पूर्वम्: ८।२।७
अनन्तरम्: ८।२।९
 
सूत्रम्
न ङिसम्बुद्ध्योः॥ ८।२।८
काशिका-वृत्तिः
न ङिसम्बुद्ध्योः ८।२।८

ङौ परतः सम्बुद्धौ च नकारलोपो न भवति। आर्द्रे चर्मन्। लोहिते चर्मन्। सुपां लुकिति ङेर्लुक्। सम्बुद्धौ हे राजन्। हे तक्षन्। एतस्मादेव नलोपप्रतिषेधवचनातप्रत्ययः इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यते इति ज्ञाप्यते, भसंज्ञा च न भवति इति। तथा च राज्ञः पुरुषः राजपुरुषः इत्यत्र नलोपश्च भवति, अल्लोपश्च न भवति। ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः। चर्मणि तिला अस्य चर्मतिलः। हे राजन् वृन्दारक इत्यत्र समुदायार्थसम्बोधनम्, न पूर्वपदार्थसम्बोधनं प्रतीयते इति सम्बुद्ध्यन्तं पूर्वपदं न एव समस्यते। वा नपुंसकानाम् इति वक्तव्यम्। हे चर्मन्, हे चर्म।
लघु-सिद्धान्त-कौमुदी
न ङिसम्बुद्ध्योः २८३, ८।२।८

नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (ङावुत्तरपदे प्रतिषेधो वक्तव्यः)। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥
न्यासः
न ङिसम्बुद्ध्योः। , ८।२।८

"चर्मन्()" इति। "सुपां सुलृक्()" ७।१।३९ इति ङेर्लुक्()। ननु च सुराजन्निति प्रातिपदिकसंज्ञा हि विद्यते, प्रत्ययलक्षणेन १।१।६१ "अप्रत्ययः" १।२।४५ इति न प्रतिषेधात्()। "आद्र्रे चर्मन्()" इति। अत्र तु न केवल प्रातिपदिकसंज्ञा पूरवोक्तादेव हेतोर्नास्ति; प्रत्ययलक्षणेन प्रवृत्तया भसंज्ञया बाधितत्वात्()। अतो नलोपप्राप्तिर्मास्त्येवेत्यर्थः। कथं प्रतिषेधः? इत्यत आह--"एतस्मादेव" इत्यादि। "भसंज्ञा च न भवति" इति। अत्राप्येतस्मादेव प्रतिषेधवचनात्? प्रत्ययलक्षणेन च ज्ञाप्यत इति सम्बध्यते। "तथा च" इत्यादिना ज्ञापनप्रयोजनं दर्शयति तदेवमेतस्मात्? प्रतिषेधादर्थद्वयं ज्ञाप्यते। एवञ्च कृत्वा--राजपुरुष इत्यत्र प्रातिपदिकसंज्ञायां सत्यां नलोपश्च भवति। भसंज्ञायामसत्यां "अल्लोपोऽनः" ६।४।१३४ इत्यलोपश्च न भवति। न भसंज्ञाभावन्चेत्यस्येह "यथोद्देर्श संज्ञापरिभाषम्()" (व्या।प।५९) इत्यस्मिन्? दर्शने प्रयोजनं वेदितव्यम्()। "कार्यकालं हि संज्ञापरिभाषम्()" (व्या।प।५८) इत्यस्मिन्? दर्शने भसंज्ञायामङ्गकार्यं भवतीति "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणप्रतिषेधादेव भसंज्ञा न भवतीति नार्थस्तत्र भसंज्ञाया अभावज्ञापनेन। "ङावुत्तरपदे" इत्यादिनायं ङौ परतो नलोपप्रतिषेधस्य प्रतिषेध उक्तः। तस्योत्तरपदे परतो यो ङिस्तत्र प्रतिषेधो वक्तव्यः "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"स्वरितो दानुदात्तं पदादौ" ८।२।६ इत्यतः "वा" इत्यनुवत्र्तते, सा च व्यवस्थितविभाषा, तेन ङावुत्तरपदे न भविष्यतौति। "चर्मणि तिला अस्य चर्मतिलः" इति। वैयधिकरण्येऽपि गमकत्वात्? समासः। ननु चात्यल्पमिदमुच्यते--ङावुत्तरपदे प्रतिषेधो वक्तव्य [अयं भागः का। मुद्रितपूस्तके नास्ति] इति। सम्बुद्धावपि ह्रुत्तरपदे प्रतिषधो [अयं भागः का। मुद्रितपूस्तके नास्ति] वक्तव्य एव; अन्यथा हि हे राजन्? वृन्दारकेति विगृह्र "वृन्दारकनागकुञ्जरैः" (२।१।६२) इति समासे कृते हेराजन्? वृन्दारकेत्यत्र नलोपो न स्यात्()? इत्यत आह--"हे राजन्? वृन्दारकेत्यत्र तु" इत्यादि। समानार्थेन वाक्येन समासेन भवितव्यम्(), एवं हि सामथ्र्यं भवति, नान्यथा। तथा चोक्तम्()--ग्रहणवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्य इति। यश्चेहार्थो हे राजन्? वृन्दारकेति वाक्येन गम्यते, स न ज्ञायते--हे राजवृन्दारकेति समासेन। वाक्येन ह्रेकार्थीभावाभावात्? सम्बोधनं गम्यते, समासे तु विपर्ययात्? समुदायार्थः सम्बोधनम्()। तस्माद्राजा चासौ वृन्दारकश्चेत्येवमेव विगृह्र समासः कत्र्तव्यः, ततः सम्बुद्धिः, एवञ्च सम्बुद्ध्यन्तं पूर्वपदम्()। हे राजन्? वृन्दारकेत्यत्र समासो भविष्यत्येव; ततश्चोत्तरपदे परतः सम्बुद्धेरभावान्नलोपप्रतिषेधस्य प्राप्तिरेव नास्तीति नार्थस्ततप्रतिषेधेन। "वा नपुंसकानाम्()" इत्यादि। नपुंसकलिङ्गानां वा नलोपप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमिति। अत्र व्याख्यानं तु--इहापि वाग्रहणानुवृतिं()त व्यवस्थितविभाषात्वं चाश्रित्य कत्र्तव्यम्()॥
बाल-मनोरमा
न ङिसंबुद्ध्योः , ८।२।८

