पूर्वम्: ८।३।१०७
अनन्तरम्: ८।३।१०९
 
सूत्रम्
सनोतेरनः॥ ८।३।१०८
काशिका-वृत्तिः
सनोतेरनः ८।३।१०६

सनोतेः अनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गोषाः। नृषाः। अनः इति किम्? गोसनिं वाचमुदेयम् पूर्वपदातित्येव सिद्धे नियमार्थम् इदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवति इति सिसानयिषति इति प्रयुदाहरन्ति। सिसनिषतेः अप्रत्ययः। सिसनीः इत्यपरे।
न्यासः
पूर्वपदात्?। , ८।३।१०८

"द्विषन्धिः" इति। षष्ठीतत्पुरुषः, बहुव्रीहिर्वा। "मधुष्ठानम्? इति। षष्ठीसमासः। "द्विवाहरुआम्()" इति। द्वयोः सहरुआयोर्भव इति तद्धितार्थे समासः। "तत्र भवः" ४।३।५३ इत्यण्(); "संख्यायाः संवत्सरसंख्यस्य च" ७।३।१५ इत्युत्तरपदवृद्धिः। अथेह कथं षत्वम्()--त्रिः षमुद्धत्वायेति? यावता समासे यत्? पूर्वपदं तत्र पूर्वपदशब्दो रूढः; न चायं समासः; किं तर्हि? वाक्यम्()? इत्यतद आह--"असमासेऽपि" इत्यादि। कथं पुनरेतल्लभ्यते? व्यवस्थावचनस्येह पूर्वपदस्याश्रयणात्()। यथैव हि पूर्वशब्दो लोको रूढिभादाय क्वचित्? तु समुदाये वत्र्तते--पूर्वपञ्चाला इति, क्वचिद्व्यवस्थायाम्()--अस्मात्? पूर्वं इति वा; तथा शास्त्रेऽपि। तत इह व्यवस्थाशब्दो गृह्रते। कुतः? व्याप्तेः। रूढिशब्द एव गृह्रमाणे समास एव स्यात्? नासमासे। व्यवस्थाशब्दे तु सर्वत्र भवति॥