पूर्वम्: ८।३।१४
अनन्तरम्: ८।३।१६
 
प्रथमावृत्तिः

सूत्रम्॥ खरवसानयोर्विसर्जनीयः॥ ८।३।१५

पदच्छेदः॥ खरवसानयोः ७।२ विसर्जनीयः १।१ रः ६।१ १४ पदस्य ६।१ ८।१।१६ संहितायाम् ७।१ ८।२।१०८

समासः॥

खर् च अवसानं च खरवसाने, तयोः ॰ इतरेतरद्वन्द्वः

अर्थः॥

रेफान्तस्य पदस्य खरि परतः अवसाने च विसर्जनीयादेशो भवति संहितायां विषये

उदाहरणम्॥

वृक्षश्छादयति, प्लक्षश्छादयति, वृक्षस्तरति, प्लक्षस्तरति। अवसाने - वृक्षः, प्लक्षः॥
काशिका-वृत्तिः
खरवसानयोर् विसर्जनीयः ८।३।१५

रः इति वर्तते। रेफान्तस्य पदस्य खरि परतो ऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने वृक्षः। प्लक्षः। खरवसानयोः इति किम्? अग्निर् नयति। वायुर् नयति। इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः इति वृद्धेर् बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गम् इति असिद्धत्वाद् विसर्जनीयो न भवति।
लघु-सिद्धान्त-कौमुदी
खरवसानयोर्विसर्जनीयः ९३, ८।३।१५

खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥
न्यासः
खरवसानयोर्विसर्जनीयः। , ८।३।१५

