पूर्वम्: ८।२।७२
अनन्तरम्: ८।२।७४
 
सूत्रम्
तिप्यनस्तेः॥ ८।२।७३
काशिका-वृत्तिः
तिप्यनस्तेः ८।२।७३

तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपि इति किम्? चकास्तेः क्विप्, चकाः। अनस्तेः इति किम्? आप एव इदं सलिलं सर्वमाः। आः इत्यस्तेः लङि तिपि बहुलं छन्दसि ७।३।९७ इति ईड् न कृतः।
लघु-सिद्धान्त-कौमुदी
तिप्यनस्तेः ६७२, ८।२।७३

पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥
न्यासः
तिप्यनस्तेः। , ८।२।७३

"अचकात्? अन्वशात्()" इति। "चकासृ दीप्तौ" (धा।पा।१०७४), "शासु अनुशिष्टौ" (धा।पा।१०७५), लङ्(), तिप्(), अदादित्वाच्छपो लुक्(), हल्ङ्यादिलोपः ६।१।६६। भवानित्यनुप्रयोगस्तिपोऽभिव्यक्तेये। "आ" इति। "आडजादीनाम्()" ६।४।७२ इत्याट्(), "आटश्च" ६।१।८७ इति वृद्धिः, तिपो लोपे कृते धातुसकारस्य रुत्वम्(), तस्य विसर्जनीयः॥
बाल-मनोरमा
तिप्यनस्तेः ३१४, ८।२।७३

तिप्यनस्तेः। न अस्तिः--अनस्तिः, तस्येति विग्रहः। पदस्येत्यधिकृतम्। "झलां जशोऽन्ते" इत्यतोऽन्ते इत्यनुवर्तते। "ससजुषो"रित्यतः स इति षष्ठ()न्तमनुवर्तते। "वसुरुआंसुध्वंस्वनडुहां दः" इत्यतो द इति। तदाह--- पदान्तस्येत्यादिना। अनस्तेः किम्?। "सलिलं सर्वमा इदम्"। "आ" इत्यसदातोर्लङस्तिपि इकारलोपे "बहुलं छन्दसी"ति "अस्तिसिचः" इति ईडभावे हल्ङ्यादिलोपे रूपम्। प्रकृते तु चकासेर्लङस्तिपो हल्ङ्यादिलोपे सकारस्य दत्वे "वाऽवसाने" इति चत्र्वजश्त्वे इत्यभिप्रेत्याह--अचकात् अचकादिति। अचकासुरिति। "सिजभ्यस्ते"ति जुसिति भावः।

बाल-मनोरमा
र्वोरुपधाया दीर्घ इकः , ८।२।७३

र्वोरुपधायाः। र् च, व् च र्वौ, तयोरिति विग्रहः। "सिपि धातो रुर्वा" इत्यतो धातोरित्यनुवर्तते। र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः। "पदस्ये"त्यधिकृतम्। "स्कोः संयोगाद्योः" इत्यतोऽन्ते इत्यनुवर्तते। तदाह--रेफेत्यादिना। पिपठीरिति। ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः। पिपठीभ्र्यामिति। "स्वादिषु" इति पदत्वात् "र्वोरुपधायाः" इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः। सुपि विशेषमाह--वा शरीति। पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वं "वा शरी"ति विकल्पेन विसर्जनीयः। तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः। तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् "आदेशप्रत्यययोः" इति षत्वे अप्राप्ते-।