पूर्वम्: ८।२।८७
अनन्तरम्: ८।२।८९
 
सूत्रम्
ये यज्ञकर्मणि॥ ८।२।८८
काशिका-वृत्तिः
ये यज्ञकर्मणि ८।२।८८

ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति। ये३ यजामहे। यज्ञकर्मणि इति किम्? ये यजामह इति पञ्चाक्षरम् इति स्वध्यायकाले मा भूत्। ये यजामहे इत्यत्र एव अयं प्लुतः इष्यते। इह हि न भवति, ये देवासो दिव्येकादश स्थ इति।
न्यासः
ये यज्ञकर्मणि। , ८।२।८८

"येज्ञकर्मणि" इति। कर्मशब्दः क्रियावाची। यज्ञक्रियायामित्यर्थः। "ये३ यजामहे" इत्यत्रैवायं प्लुत इष्यत इत्येतच्च "प्राचाम्()" इत्यस्यानुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च लभ्यत इति वेदितव्यम्()॥