पूर्वम्: ८।२।८९
अनन्तरम्: ८।२।९१
 
सूत्रम्
याज्याऽन्तः॥ ८।२।९०
काशिका-वृत्तिः
याज्यान्तः ८।२।९०

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषाम् अन्त्यो यः टिः स प्लवते यज्ञकर्मणि। स्तोमैर्विधेमाग्नये३। जिह्वामग्ने चकृषे हव्यवाह३म्। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्य एव इष्यते, तदर्थम् अन्तग्रहणम्।
न्यासः
याज्यान्तः। , ८।२।९०

इहान्तग्रहणं टेरित्येतस्य निवत्र्तकं वा स्यात्()? विशेषणं वा? पूर्वस्मिन्? पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्()। इतर()स्मस्त्वन्तग्रहणमनर्थकम्(), न ह्रनन्त्यष्टिः सम्भवति; "अचोऽन्त्यादि टि" १।१।६३ इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह--"अन्तग्रहणं किम्()" इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह--"याज्या नाम" इत्यादि। गतार्थम्()॥