हे राजन् स् इति स्थिते हल्ङ्यादिना सुलोपे सति नकारस्य पदान्तत्वात्प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते--न ङिसंबुद्ध्योः। "न लोपः प्रातपदिकान्तस्ये"त्यतो "न लोप" इत्यनुवर्तते। तत्र "ने" ति लुप्तषष्ठीकन्तदाह--नस्येत्यादिना। हे राजन्निति। "सर्वनामस्थाने चे"ति दीर्घस्तु न, "असंबुद्धा"वित्युक्तेः। नन्वत्र ङिग्रहणं व्यर्थं, राजनीत्यत्र भत्वात्पदत्वाऽभावान्नलोपस्याऽप्रसक्तेरित्यत आह--ङौ तु छन्दसीति। छन्दस्येवेत्यर्थः। ननु छन्दस्यपि ङौ परतो भत्वात्पदत्वाऽभावात्कथं नकारस्य लोपप्रसङ्गो येन तन्निषेधोऽर्थवान् स्यादित्यत आह--सुपामिति। ननु "परमे व्योमन्" इत्यादौ ङेर्लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावात्कथं तत्र "न ङिसंबुद्ध्यो"रित्यस्य प्रवृत्तिरित्यत आह--निषेधसामथ्र्यादिति। छन्दस्यपि ङिलुकि प्रत्ययलक्षणाऽभावे सति "न ङिसबुद्ध्यो"रित्यप्रवृत्तौ तद्वैयथ्र्यादिति भावः।