यद्यत्र पदस्येति विशेषणवष्ठी स्यात्()--पदस्यावयवो यो रेफ इति, तदा "अर्कः" इत्यादानप्यपदान्तस्य रेफस्यापि विसर्जनीयः स्यात्()। स्थानषष्ठ()आ न दोषः; अत्र हि पदं रेफेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवति, तेन रेफान्तसय कार्यमुच्यमानमलोऽन्त्यस्यैव भवतीत्येतदालौच्च पदसयेत्येषा स्थाने षष्ठी; तच्च पदं रेफेण वेशेष्यत इत्यतद्दर्शयन्नाह--"रेफान्तस्य पदस्य" इति। "खरि परतोऽवसाने च" इति। "पतः" इत्येतत्? पूर्वेणैव सम्बध्यते, न परेणावसानेन,["परेण अवसाने--कांउ।पाठः] तस्य पौर्वापर्याभावात्()। तथा हि येन वर्णेन विरम्यते सोऽवसानं स्यात्()। विरतिर्वा विरामः=वर्णस्यानुच्चारणम्()। तेन रेफान्तात्? पदाद्येन वर्णेन विरभ्यते स तावदवसानसंज्ञकः परो न सम्भवति; तन्मात्रस्याप्रयोगात्()। अप्रयोगस्तु निरर्थकत्वात्()। इतरत्र तु पुनरवसानमभावरूपम्()। अभावे च पौर्वापर्यं न सम्भवति; तस्य वर्णधर्मत्वात्()। तस्मात्? तदपि नैव रेफान्तात्? पदात्? परमुपपद्यते। केचित्तु बुद्धिकल्पितं पौर्वापर्यमाश्रित्य "अवसाने च" इत्यानेनापि सह "परतः" इत्येतत्सम्बन्धन्ति। तत्र यदि वुद्धिकल्पितं पौर्वापग्र्रं नाश्रीयते, तदा "खरवसानयोः" इत्येकाप्येषा सप्तम्यधिकरणभेदाद्भिद्यते; खर्यौपश्लेषिकेऽञिकरणे सप्तमी भवति--खरि परत इति, अवसाने तु वैषयिकेऽधिकरणे सप्तमी भवति--अवसाने विषय इति। यदा तु वृद्धिकल्पितमभावेऽपि पौर्वापयमवसानेऽप्याश्रीयते, तदोभत्रापि परसप्तम्येव। उदाहरणेषु खरि विसर्जनीये कृते "विसर्जनीयस्य सः" ८।३।३४ इति सकारः, तस्य चवर्गे परतः श्चुत्वम्()। ञधेह नृकुट()आं भवः, "तत्र भवः" ४।३।५३ इत्यणि--नार्कुटः, नृपतेरपत्यम्? "दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः" (४।१।८५) इति नार्पत्य इत्यत्र विसर्जनीयः कस्मान्न भवति? इत्याह--"इह" इत्यादि। वृद्धिहिं भवादावर्थे विहितं तद्धितमाश्रित्य भवन्ती बहिरङ्गा, तस्याश्च बहिरङ्गत्वात्? तदाश्रयस्यापि रेफस्य बहिरङ्गत्वम्(); वृद्ध्याश्रितत्वात्(), पुना रेफस्य तद्भक्तात्वात्? तन्निमित्तात्वाच्च। विसर्जनीयक्तु खर्माधमाश्रित्य भवतीत्यन्तरङ्गः। "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इति विसर्जनीये कत्र्तव्ये रेफोऽसिद्धः, अत इह विसर्जनीयो न भवति। ननु च बृद्धौ कत्र्तव्यायां विसर्जनीयोडभिमतोऽन्तरङ्गोऽसद्धः, तदसति तस्मिन्? "वृद्धेर्बहिरङ्गव्यपदेशो नोपपद्यते, तस्यान्तरङ्गापेक्षकत्वात्(); असति तस्मिन्? वृद्धेर्बहिरङ्गव्यपदेशे रेफस्यापि स न स्यात्()। वृद्धेर्बहिरङ्गद्वारकं हि रेफस्य बहिरङ्गत्वम्(); ततश्चोमयाङ्गविकलत्वात्? बहिरङ्गपरिभाषा (व्या।प।४२) नोपतिष्ठत इति यदुक्ततम्()--"बृद्धेर्बहिरङ्गलक्षणत्वात्()" इति, तन्नोपपद्यते? नैतत्(); "न मु ने" (८।२।३) इति कार्यान्तरार्थम्? "न" इति योगाविभागः कृतः। तेन वृद्धौ कत्र्तव्यायां विसर्जनीयस्यासिद्धत्वं न भविष्यति। अत एव बहिरङ्गपरिभाषायामपि विसर्जनीयस्यासिद्धत्वं न भविष्यतीति वेदितव्यम्()। "कार्यकालं संज्ञापरिभाषम्()" (व्या।प।५८) इत्यस्य दर्शनस्येहाश्रितत्वाच्च। युक्तञ्चैतत्(), कार्यप्रयुक्तत्वाद्धि संज्ञापरिभाषस्य तद्देशतैव न्याय्या। यत्र ह्रनयाऽसिद्धत्वं क्रियते सोऽस्याः कार्यदेशः। क्व चानयाऽसिद्धत्वम्()? विसर्जनीयविधौ। तस्मात्? तद्देशैवेयम्(); न तु यत्रोपसंख्याता--"विप्रतिषेधे परं कार्यम्()" १।४।२ इति, तद्देशा; नापि यत्र ज्ञापिता--"वाह ऊरु" ६।४।१३२ इत्यत्र, तद्देशा॥
बाल-मनोरमा
खरवसानयोर्विसर्जनीयः ७७, ८।३।१५

इति रेफस्येति। उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः। कथं विसर्गप्राप्तिरित्यत आह--खरवसानयोः। "रो री"त्यतो र इति षष्ठ()न्तमनुवर्तते। तच्च पदस्येत्यधिकृतस्य विसेषणम्। येन विधिरिति रेफान्तस्येति लभ्यते। खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः। अलोऽन्त्यस्येत्यन्त्यस्य भवति। अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम्। फलितमाह--खर्यवसाने चेति। पदान्त इति। "विद्यमानस्ये"ति शेषः। यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता। इति विसर्ग इति। उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति। अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः। कुत इत्यत आह--उभयथर्क्ष्विति। अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः। नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात्। नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह--उपसर्गेणैवेत्यादिना। उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः। कथं पुनर्विधानलाभ इत्यत आह--योगविभागेनेति। योगशब्दः सूत्रशब्दपर्यायः। उपसर्गादृतीति धाताविति च सूत्रं विभज्यते। तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः। धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते। तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः। किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति। पुनर्विधानेनेत्यर्थः।

तत्त्व-बोधिनी
खरवसानयोर्विसर्जनीयः ६४, ८।३।१५

न विसर्ग इति। एतच्च "सुखार्त"इत्यादावपि बोध्यम्।