रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति।
किं पुनरिदं सानुबन्धकारस्य रेफस्य ग्रहणम्()? उत्त निरनुबन्धकस्य? किञ्चात्र यदि सानुबन्धकस्य ग्रहणम्()? सिद्धम्()--अग्नीरथः, इन्दूरथ इति; नीरक्तं दूरक्तमिति तु न सिध्यति।
अथ निरनुबन्धकरस्य ग्रहणम्()? तदा सिध्यति--नीरक्तम्(), दूरक्तमिति; अग्नीरथः,
इन्दूरथ इति न सिध्यति? नैष दोषः; इह तन्तेणाचार्यः "रो रि" इति द्वे सूत्रे उच्चारितवान्(), तत्रैकत्र सानुबन्धकस्य ग्रहणम्(), अपरत्र निरनुबन्धकस्येति। नीरक्तमित्यादौ "ढ्रलोपे पूर्वस्य दीर्घोऽणः"
६।३।११० इति दीर्घत्वम्()।
इह यदि पदस्येति स्थानषष्ठी स्यात्(), ततः "अलोऽन्त्यस्य"
१।१।५१ इति पदान्तस्यैव ["पदान्तस्य"--कांउ।पाठः] रेफस्य [अयं भागः कांउ।पाठे नास्ति]लोपः स्यात्()--नीरक्तमित्यादौ। अजर्धा इत्यादौ त्वपदान्तस्य[अयं भागः कांउ।पाठे नास्ति] न स्यात्(); विशेषणषष्ठ()आं त्वस्यामिहापि भवतीत्येतच्चेतसि कृत्वाऽऽह--"पद्स्य" इत्यादि। विशेषणषष्ठ()आं हि पदस्येत्यस्यैवमभिसम्बन्धः क्रियते--पदस्यावयवो यो रेफस्तस्य रेफे परतो लोपो भवतीति। तेनापदान्तस्यापि भवति। "अजर्धाः" इति। "एकाचो बशो भव्()"
८।२।३७ इत्यादौ सूत्र इवं व्युत्पादितम्()। "अपास्पाः" इति। "स्पद्र्ध सङ्घर्षे" (धा।पा।३) असमाद्यङ्(), द्विर्वचनम्(), "शर्पूर्वाः खयः"
७।४।६१ इति खयः शेषः, "दीर्घोऽकितः"
७।४।८३ इति दीर्घत्वम्(), "यङोऽचि च"
२।४।७४ इति यङो लुक्(); पास्पद्र्ध इति स्थिते लङ् अडापमः, सिप्(), "चर्करौतञ्च" (धा।पा।१०८१) इत्यादिषु पाठाच्छपो लुक्(), सिपो इल्ङ्यादिना
६।१।६६ लोपः, जश्त्वेन धकारस्य दकारः, "दश्च"
८।२।७५ इति तस्यैव दकारस्य रुत्वम्(), तत्रानेन रेफस्य लोपः, पूर्ववद्दीर्धत्वम्()।
योगविभागकरणमुत्तरार्थम्(), उत्तरसूत्रे रेफस्यानुवृत्तिर्यथा स्यादित्येवमर्थम्(); इतरथा हि ढकारस्यापि ततरानुवृत्तिः स्यात्(), ततश्च तस्यापि विसर्जनीयः प्रसज्येत॥