पूर्वम्: ८।२।९०
अनन्तरम्: ८।२।९२
 
सूत्रम्
ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः॥ ८।२।९१
काशिका-वृत्तिः
ब्रूहिप्रेष्यश्रौषड्वौषडावहानाम् आदेः ८।२।९१

ब्रूहि प्रेष्य श्रौषट् वौषटावह इत्येतेषाम् आदेः प्लुतो भवति यज्ञकर्मणि। अग्नये ऽनुब्रू३हि। प्रेष्य अग्नये गोमयान् प्रे३ष्य। श्रौषट् अस्तु श्रौ३षट्। वौषट् सोमस् ने वीहि वौ३षट्। आवह आग्निमा३वह। आवह देवान् यजमानाय इत्येवम् आदावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति।
न्यासः
ब्राऊहिप्रेष्यश्रौषड्वौषडावहानामादेः। , ८।२।९१

श्रौषट्(), वौषडिति निपातौ; इतराणि लोण्मध्यमपुरुषैकवचनानि। केचित्तु आवहशब्दोऽपि निपात इत्याहुः। "प्रेष्य" इति। "ईषु गतौ" [दिवादिषु "इष गतौ" इत्येव पठ()ते] (धा।पा।११२७), दिवादित्वाच्छ्यन्(), उपसर्गाकारेण सह "आद्गुणः" ६।१।८४ अथेह कस्मान्न भवति--"आवह देवान्? यजमानाय" (वा।सं।५।१२), "आवह जातवेदः" (आ।श्रौ।सू।१।३।२२), "सुयजा यज"? इत्याह--"आवह देवान्()" इत्यादि। आदिग्रहणं वाक्यादेर्मा भूदिति॥