पूर्वम्: ८।२।८८
अनन्तरम्: ८।२।९०
 
सूत्रम्
प्रणवष्टेः॥ ८।२।८९
काशिका-वृत्तिः
प्रणवष् टेः ८।२।८९

यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि तेः प्रणवः आदेशो भवति। क एष प्रणवो नाम? पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारम् ओङ्कारं वा विदधति तं प्रणव इत्याचक्षते। अपां रेतांसि जिन्वतो३म्। देवान् जिगाति सुम्न्यो३म्। टिग्रहणं सर्वदेशर्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्त्यस्य मा भूतिति। यज्ञकर्मणि इत्येव, आपं रेतांसि जिन्वति।
न्यासः
प्रणवष्टेः। , ८।२।८९

"क एष प्रणवो नाम" इति। इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात्? प्रश्नः। "पादस्य वा" ["पादस्य चेल्यादिना"--प्रांउ।पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। "वान्त्यमक्षरम्()" इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। "उपसंगृह्र" इति। गृहीत्वेत्यर्थः। तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत्? तदादि। अक्षरञ्च शेषञ्चेति [इति--नास्ति प्रांउ।पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्(), तदाचि च तदक्षरशेषञ्च, तदक्षरशेषं यत्रान्त्यात्? स्वरात्? परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति। यत्रान्त्यात्? स्वरात्? परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्()। योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत्? त्रिमात्रनोकारम्(), ओङ्कारं वा विदवाति तत्? प्रणवं कथयन्ति। "जिन्वतो३म्()" इति। जयतेः परस्य लट्(), तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। "सुम्नयो३म्()" इति। सुम्नशब्दात्? क्यच्(), "क्याच्छब्दसि" ३।२।१७० इति उप्रत्ययः, "देवसुम्नयोर्यजुषि काठके" ७।४।३८ इति आभावः, सुम्नाअयुस्? इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः। ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति, तत्? किं टिग्रहणेन? इत्यत आह--"टिग्रहणम्()" इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ१।१।५१न्त्यस्यैव स्यात्()। अतष्टिग्रहणं क्रियते--सर्वस्यैव टेर्यथा स्यादिति। "अन्त्यस्य मा भूत्()" इति। ओङ्कारस्यानेकाल्त्वात्? सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्()॥