पूर्वम्: ८।३।२५
अनन्तरम्: ८।३।२७
 
सूत्रम्
हे मपरे वा॥ ८।३।२६
काशिका-वृत्तिः
हे मपरे वा ८।३।२६

हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किं ह्मलयति, किम् ह्मलयति। कथं ह्मलयति, कथम् ह्मलयति। यवलपरे यवला वा। यवलपरे हकारे मकारस्य यवला यथासङ्ख्यं वा भवन्ति इति वक्तव्यम्। किय्म्̐ ह्यः, किं ह्यः। किव्म्̐ ह्वलयति, किं ह्वलयति। किल्म्̐ ह्लादयति, किं ह्लाहयति।
लघु-सिद्धान्त-कौमुदी
हे मपरे वा ८२, ८।३।२६

मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)। किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥
न्यासः
हे मपरे वा। , ८।३।२६

मः परो यस्मादिति बहुव्रीहिः। "किम्? ह्रलयति" इति। "ह्वल ह्रल चलने" (धा।पा।८०५,८०६), "ज्वलह्वलह्रलनमामनुपसर्गाद्वा" (ग।सू।धा।पा।८१७ इत्यस्यानन्तरम्()) इति वा मित्संज्ञा, "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वः। "यवलपरे" इत्यादि। यवलाः परे यतः स यवलपरस्तस्मिन्? हे मकारस्य वा यवला भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वं विहितमेव। यवलाश्चैते भवन्त आन्तरतम्यात्? सानुनासिका एव भवन्ति। वावचनात्? पक्षेऽनुस्वारो भवत्येव। अथ "हे भः" इत्येव कस्मान्नोक्तम्(); एवं हि परग्रहणं न कत्र्तव्यं भवति, सप्तम्यैव हि तदर्थं प्रतिपादयिष्यते--मकारे परतो योऽकार इति? नैतदस्ति; "हे मः" इत्युच्यमाने विपर्ययोऽपि विज्ञायेत--हकारपरे मकार इति, ततश्च किमह्न इत्यादावेव स्यात्()। अकारेण व्यवधानान्न भविष्यतीति चेत्()? न; "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति। आद्यपक्षे किम्? ह्रलयतीत्यादिषु कृतार्थं वचनम्(), अतो न शक्यं व्यवधानमाश्रयितुमिति चेत्()? न; येन हकारपदे मकार इत्येष सूत्रार्थो गृहीतः, तं प्रति पक्षान्तरस्यासम्भवात्()। तस्मात्? परग्रहणमेव कर्त्व्यं विपर्ययप्रतीतिर्मा भूदित्येवमर्थम्()॥
तत्त्व-बोधिनी
हे मपरे वा १०१, ८।३।२६

हे मपरे वा। मपर इति बहुव्रीहिः। यवलेति। यवलाः परा यस्माद्यवसपरस्तस्मिन्हकारे परे मस्य यवला (वा) भवन्तीत्यर्थः॥