अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते। अवपूर्वस्य यजेः अवेतपूर्वस्य वहेः, पुरस् पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्
३।२।७१, अवे यजः
३।२।७२ इति ण्विनि कृते, श्वेतवहादीनां डस्पदस्य इति डस्प्रत्यये निपातनानि एतानि। किमर्थं तर्हि निपातनं यावता पूर्वेण एव रुः सिद्धः, दीर्घत्वम् अपि अत्वसन्तस्य चाधातोः
६।४।१४ इति? सम्बुद्धौ दीर्घार्थम् एते निपात्यन्ते। अत्वसन्तस्य चाधातोः
६।४।१४ इत्यत्र हि असम्बुद्धौ इति वर्तते। हे अवयाः। हे श्वेतवाः। हे पुरोडाः। चकारो ऽनुक्तसमुच्वयार्थः। हे उक्थशाः।
"दाशेः" ["दाशतेः"--काशिका] इति। "दाशृ दाने" (धा।पा।८८२) इत्यस्माण्ण्विनि कृत इति। वहिदाशिभ्यां "मन्त्रे ()ओतवहोक्थशस्पुरोडाशो ण्विन्()"
३।२।७१ इत्यनेन, यजेश्च "आवे यजः"
३।२।७२ इति ण्विन्प्रत्ययान्तेभ्यः सम्बुद्धिः, तस्या हलङ्यादिलोपः
६।१।६६, ततः "()ओतवाहादीनां डस्पदस्य" (वा।२६३) इति डस्प्रदस्य" टिलोपः। किमर्थमेते निपात्यन्ते, यावता ()ओतवोभ्याम्, ()ओतवोभिरित्येवमाद्यर्थम्?
"()ओतवाहादीनां डस्पदस्य" इत्यदश्यमिदं वक्तव्यम्(), डसि च कृते "ससजुषो रुः" (८।२।
६६) इत्येव सिद्धम्()? इत्याह--"()ओतवाहादीनाम्()" इत्यादि।
नैते रुत्वार्थ निपात्यन्ते,
किं तर्हि? सम्बुद्धौ दीर्घत्वार्थम्। ननु च द्रीर्घत्वमप्येषां "अत्वसन्तस्य चाधातोः" (६।४।
१४) इत्येव सिद्धम्()? इत्यत आह--"अत्वसन्तस्य च" इत्यादि। तत्र हि "सर्वनामस्थाने चासम्बुद्धौ"
६।४।८ इत्यतः "असम्बुद्धौ" इत्येतदनुवत्र्तते, तेन सम्बुद्धौ दीर्घत्वं प्राप्नोतीति, तदर्थमेते निपात्यन्ते। "पुरोडाः" इति। "मन्त्रे ()ओतवहोक्थशस्()"
३।२।७१ इत्यादिनैव सूतद्रेण दकारस्य डकारो निपात्यते। "उक्थशाः" इति। "शन्सु स्तुतौ" (दा।पा।७२८)। उक्थानि शंसतीति "मन्त्रे ()ओतवह"
३।२।७१ इत्यादिनैव ण्विन्(),
ततः पूर्ववत्? सम्बुद्ध्यादिः॥