पूर्वम्: ८।२।६१
अनन्तरम्: ८।२।६३
 
सूत्रम्
क्विन्प्रत्ययस्य कुः॥ ८।२।६२
काशिका-वृत्तिः
क्विन्प्रत्ययस्य कुः ८।२।६२

पदस्य इति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालो ऽन्त्यस्य कवर्गादेशो भवति। स्पृशो ऽनुदके क्विन् ३।२।५८। घृतस्पृक्। हलस्पृक्। मन्त्रस्पृक्। क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्। क्विन् प्रत्ययो यस्माद् विहितस् तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक्। सृजिदृशिभ्यां हि क्विन् विहितः, तयोर् लुङि कुत्वम् एतत्। माङ्योगे ऽपि छन्दसत्वादडागमः। ईट् च न भवति, बहुलं छन्दसि ७।३।९७ इति। तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्याम् इत्यत्र अपि कुत्वं प्राप्नोति। अथ तु न इष्यते, प्रतिविधानं कर्तव्यम् इति।
लघु-सिद्धान्त-कौमुदी
क्विन्प्रत्ययस्य कुः ३०६, ८।२।६२

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।ऋत्विग्भ्याम्॥
न्यासः
क्विन्प्रत्ययस्य कुः। , ८।२।६२

"घृतस्पृक्()" इति। अत्र शकारस्य विवृत्तकरणस्य ()आआसानुप्रदानस्याघोषस्य तादृश एव खकारः, तस्य जश्त्वम्()--गकारः। गकारस्यापि चत्र्वम्()--ककारः। अथ प्रत्ययग्रहणं किमर्थम्(), न क्विन इत्येवोच्येत, न हि क्विन्? प्रत्ययत्वं व्यभिचरति। एवमुच्यमाने लोपापवादः क्विन एव कुत्वं स्यादित्येतच्च नाशङ्कनीयम्(), तथा हि--क्विन्निति प्रत्ययग्रहणं यत्र प्रत्ययग्रहणं प्रत्ययग्रहणपरिभाषया (भो।प।सू।७) क्विन्नन्त उपस्थापिते क्विनो लोपे कत्र्तव्ये कुत्वस्यासिद्धत्वात्? पूर्वं लोपेनैव भवितव्यम्()। तस्मिन्? सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यिति? इत्यत आह--"क्विनः कुरिति वक्तव्ये" इत्यादि। असति हि प्रत्ययग्रहणे क्विन्प्रत्ययान्तस्यैव पदान्तस्य स्यात्(), मान्यप्रत्ययान्तस्य, तस्यापि चेष्यते। तस्मात्? प्रत्ययग्रहणं क्रियते। प्रत्ययग्रहणे सति बहुव्रीहिर्लभ्यते। तेन बहुव्रीहिणा यस्माद्विहितः स धातुरूपलक्ष्यत इति सर्वस्य सिध्यति। "मानो अरुआआक्(), मानो अद्राक्()" इति। "सृज विसर्गे" (धा।पा।१४१४) "दृक्षिर्? प्रेक्षणे" (धा।पा।९८८), लुङ्(), च्लेः सिच्? ३।१।४४, तिप्(), "सृजिदृशोर्झल्यमकिति" ६।१।५७ इत्यमागमः, "वदव्रज" ७।२।३ इत्यादिना वृद्धिः, हल्ङ्यादिलोपः ६।१।६६, अडागमः, अनेन कृत्वम्()। "सृजिदृशिभ्यां क्विन्विहितः" इति। "ऋत्विक्()" ३।२।५९ इत्यादिना सृजेः क्विन्विहितः। दृशेरपि "त्यवादिषु दुशेरनालोचने कञ्च" ३।२।६० इत्यनेन। कथं पुनरत्राडागमः, यावता "न माङयोगे" (६।४।७४) इति प्रतिषिद्धोऽसो? इत्यत आह-"माङ्योगेऽपि" इत्यादि। छान्दसौ ह्रेतौ प्रयोगौ। तेन सत्यपि माङ्योगे "बहुलं छन्दस्यामाङ्योगेऽपि" ६।४।७५ इत्यडागमो भवत्येव। "अस्तिसिचोऽपृक्ते" (७।३।९६) इतीट्? तर्हि कस्मान्न भवति? इत्याह-ईट्? च न भवति" इत्यादि। प्रत्ययग्रहणाद्यथा क्विन्प्रत्ययस्य लुगन्तस्य कृत्वं भवति, दृग्भ्यामित्या दौदृशेः क्विबन्तस्यापि। "एवम्()" इत्यादि। प्रत्ययग्रहणात्? क्विन्प्रत्ययो यस्माद्विहितः, तस्यान्यप्रत्ययान्तस्यापि कुत्वं भवतीत्यस्मिन्नर्थे व्यवस्थिते रज्जुसृङ्भ्यामित्यत्रापि ब्राश्चादिसूत्रेण (८।२।३६) षत्वं यत्? प्राप्नोति तद्बाधित्वा कृत्वेन भवितव्यम्()। "अथ तु नेष्यते, प्रतिविधानं कत्र्तव्यम्()" इति। [नास्ति--प्रांउ।पाठे] प्रतिविधानमुत्तरसूत्रे वाग्रहणं यत्? तदुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च, तेनेह न भविष्यतीति। एवञ्च सति रज्जुसृभ्याम्(), रज्जुसृङ्भ्य इति भवितव्यम्()॥
बाल-मनोरमा
क्विन्प्रत्ययस्य कुः , ८।२।६२

क्विन्प्रत्ययस्य कुः। "पदस्ये"त्यधिकृतम्। "झलाञ्जशोऽन्ते" इत्यतेऽन्त इत्यनुवर्तते। क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः। क्विन्नन्तस्येति तु नार्थः, तथासति "क्विनः कु"रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात्। तदाह--क्विन्प्रत्ययो यस्मादित्यादिना। बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते। कुरिति कवर्गो गृह्रते, उदित्त्वात्। अणिदित्सूत्रे "अप्रत्यय" इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामथ्र्यात्। तेन कुरिति विधायमानोपि सवर्णग्राहकः। ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात्। अत आह--नस्येति। नासिकास्थानत आन्तर्यादिति भावः। युङिति। "युजिर् योगे।" रूधादिः। युनक्तीति युङ्। नुमि कृते तदीयनकारस्य "चोः कुः" इति कुत्वं न प्रानोतीति "क्वन्प्रत्ययस्ये"त्यारम्भः। अथ औजसादिषु विशेषमाह--नश्चेति। नुम इति। "युजेरसमासे" इति विहितस्ये"ति शेषः। परसवर्ण इति। "अनुस्वारस्य ययी"ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः। तेन युञ्जावित्यादि सिद्धम्। नन्विह ञकारस्य झलि जकारे परे "चोः कु"रिति कुत्वं कुतो न स्यादित्यात आह--तस्येति। परसवर्णस्येत्यर्थः। युग्भ्यामिति। "स्वादिषु" इति पदत्वाज्जकारस्य गकार इति भावः।

तत्त्व-बोधिनी
क्विन्प्रत्ययस्य कुः ३३७, ८।२।६२

क्विन्प्रत्ययस्य। क्विनः कु " रित्युक्तेऽपि प्रत्ययग्रहणे तदन्तग्रहणात्क्किन्नन्त्स्य ग्रहणे सिद्धे प्रत्ययग्रहणं बहुव्रीहिविज्ञानार्थमित्याशयेन व्याचष्टे--क्विन्प्रत्ययो यस्मादितिष।बहुव्()रीह्राश्रयणफलं तु "स्पृ"गित्यादि स्फुटीबविष्यति।