" ति। स्वयमेव बद्ध इत्यर्थः। "सिता पाशेन सूकरी" इति। समुदायप्रत्युदाहरणमेतत्()। अवयवप्रत्युदाहरणं दर्शयितुमाह--"ग्रासोऽपि" इत्यादि। ग्रासोऽपि यदि कर्मैव भवति न कर्मकर्ता, तदापि न भवति; ग्रासकर्मकर्त्तृकत्वमस्य तदाभावात्()। ग्रासकर्मतो हि स तदानीं भवति ग्रासकर्मकर्त्तृकः॥
तत्त्व-बोधिनी
ल्वादिभ्यः ६८०, ८।२।४४

एकविंशतेरिति। क्र्यादिषु प्वादयो द्वाविंशतिः पठ()ते,तत्र पूञं विहाय ल्वादयो ज्ञेयाः। जीन इति। "हल" इति दीर्घः। सिद्धत्वान्नित्यत्वाच्च "ग्रहिज्ये" ति संप्रसारणे कृते "संयोगादेरातःर" इत्यस्याऽप्राप्तिः।

*दुग्वोदीर्घश्च। गून इति। गु परीषोत्सर्गे।

*पूञो विनाशे। विनष्टा इति। धातूनामनेकार्थत्वात्पूञ पवन इत्यस्य विनाशेऽपि वृत्तिः।

* सिनोतेग्र्रासकर्मकर्तृकस्य। सिनोतेरिति। षिञ् बन्धने। ग्रासरूपं कर्म ग्रासकर्म,तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः। सिनो ग्रास इति। पिण्डीक्रियमाणो ग्रासो यदा दध्यादिव्यञ्जनवशाद्बन्धनेऽनुकूलो भवति तदा कर्मण्येव कर्तृत्वमिति बोध्यम्। ग्रासेति किमिति?। "ग्रास कर्मकर्तृकस्ये"ति किमर्थमित्यर्थः। कर्मकर्तृकेति किमिति। "ग्रासकर्मकस्ये"त्येवास्तु कर्तृपदं किमर्थमित्यर्थः। कर्मपदं विहाय "ग्रासकर्तृकस्ये"त्युक्तौ तु "ग्रासेन कण्ठः सित" इत्यत्रापि स्यादिति बोध्यम्।