पूर्वम्: ८।२।९२
अनन्तरम्: ८।२।९४
 
सूत्रम्
विभाषा पृष्टप्रतिवचने हेः॥ ८।२।९३
काशिका-वृत्तिः
विभाषा पृष्टप्रतिवचने हेः ८।२।९३

पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति। अकार्षीः कटं देवदत्त? अकार्षं हि३, अकार्षं हि। अलावीः केदारं देवदत्त? अलाविषं हि३, अलाविषं हि। पृष्टप्रतिवचने इति किम्? कटं करिष्यति हि। हेः इति किम्? करोमि ननु।
न्यासः
विभाषा पृष्टप्रतिवचने हेः। , ८।२।९३

"पृष्टप्रतिवचनम्()" इति। पृष्टस्य प्रतिवचनम्()ाख्यानं पृष्टप्रतिवचनम्()। प्रतिवचनशब्दोऽयं विरुद्धेऽपि वचने प्रवत्र्तते--विरुद्धं वचनं प्रतिवचनमिति, प्रतिशब्दो ह्रत्र विरोधं द्योतयति, यथा--प्रतिमल्लः, प्रतिगज इति; वीप्सायामपि वत्र्तते--वचनं वचनं प्रतीति प्रतिवचनम्(), "यथार्थे यदव्ययम्()" २।१।६ इति दीप्सायामव्ययोभावः; समाधानेऽपि वत्र्तते--यदनेनाभिहितं तस्य मया प्रतिवचनं विहिनमिति, समाधिर्विहित इति गम्यते; तत्र "प्रतिवचने" इत्युच्यमाने सर्वत्र प्रसज्येत। तस्मात्? प्रतिवचनविशेषार्थं पृष्टग्रहणम्()। पृष्टस्य यत्? प्रतिवचनम्()र्थाख्यानं तत्रैव यथा स्यात्(), अन्यत्र मा भूदिति॥