पूर्वम्: ८।२।९६
अनन्तरम्: ८।२।९८
 
सूत्रम्
विचार्यमाणानाम्॥ ८।२।९७
काशिका-वृत्तिः
विचार्यमाणानाम् ८।२।९७

प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचर्यमाणानां वाक्यानां टेः प्लुतो भवति। होत्व्यं दीक्षितस्य घा३इ। होतव्यं न होतव्यम् इति विचार्यते। तिष्टेद्यूपा३इ। द्यूपा३इ। यूपे तिष्ठेत्, यूपे अनुप्रहरेतिति विचार्यते।
न्यासः
विचार्यमाणानाम्?। , ८।२।९७

"प्रमाणेन वस्तुपरीक्षणं विचारः। तेन विषयीक्रियमाणानि विचार्यमाणानि। बहुवचननिर्देशो येषामर्थगत एव विचारो न स्वरूपगतः, तेषामपि यथा स्यादित्येवमर्थः; इतरथा हि येषां स्वरूपगतो विचारस्तेषामेव स्यात्()। न हि मुख्ये वाक्ये विचार्यमाणे सत्यर्थद्वारकं गौणं यस्य विचार्यमाणत्वं तस्य ग्रहणं युक्तम्()। "गृहा३इ" इति। गृह इत्यत्र एकारः, तस्य "एचोऽप्रगृह्रस्य" ८।२।१०७ इत्यादिना पूर्वार्थस्याकारः, उत्तरार्धस्य त्विकारः। तस्याकारस्यानेन प्लुते भवति॥