पूर्वम्: ८।२।६२
अनन्तरम्: ८।२।६४
 
सूत्रम्
नशेर्वा॥ ८।२।६३
काशिका-वृत्तिः
नशेर् वा ८।२।६३

पदस्य इति वर्तते। नशेः पदस्य वा कवर्गादेशो भवति। सा वै जीवनगाहुतिः। स वे जीवनडा हुतिः। नशेरयं सम्पदादित्वाद् भावे क्विप्। जीवस्य नाशो जीवनक्, जीवनट्। षत्वे प्राप्ते कुत्वविकल्पः।
लघु-सिद्धान्त-कौमुदी
नशेर्वा ३५१, ८।२।६३

नशेः कवर्गोऽन्तादेशो वा पदान्ते। नक्, नग्; नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥ ,
न्यासः
नशेर्वा। , ८।२।६३

"जीवनङाहुतिः" इति। अत्राकुत्वपक्षे व्रश्चादिसूत्रेण ८।२।३६ षत्वे कृते जश्त्वम्()--डकारः॥
बाल-मनोरमा
नशेर्वा , ८।२।६३

नशेर्वा। "क्विन्प्रत्ययस्य कुः" इत्यतः कुरित्यनुवर्तते, "स्कोः संयोगाद्योः" इत्यतोऽन्ते इति च। "पदस्ये"त्यदिकृतं। तदाह--नशेरित्यादि। "अन्तादेश" इत्यलोऽन्त्यसूत्रलभ्यम्। पक्षे "व्रश्चे"चि षत्वम्। नक् नगिति। कुत्वपक्षे जश्त्वचत्र्वाभ्यां रूपे। नट् नडिति। षत्वपक्षे जश्त्वचत्र्वाभ्यां रूपे। नग्भ्यां नढ्भ्यामिति। कुत्वपक्षे जश्त्वेन गकारः। षत्वपक्षे तु जश्त्वेन डकारः। "मस्जिनशोर्झली"ति नुम् तु न, धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात्।

तत्त्व-बोधिनी
नशेर्वा ३८३, ८।२।६३

नगिति। षडगकाः प्रग्वात्।