पूर्वम्: ८।३।१०१
अनन्तरम्: ८।३।१०३
 
सूत्रम्
निसस्तपतावनासेवने॥ ८।३।१०२
काशिका-वृत्तिः
निसस् तपतावनसेवने ८।३।१००

निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतो ऽनासेवने ऽर्थे। आसेवनं पुनः पुनः करणम्। निष्तपति सुवर्णम्। सकृदग्निं स्पर्शयति इत्यर्थः। अनासेवने इति किम्? निस्तपति सुवर्णं सुवर्णकारः। पुनः पुनरग्निं स्पर्शयति इत्यर्थः। निष्टप्तं रक्षो निष्टप्ता अरातयः इत्यत्र सदप्यासेवनं न विवक्ष्यते। छान्दसो वा वर्नविकारः।
न्यासः
नक्षत्राद्वा। , ८।३।१०२

"नक्षत्राद्वा" इति। पूर्वेण नित्ये प्राप्ते विकल्पोऽयमुच्यत इति। सूत्रे["सुषामादिषु च" इत्यस्मिन्? सूत्रे ८।३।९८] चकारोक्तसमुच्चयार्थः, स चाकृतिगणतां सुषामादेर्बोधयतीत्यत आह--"अविहितलक्षणा" इत्यादि॥
बाल-मनोरमा
नक्षत्राद्वा १००९, ८।३।१०२

नक्षत्राद्वा। स्पष्टम्।

तत्त्व-बोधिनी
नक्षत्राद्वा ८५६, ८।३।१०२

एवं "नक्षत्राद्वा"इत्यपि। विष्वक्सेन इति। चत्त्र्वस्याऽसिद्धत्वाद्गकारेण व्यवधानमस्तीति भावः।