ननु यदि छन्दसि "परमे व्योमन्" इत्यादौ ङेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्य "न ङिसंबुद्ध्यो"रित्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिलः, ब्राहृणि निष्ठा अस्य ब्राहृनिष्ठ इत्यत्रापि समासे ङिलुकः प्रत्ययलक्षणमाश्रित्य "न ङिसंबुद्ध्यो"रिति नकारस्य लोपनिषेधः स्यादित्यत आह--ङावुत्तरपदे इति। उत्तरपदे परतो यो ङिस्तस्मिन् परे "न ङिसंबुद्ध्यो"रिति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः। एवं च "चर्मतिलः" इत्यत्र "उत्तरपदे परतो न ङिसंबुद्ध्यो"रिति प्रतिषेधाभावान्नकारस्य लोपो निर्बाध इति भावः। भाष्ये तु छन्दसि "परमे व्योमन्" इत्यत्र "अयस्मयादीनि छन्दसी"ति भत्वात् पदत्वाऽभावान्नकारलोपस्याऽप्रसक्तेर्ङौ प्रतिषेधो न कर्तव्य इति ङिग्रहणं प्रत्याख्यातम्। न च "राजन्यती"त्यत्र लोके राजनीवाचरतीत्यर्थे "अधिकरणाच्चे"ति क्यचि "सनाद्यन्ताः इति धात्ववयवत्वात्सुपो धातुप्रातिपदिकयोरिति ङेर्लुकि "राजन्ये"त्यस्मात्तिपि "राजन्यती"त्यत्राप्यन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थं ङिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपपन्नमिति वाच्यम्, एतद्भाष्यप्राम#आण्यादे राजनीवाचरतीत्यर्थे "अधिकारणाच्चे"ति क्यचोऽनभिधानाभ्युपगमादित्यलम्। राजानमित्यादौ सुटि "सर्वनामस्थाने चे"ति दीर्घः। शसि विशेषमाह--अल्लोपोऽन इति। अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः। राजन् अस् इति स्थिते-। श्चुत्वमिति। ततश्च नकारस्य ञकारे "राज्ञ" इति सिद्धम्। ननु "अचः परस्मिन्" इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वात्कथमिह श्चुत्वमित्यत आह--नचाल्लोपः स्थानिवदिति। कुत इत्यत आह--पूर्वत्रेति। "पूर्वत्रासिद्धे" इति श्चुत्वे कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः।

नन्वल्लोपो भसंज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्षो बहिरङ्गः, श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम्। ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वादकारेण व्यवधानात्कथमिह श्चुत्वमित्यत आह--नापीति। यथोद्देशेति। "यथोद्देशं संज्ञापरिभाष"मित्येकः पक्षः। उद्देशाः=उत्पत्तिप्रदेशाः, ताननतिक्रम्य यथोद्देशम्। यत्र प्रदेशे संज्ञापरिभाषयोरुत्पत्तिस्तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थः। "असिद्धं बहिरङ्गमन्तरङ्गे" इति परिभाषेयं षष्ठाध्याये "वाह ऊठ" इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम्। ततश्च इयं षाष्ठी परिभाषा त्रैपादिके श्चुत्वे कर्तव्येऽन्तरङ्गे।ञपि न प्रवर्तते,तां प्रति श्चुत्वस्याऽन्तरङ्गस्याऽसिद्धतया तद्दृष्ठ()आ श्चुत्वस्यैवाऽभावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसंभवात्। तथा च श्चुत्वे कर्तव्ये बहिरङ्गस्याप्यल्लोपस्याऽसिद्धत्वाऽभावादिह श्चुत्वं निर्बाधमिति भावः। "कार्यकालं संज्ञापरिभाष"मित्यप्यस्ति पक्षान्तरम्। प्रतिविधिप्रदेशं प्राप्य संज्ञापरिभाषे व्याप्रियेते इत्यर्थः। अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्गं पुरस्कृत्य "असिद्धं बहिरङ्गमन्तरङ्गे" इति परिभाषाऽत्र प्रवृत्तिमर्हति, तथापि लक्ष्यानुरोधात्कार्यकालपक्षो नेहाश्रीयत इत्यलम्। जञयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः। नत्विदं वर्णान्तरम्, शिक्षादावदर्शनात्। अत "एतज्ज्ञान"मिति श्चुत्वसिद्धिरित्याहुः। राज्ञः राज्ञति। शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन ञकार इति बावः। ननु राजन्-भ्यामिति स्थिते "स्वादिषु" इति पदत्वात्कृते नलोपे "सुपि चे"ति दीर्घः प्राप्नोति। तथा राजन्-भिस् इति स्थिते नलोपे, "अतो भिसः" इत्यैस् प्राप्नोति। तथा राजन्-भ्यस् इति स्थिते नलोपे "बहुवचने झल्येत्" इत्येत्त्वं प्राप्नोति।