पूर्वम्: ८।२।८६
अनन्तरम्: ८।२।८८
 
सूत्रम्
ओमभ्यादाने॥ ८।२।८७
काशिका-वृत्तिः
ओम् अभ्यादाने ८।२।८७

अभ्यादानं प्रारम्भः, तत्र यः ओंशब्दः तस्य प्लुतो भवति। ओ३म् अग्निमील्ले पुरोहितम्। अभ्यादाने इत् किम्? ओम् इत्येतदक्षरम् उद्गीथम् उपासीत।
न्यासः
ओमभ्यादाने। , ८।२।८७

"प्रारम्भः" इति। कस्य प्रारम्भे? स्वाध्यायादेः॥