पूर्वम्: ८।२।८३
अनन्तरम्: ८।२।८५
 
सूत्रम्
दूराद्धूते च॥ ८।२।८४
काशिका-वृत्तिः
दूराद् धूते च ८।२।८४

दूराद् धूते यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति, स च उदात्तः। आह्वानं हूतम्, शब्देन सम्बोधनम्। आगच्छ भो माणवक देवदत्त३। आगच्छ भो माणवक यज्ञदत्त३। दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत् तदाश्रीयते इति यत्र प्राकृतात् प्रयत्नाद् यत्नविशेषे आश्रीयमाणे शब्दः श्रूयते तद् दूरम्। हूतग्रहण च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम्। तेन यत्र अप्याह्वानं न अस्ति तत्र अपि प्लुतिर् भवति, सक्तून् पिब देवदत्त३, पलायस्व देवदत्त३ इति। अस्याश्च प्लुतेरेकश्रुत्या समावेशः इष्यते। दूरातिति किम्? आगच्छ भो माणवक देवदत्त। दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्र अयं प्लुतः इष्यते, तेन इह न भवति, देवदत्त आगच्छ।
लघु-सिद्धान्त-कौमुदी
दूराद्धूते च ४९, ८।२।८४

दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥
न्यासः
दूराद्धूते च। , ८।२।८४

"दूरात्()" इति। आरात्()। "दूरान्तिकेभ्यो द्वितीया च" २।३।३५ इति पञ्चमी। ह्वानं हूतम्()। भावे निष्ठा। दूरादित्युच्यते, दूरञ्चानवस्थितम्()। यवेवालस्यापहतं प्रति दूरं भवति तदेवोत्साहसम्पन्नं प्रत्यन्तिकम्()। एवं हि कश्चित्? कञ्चिदाह--य एष पार्(ातः करकस्तमानयेति। स आह-उत्थाय गृहाण, दूरं गन्तुं न शक्ष्यामीति। अतो दूरस्यानवस्थितत्वान्न ज्ञायते--कस्यामवस्थायां प्लुत्या भवितव्यमिति। अत आह--"दूरम्()" इत्यादि। हूतं ह्वानम्()। तदपेक्षं यद्()दूरं तदिहाश्रीयते। इतिकरणो हेतौ। यस्माद्धूतापेक्षमिह दूरमाक्षीयते तस्मात्? प्राकृतात्? प्रकृतौ भवात्? प्रयत्नाद्यः प्रत्यत्नविशेषः प्राकृतयत्नादधिकस्तस्यिन्नाश्रीयमाणे यत्र शब्दाह्वानं तत्? श्रूयते तद्()दूरम्। ततो न भवति दूरस्यानवस्थितत्वमित्वभिप्रायः। अथेह कथं प्लुतः स्यात्()--सक्तून्? पिव देवदत्त३ इति? न शब्दमात्रं हूतम्(), अपि तु शब्दविशेधः, येन परत आगमने नियुज्यते स शब्दविशेषो हूतम्(), न च तदिहास्ति? इत्यत आह--"हूतग्रहणं च" इत्यादि। सम्बोधनं शब्दसाधनं हूतम्()। चशब्दस्तस्मादित्यर्थे। तेन तत्साध्यं सम्बोधनं लक्ष्यत इति हूतग्रहणं सम्बोधनमात्रोपलक्षणं वेदितव्यम्()। इहायं प्लुतोऽपि दूरात्? सम्बोधने विधीयते; एकश्रुतिरपि; "एकश्रुति दूरात्? सम्बुद्धौ" १।२।३३ इति; तत्रैवमेकत्र प्राप्नुवतामनेकेषां बाधाविकल्पसमुच्चयानामन्यतमेन भवितव्यम्(), अत्र न ज्ञायते--किमेतयोः समुच्चयो भवति? उत विकल्पः? आहोस्विदन्यतरस्य बाधेति? तत्परिज्ञानायाह--"अस्याश्च" ["अस्यां च"--प्रांउ। न्यासपाठः"] इत्यादि। बाधया तावन्न भवितव्यम्(); समानविषयत्वात्()। विषयभेदे हि सति बाध्यबाधकभावो भवति, तद्यथा--"कर्मण्यण्()"["तत्तथा"--प्रांउंयासपाठः] ३।२।१, "आतोऽनुपसर्गे कः" ३।२।३ इति; अत्र ह्रेकस्य विशेषो विषयः; अपरस्य सामान्यमित्यस्ति विषयभेदः। अनयोस्तु विशेषो नास्तीत्ययुक्ता ["नास्तीत्युक्ता--कांउ।पाठः] बाधा। विकल्पोऽप्ययुक्तः; असहप्राप्तेः। सहप्राप्तयोर्हि विकल्पो भवति, यथा--तच्यदादीनाम्()। न चैकश्रुत्यपेक्ष्येह सहप्राप्तिरस्ति; प्लुतस्यासिद्धत्वात्()। तस्मात्पारिशेष्यात्? समादेश एव भवति। समावेशः पुनरत्रैकस्मिन्? वाक्ये प्रवृत्तिः, न त्वेकस्मिन्नवयवे; दिरुद्धयोरेकस्मिन्? प्रवृत्तेरसम्भवात्()। वाक्यस्य त्वेनेकावयवात्मकत्वात्()। टेरचः प्लृतो भवति। अवशिष्टस्य त्वेकश्रुतिरिति युज्यते समावेशः॥
बाल-मनोरमा
दूराद्धूते च ९६, ८।२।८४

दूराद्धूते च। यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं बोध्यमानो न श्रृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्दूरम्। हूतमाह्वानं। भावे क्तः। तच्च सम्बोधनमिह विवक्षितम्। "वाक्यस्य टेः प्लुत उदात्त" इत्यधिकृतम्। तदाह-दूरात्सम्बोधन इत्यादिना। यदि तु आह्वानमेवात्रं विवक्षितं स्यात्तर्हि एहि देवदत्तेत्यादावाह्वानवाचकपदे सत्येव स्यात्। सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभि प्रेत्योदाहरति--सक्तूनिति।

तत्त्व-बोधिनी
दूराद्धूते च ७७, ८।२।८४

दूराद्धूते च। हूतमाह्वानं, तच्च संबोधनमात्रोपलक्षणमित्याह--दूरात्संबोधन इति। उपलक्षणतया व्याख्यानस्य फलमुदाहरति-सक्तन्पिवेत्यादि।