पूर्वम्: ८।२।८
अनन्तरम्: ८।२।१०
 
सूत्रम्
मादुपधायाश्च मतोर्वोऽयवादिभ्यः॥ ८।२।९
काशिका-वृत्तिः
मादुपधायाश् च मतोर् वो ऽयवाऽदिभ्यः ८।२।९

मतोः इह कार्यित्वेन उपादानात् सामर्थ्यलब्धं प्रातिपदिकं तत् मातिति मकारावर्णाभ्यां विशिष्यते। मकारावर्णविशिष्टया च उपधया इत्ययम् अर्थो भवति। मकारान्तात् मकारोपधातवर्णान्तादवर्णोपधात् च उत्तरस्य मतोः वः इत्ययम् आदेशो भवति, यवादिभ्यस् तु परतो न भवति। मकारान्तात् तावत् किंवान्। शंवान्। मकारोपधात् शमीवान्। दाडिमीवान्। अवर्णान्तात् वृक्षवान्। प्लक्षवान्। खट्वावान्। मालावान्। अवर्णोपधात् पयस्वान्। यशस्वान्। भास्वान्। मादुपधायाश्च इति किम्? अग्निमात्। वायुमान्। अयवादिभ्यः इति किम्? यवमान्। दल्मिमान्। ऊर्मिमान्। यव। दल्मि। ऊर्मि। भूमि। कृमि। क्रुञ्चा। वशा। द्राक्षा। एतेषां मादुपधायाश्च। इति प्राप्नोति। ध्रजि, ध्वजि, सञ्जि इत्येतेषां छन्दसीरः ८।२।१५ इति। हरित्, ककुत्, गरुतित्येतेषां झयः ८।२।१० इति। इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां संज्ञायाम् ८।२।११ इति। आकृतिगणश्च यवादिः। अकृतवत्त्वो मतुब् यवादिषु द्रष्टव्यः। यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतम् इति बहिरङ्गलक्षणत्वातवर्णोपधस्य मतुपो वत्त्वं न भवति।
लघु-सिद्धान्त-कौमुदी
मादुपधायाश्च मतोर्वोऽयवादिभ्यः १०६८, ८।२।९

मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥
न्यासः
मादुपधायाश्च मतोर्वोऽयवादिभ्यः। , ८।२।९

मकारान्तान्मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतुपो मकारसय "च" इत्ययमादेशो भवतीत्ययमर्थोऽभिमतः। स एव यथा सम्पद्यते, तथा दर्शयितुमाह--"मतोरिह" इत्यादि। अत्र मतुप कार्यित्वेनीपात्तः। स च नास्त्यन्तरेण प्रातिपदिकत्वम्(); तद्विधौ प्रातिपदिकाधिकारात्? ४।१।१। तस्मान्मतुपः पूर्वं सामथ्र्यलभ्यं प्रातिपदिकम्(), तन्मकारावर्णाभ्यां मादिति विशिष्यते--मकारोऽन्तो यस्यं, अवर्णोऽन्तो यस्येति। मकारावर्णविशिष्टा या चोपधेति सामथ्र्यम्()। कथम्()? पूर्वं प्रातिपदिकान्तं विशिष्यते इति सम्बन्धनीयम्()। मकारेण विशेषणेन, अवर्णेन विशेषणेन च विशिष्टा योपधा सा च विशिष्यते--मकार उपधा यस्य, अवर्ण उपधा यस्येति। मकारावर्णविशिष्टस्येति मतुपो विशेषणे "उपधायाश्च" इत्यत्र मा भूदिति? अस्यापेक्षितस्वल्लभ्यत इत्ययमर्थो भवतीति। इतिकरणो हेतौ। यस्मात्? सामथ्र्यप्राप्तं प्रातिपदिकमेव विशिष्यते, तस्मादयं वक्ष्यमाणोऽर्थः सूत्रस्यापि भविष्यतीति। "किंवान्()" इति। किमस्यास्तीति मतुप्(); "उगिदचाम्()" ७।१।७० इत्यादिना नुम्(), हलङ्यादिसंयोगान्तलौ (६।१।६८; ८।२।२३), "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "नार्मतम्()" इति। नरोऽस्य सन्तीति नृमान्(), नृमत इदमिति "तस्येदम्()" ४।३।१२० इत्यण्(), तत्र वृद्धौ कृतायां दार्मतमित्यत्रावर्णोपधमतुप्? प्रातिपदिकं जातमिति वत्वं प्राप्नीति, तत्? कस्मान्न भवति? इत्याह--"इह" इत्यादि। नार्मतमित्यत्र ह्रवर्णोपधमतुप्त्वं वृद्धिरेव, सा च बाहृतद्धितनिमित्ता। अतोऽवर्णौपधत्वस्य बहिरङ्गत्वम्(), वत्वं तु प्रवृत्तिनिमित्तमिति तस्यान्तरङ्गत्वम्(), असिद्धं च बहिरङ्गमन्तरङ्गे (व्या।प।४२) इति, तेन नार्मत मित्यत्र वत्वं न भवति॥
बाल-मनोरमा
मादुपधायाश्च मतर्वोऽयवादिभ्यः १८७२, ८।२।९

मादुपधायाश्च। मात् उपधायाश्चेति च्छेदः। मादित्यावर्तते। मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम्। मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः। णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः। मादित्युपधाविशेषणम्। मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः। फलितमाह--मवर्णेत्यादिना। मान्तादुदाहरति--किंवानिति। किमस्यास्मिन्वाऽस्तीति विग्रहः। एवमग्रेऽपि। अकारान्तादुदाहरति--ज्ञानवानिति। अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग--विद्यावानिति। मोपधादुदाहरति--लक्ष्मीवानिति। अदुपदादुदाहरति--यशस्वानिति। "तसौ मत्वर्थे" इति भत्वान्न रुत्वम्। आकारोपधादुदाहरति--लक्ष्मीवानिति। अदुपधादुदाहरति-यशस्वानिति। "तसौ मत्वर्थे" इति भत्वान्न रुत्वम्। आकारोपधादुदाहरति--भास्वानिति।

तत्त्व-बोधिनी
मादुपधायाश्च मतोर्वोऽयवादिभ्यः १४४१, ८।२।९

मादुपधायाः। म्च अश्च मं। समाहारो द्वन्द्वः। तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते। तदाह---मवर्णावर्णान्तादिति। "उपधायाश्चे"ति वाक्यान्तरम्। उपधाभूतान्मात्परस्य मतोरित्यर्थः। "येन नाव्यवधान"न्यायेनाऽन्त्याऽल्व्यवहितेऽपि भवतीति। एवमक्षरार्थे स्थिते फलितमाह---मवर्णावर्णोपधादिति।