पूर्वम्: ८।२।६४
अनन्तरम्: ८।२।६६
 
सूत्रम्
म्वोश्च॥ ८।२।६५
काशिका-वृत्तिः
म्वोश् च ८।२।६५

मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनजनविदविशाम् ७।२।६८ इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।
लघु-सिद्धान्त-कौमुदी
म्वोश्च ८३३, ८।२।६५

मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥
न्यासः
म्वोश्च। , ८।२।६५

"अगन्म" इति। "स उत्तमस्य" ३।४।९८ इति सकारलोपः। "जगन्वान्()" इति। गमेर्लिट्(), क्वसुः, हल्ङ्यादि ६।१।६६ संयोगान्तलौपौ ८।२।२३, "सान्तमहतः" ६।४।१० इति दीर्घः, "गमहन" ६।४।९८ इत्यादिनोपधालोपः। "छन्दस्युभयथा" ३।४।११७ इति सार्वधातुकत्वं न भवति। चकारः "धातौः" इत्यनुकर्षणार्थः॥
तत्त्व-बोधिनी
मोश्च १२४, ८।२।६५

कमु कान्तौ। अस्य णिङभावे "उदितो वे"ति क्त्वायामिड्विकल्पः। कमित्वा। कान्त्वा। निष्ठायां तु "यस्य विभाषे"ति निषेधात्कान्तः।