पूर्वम्: ८।२।५९
अनन्तरम्: ८।२।६१
 
सूत्रम्
ऋणमाधमर्ण्ये॥ ८।२।६०
काशिका-वृत्तिः
ऋणम् आधमर्ण्ये ८।२।६०

ऋणम् इति ऋ इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये। अधमः ऋणे अधमर्णः, एतस्मादेव निपातनात् सप्तम्यन्तेन उत्तरपदेन समासः, तद्भावः आधमर्ण्यम्। यद्येवम्, उत्तमर्णः इति न सिध्यति? न एष दोषः। कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम्। तेन उत्तमर्णः इत्यपि हि भवति। ऋणं ददाति। ऋणं धारयति। आधमर्ण्ये इति किम्? ऋतं वक्ष्यामि नानृतम्।
न्यासः
ऋणमाधमण्र्ये। , ८।२।६०

"ऋ इत्येतस्मात्()" इति। "ऋ गतौ" (धा।पा।१०९८) इत्येतस्मात्(), "ऋ गतिप्रापणयोः" (धा।पा।९३६) इत्येतस्माद्वा। "अधम ऋणेऽधमर्णः" इति। केन पुनरत्र समास इति? यावता नात्र किञ्चित्? समासलक्षणमस्ति; "सप्तमिति योगविभागात्? समासः" इत्येतच्च न वक्तव्यम्(), सप्तम्याः पूर्वनिपातप्रसङ्गत्()? इत्यत आह--"एतस्मादेव" इत्यादि। "तद्भाव आधमण्र्यम्()" इति। तत्? प्रतिदास्यतीति ग्रहणक्रियाभिसम्बन्धः। तद्योगाद्भावेऽसावधमर्ण इत्युच्यते। "कालान्तर" इत्यादि। यस्मिन्? कालेऽधमर्णो गृह्णाति तस्मात्? कालादन्य आगामी कालः कालान्तरम्(), तत्र यद्देयं तत्? कालान्तरदेयम्(), तेन यो विनिमयः= विपरिवत्र्तनम्(), तदुपलक्षणार्थमेवाधमर्णग्रहणमेवमुपात्तम्(), न च स्वार्थपरतिपादनार्थमेव। किं कारणमेवं व्याख्यायते? इत्याह--"उत्तमर्ण इत्यपि भवति" इति। ऋणे ह्रेकोऽधमर्णो भवति, यो गृहीत्वा प्रतिदास्यतीति; यस्तु दत्वा ग्रहौष्यति स उत्तमर्णः। तत्र यद्याधमण्र्यग्रहणं स्वार्थप्रतिपादनार्थमेवोपात्तम्(), तदोत्तमर्ण इति न सिध्येत्(), न ह्रत्राधमण्र्यं विवक्षितम्()। तत्तर्हीदं चोत्तमर्यर्णेऽपि कालान्तरदेयविनिमयोपलक्षणार्थत्वादाधमण्र्यग्रहणे सत्येतदपि सिध्यति, अस्ति ह्रत्र कालान्तरद्वयविनिमयः। तथा ह्रुत्तमर्णोऽपि प्रयच्छन्? कालान्तरे यद्देयं तेन विनिमयं करोति॥
बाल-मनोरमा
ऋणमाधमण्र्ये ८५०, ८।२।६०

ऋणमाधमण्र्ये। अधमर्णस्य कर्म - आधमण्र्यम्। आधमण्र्यव्यवहारे इति। स च अन्यदीयं द्रवयं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः। ऋतमन्यदिति। सत्यमित्यर्थः।

तत्त्व-बोधिनी
ऋणमाघणण्र्ये ६९६, ८।२।६०

ऋणमाधमण्र्ये। अधमं दुःखप्रदमृणमस्य सोऽधमर्णः, तस्य भाव आधमण्र्य। तेन व्यवहारविशेषो लक्ष्यते। ततश्च उत्तमर्णोऽपि सिध्यतीत्याशयेन व्याचष्टे--- अधमर्णव्यहार इति। स च व्यवहारो दातृग्रहीत्रोः संबन्धी भवतीत्युत्तमर्णोऽपि प्रयोगो न विरुध्यते। लक्षणायां तु "धारेरुत्तमर्णः" इति निर्देशो लिङ्गम्।