पूर्वम्: ८।२।७५
अनन्तरम्: ८।२।७७
 
प्रथमावृत्तिः

सूत्रम्॥ र्वोरुपधाया दीर्घ इकः॥ ८।२।७६

पदच्छेदः॥ र्वोः ६।२ ७९ उपधायाः ६।१ ७९ दीर्घः १।१ ७९ इकः ६।१ ७९ धातोः ६।१ ७४ पदस्य ६।१ ?

समासः॥

रश्च वश्च र्वौ, तयोः ॰ इतरेतरद्वन्द्वः।

अर्थः॥

रेफान्तस्य वकारान्तस्य च धातोः पदस्य उपधायाः इकः दीर्घः भवति।

उदाहरणम्॥

रेफान्तस्य -- गीः, धूः, पूः, आशीः। वकारग्रहणम् उत्तरार्थं तेन तत्रैव उदाहरिष्यते।
काशिका-वृत्तिः
र्वोरुपधाया दीर्घ इकः ८।२।७६

रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति। गीः। धूः। पूः आशीः। वकारग्रहणम् उत्तरार्थम्। उपधाग्रहणं किम्? अबिभर् भवान्। अभ्यासेकारस्य मा भूत्। इकः इति किम्? अत्र एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोः इत्येव, अग्निः। वायुः। पदस्य इत्येव, गिरौ। गिरः।
लघु-सिद्धान्त-कौमुदी
वोरुपधाया दीर्घ इकः ३५३, ८।२।७६

रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ ,
न्यासः
र्वोरुपधाया दीर्घ इकः। , ८।२।७६

पदस्येत्येव, धातोरिति च, तदुभयमिह समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशे णेन च तदन्तविधिर्भवतीत्याह--"रेफवकारान्तस्य" इति। वकारस्योदाहरणं कसमान्न प्रदर्शितम्()? इत्याह--"दकारग्रहणमुतरार्थम्()" इति। तेन वकारान्तस्योदाहरणं न प्रदर्शितमिति भावः। एतदर्थं तु तन्न भवति; वकारान्तस्य पदस्य धातोरसम्भवात्()। "अबिभः" इति। भृञो लङ्(), तिप्(), गुणः, रपरत्वम्(), "जुहोत्यादिभ्यः श्लुः" २।४।७५, द्विर्वचनम्(), "उरत्()" ७।४।६६ इत्यत्त्वम्(), "भृ()ञामित्()" ७।४।७६ इतीत्त्वम्(), हल्ङ्यादिलोपः ६।१।६६
तत्त्व-बोधिनी
र्वोरुपधाया दीर्घ इकः ३८५, ८।२।७६

"षङ्भयो लुक्" "षट्चतुभ्र्यश्चे"ति बहुवचननिर्देशात्षडर्थप्राधान्ये एव लुङ्नुटौ भवत इति भावः। पिपठिषतेः क्विप्यतो लोपे कृदन्तत्वात्स्वाद्युत्पत्तौपिपठिष्--सु इति स्थिते सोर्हल्ङ्यादिलोपे प्रत्ययलक्षणेन पदान्तत्वात्सस्य रुर्भवति। न च रुत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वं शङ्क्यं, पूर्वत्रासिद्धे तन्निषेधात्।