पूर्वम्: ८।२।८१
अनन्तरम्: ८।२।८३
 
सूत्रम्
वाक्यस्य टेः प्लुत उदात्तः॥ ८।२।८२
काशिका-वृत्तिः
वाक्यस्य टेः प्लुत उदात्तः ८।२।८२

अधिकारो ऽयम्। वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत् त्रयम् अप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः। यतिति ऊर्ध्वम् अनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्येवं तद् वेदितव्यम्।
न्यासः
वाक्यस्य टेः प्लुत उदात्तः। , ८।२।८२

"वाक्यग्रहणम्()" इत्यादि। असति हि वाक्यग्रहणे वाक्ये यावन्ति पदानि तेषां सर्वेषामेव प्लुतः प्रसज्येत। वाक्यग्रहणे त्वन्त्यस्यैव भविष्यति, नानन्त्यस्य। अन्त्यस्यैव हि पदस्य यष्टिः स वाक्यटिर्भवति, न त्वितरस्य। तस्मादनन्त्यस्य पदस्य प्लुतौ मा भूत्(), अन्त्यस्यैव यता स्यादित्येवमर्थम्()। अनन्त्यस्य कस्मान्न भवति? अनिष्टत्वात्()। न हि पदाधिकारस्य निवृत्तिरिष्यते, तथा हि प्रागुक्तम्()--पदाधिकारः प्रागपदान्ताधिकारादिति। असत्यत्वाच्च; न हि वाक्यग्रहणेन वाक्ये यावन्ति पदान्ति तेषां सर्वेषाम्()। एक एव हि वाक्यस्य टिः, स नियोगतः पदस्यापि भवति, अतो न युक्ता वाक्यस्य पदाधिकारनिवृत्त्यर्थता। अथ टिग्रहणं किमर्थम्(), यावताऽलोऽन्त्यपरिभाषयैव (१।१।५२) आयुष्मानेधि देवदत्त३ इत्यत्र टेः प्लुतो भविष्यति? इत्यत्र आह--"टिग्रहणम्()" इत्यादि। असति हि टिग्रहणे यथा "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वग्रहणेघ समुर्त्थापिते "अचः" १।२।२८ इत्येतस्मिन्नचा प्रातिपदिके विशेषिते तस्याजन्तस्यैव ह्यस्वत्वं भवति, नानजन्तस्य--सुवाग्? ब्राआहृणकुलमिति; तथेहापि प्लुतग्रहणेन "अचः" इत्येतस्मिन्नुपस्थापिते सत्यचा वाक्ये विशेषितेऽजन्तस्यैव प्लुतः स्यात्(), न व्यञ्जनान्तस्य। टिग्रहणे तु सति टिसंज्ञकेनाज्विशेष्यते, न त्वचा टिसंज्ञकः। यदि ह्रचा टिसज्ञको विशेष्येत, ततोऽजन्तो यष्टिस्तस्य प्लुतः स्यात्(); तथा चानर्थकं हि टिग्रहणं स्यत्()। विनापि तेनाचा वाक्ये विशेषिते तस्याजन्तस्य प्लुतो भवन्नलोऽन्त्यपरिभाषया १।१।५१ऽन्त्यस्याचः सिध्यति। तस्माट्टिग्रहणस्य नानर्थक्यमिति। टिसंज्ञकेनाज्विशेष,()यते--टिसंज्ञको योऽजिति। एवं च सति व्यञ्जनस्यापि टेर्योऽच्? तस्यापि प्लुतः सिध्यति। "अग्निचि३त्त" इति। अव्यञ्जनान्तस्यापि व्यपदेशिवद्भावेन--देवदत्त३ इति। तस्माद्व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यादित्येवमर्थं टिग्रहणं कृतम्()। उदात्तग्रहणं तु स्वरान्तरनिवृत्त्यर्थम्(), तच्चानन्तोदात्तं प्रयोजयति; योह्रन्तोदात्तस्तत्र स्थानिवद्भावादेवान्चोदात्तो भवति॥
बाल-मनोरमा
वाक्यस्य टेः प्लुत उदात्तः ९४, ८।२।८२

अथ प्लुतप्रगृह्रा इति सूत्राकाङ्क्षितप्लुतप्रगृह्रयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते--वाक्यस्य टेः। "पदस्ये"त्यधिकृतम्। वाक्यस्य टेः पदावयवस्य प्लुतो भवति, सच उदात्तो भवतीत्यर्थः। अत्र पदस्येत्यनुवृत्तिर्नश्छव्यप्रशानित्याद्युत्तरार्था, इहानुवृत्तिविच्छेदे उत्तरत्रानुवृत्तेरसंभवात्। वाक्यस्येत्यभावे पदस्य टेरित्युक्ते यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत। "वाक्यस्ये"त्युक्ते तु वाक्यस्य टिरन्त्यस्यैव पदस्य संभवतीति न दोषः। टिग्रहणाभावे प्लुतश्रुत्याऽचश्चेति परिभाषयाऽच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात्तदन्तविधावजन्तस्य वाक्यस्येत्यर्थे सत्यलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानाद्व्रामं गच्छाग्निचि ३ दित्यादिहलन्तवाक्येषु प्लुतो न स्यात्। टिग्रहणे तु तत्सामथ्र्यादेव टिनाऽचो विशेषणाट्टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम्। इत्यधिकृत्येति। "प्लुतविधय आरभ्यन्ते" इति शेषः।