पूर्वम्: ८।३।२१
अनन्तरम्: ८।३।२३
 
सूत्रम्
हलि सर्वेषाम्॥ ८।३।२२
काशिका-वृत्तिः
हलि सर्वेषां ८।३।२२

हलि परतः भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषाम् आचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषां ग्रहणं शाकटायनस्य अपि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूतिति।
लघु-सिद्धान्त-कौमुदी
हलि सर्वेषाम् १०९, ८।३।२२

भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥
न्यासः
हलि सर्वेषाम्?। , ८।३।२२

"भोभगोअघोअपूर्वस्व" इति। भोभगोअघोपूर्वस्य वकारस्यासम्भवात्()। अवर्णपूर्नस्तु वकारः सम्भवति। तस्य तु पूर्वमेव "हलि सर्वेषाम्()" इत्यनेन लोपो न भवतीति दर्शितम्()। तेनेह यकारस्यैव ग्रहणं न वकारस्य, तस्य लोपो न भवतीति दर्शितम्()--"भोभगोअघोअपूर्वस्य" ८।३।१७ इत्यादौ सूत्रे। तत्राश्ग्रहणं किमर्थम्()? हलि सर्वेषामित्ययं लोपोऽशि हलि यथा स्यात्(), इह मा भूत्()--वृक्ष वृश्चतीति वृक्षवृट्(), तमाचष्ट इति णिच्(), वृक्षववति, वृक्षवयतेरप्रत्ययः वृक्षव्()--"वक्षव्? करोति" इति। एवमश्ग्रहणस्य प्रयोजनं दर्शयतामेन सूत्रेणाशि हलि वकारस्यावर्णपूर्वस्य लोपो न भवतीत्युक्तं भवति। ननु चावर्णपूर्वस्येत्यस्यानुवृत्तिरयुक्ता; पूर्वसूत्रे चानुकृष्टत्वात्(), तत्कथमवर्णपूर्वस्य लोपो भवतीति? नैतदस्ति; "चानुकृष्टमुत्तरत्र् नानुवत्र्तते" (व्या।प।७६) इति प्रायिकमेतत्()। कथं ज्ञायते? "एकाजुत्तरपदे णः" ८।४।१२ इत्यत्र "णः" इति प्रकृते पुनर्णग्रहणम्(), "वा भावकरणयोः" ८।४।१० इत्यत्र "वा" इति यदनुवृत्तं तन्निवृत्त्य्र्थ कृतम्()। यदि चेदं प्रायिकं न स्यात्(), पुनर्णग्रहणमनर्थम्(); पूर्वसूत्रे चानुकृष्टत्वादेव हि वाग्रहणस्यानुवृत्तिर्न भविष्यतीति किं पुनर्णग्रहणेन? कृतञ्च, ततोऽवसीयते--चानुकृष्टपरिभाषाऽनित्येति। "शाकटायनस्यापि लोपो यथा स्यात्()" इति। अपिशब्दाच्छाकल्यस्यापि। असति तु सर्वग्रहणे प्रत्यासन्नस्य गाग्र्यस्य मतेन लोप एव विज्ञायेत॥
बाल-मनोरमा
हलि सर्वेषाम् १७०, ८।३।२२

हलि सर्वेषाम्। "भोभगोअघोअपूर्वस्ये"त्यनुवर्तते। "व्योर्लघुप्रयत्ने"त्यतो यकारग्रहणमनुवर्तते। तदाह--भोभगो इति। लघ्वलघूच्चारणस्येति। ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः। अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम्। अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः। यकारस्येति। वकारस्त्वत्र नानुवर्तते। भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः। "अव्यपर" इति निर्देशादिति तदाशयः। वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः। णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात्। वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात्। वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः। सर्वेषां मतेनेति। सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम्। अत्र यदि "विभाषा भवद्भगवदघवतामोच्चावस्ये"ति वार्तिकेन "मातुवसो रु सम्बुद्धौ" इत्यत्र पठितेन "एषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे"त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुँल्लिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत्। अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति--भो देवा इत्यादि। देवा म्या इति। नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात्।

तत्त्व-बोधिनी
हलि सर्वेषाम् १४०, ८।३।२२

हलि सर्वेषाम्। यकारस्येति। वकारस्तु नानुवर्तते। भोभगोअघोअपूर्वस्याऽसंभवात्। अपूर्वस्तु यद्यपि संभवति "वृक्षव्करोती"ति, तथापि तत्र लोपाऽप्रसङ्गः "अशी"त्यनुवर्त्त्याऽशा हलो विशेषणात्। "वृक्षव्हसती"त्यादि त्वनभिधानादसाध्वित्याहुः। "गव्य" मित्यत्र तु पदान्तत्वं नास्ति। "गव्यूति"रित्यत्र वकारप्रश्लोषान्न वलोप इत्युक्तम्। देवा नम्या इति। अत्र "लोपो व्योर्वली"ति न प्रवर्तते, तं प्रति यत्वस्याऽसिद्धत्वात्। हलि किं देवायिहेति। उत्तरार्थमावश्यकं "हली"ति ग्रहणमिहैव कृतम्। तेन "लोपः शाकल्यस्ये"त्यस्यास्य च विषयविभागोऽत्र सिध्यतीति भावः।

तत्त्व-बोधिनी
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे १२७, ८।३।२२

द्विस्त्रिश्चतुरिति। इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते। कृत्वोर्थग्रहणं तु "साहचर्यं न सर्वत्र व्यवस्थपक"मित्यत्र ज्ञापकम्। तेन "दीधीवेवीटा"मित्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम्। चतुष्कपाल इति। चतुर्षु कपालेषु संस्कृत इत्यर्थे "संस्कृतं भक्षाः"इत्यणो "द्विगोर्लुगनपत्ये" इति लुक्। अत्र मनोरमायाम्-"इदुदुपधस्येति नित्यं ष"इत्युक्तम्। एवं च "द्वितं त्रितमिति चतुःपञ्चाश"दिति स्वमूलग्रन्थे प्रयोगश्चिन्त्यः स्यात्, चतुष्कपालवत्तत्रापि नित्यतया षत्वप्रवृत्तेः। अतोऽत्र षत्वनिवारणाय "अप्रत्ययस्ये"त्यत्र "प्रत्ययस्य यो विसर्जनीयो न भवती"त्यर्थ एव स्वीकर्तव्यः। "चतुष्कपाल" इत्यत्र (तु) कस्कादेराकृतिगणत्वात्षत्वप्रवृत्तिरित्याहुः।