पूर्वम्: ८।३।३५
अनन्तरम्: ८।३।३७
 
सूत्रम्
वा शरि॥ ८।३।३६
काशिका-वृत्तिः
वा शरि ८।३।३६

विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये। खर्परे शरि वा लोपो वक्तव्यः। वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः।
लघु-सिद्धान्त-कौमुदी
वा शरि १०४, ८।३।३६

शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
न्यासः
वा शरि। , ८।३।३६

तत्त्व-बोधिनी
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ३९६, ८।३।३६

अयःसहितेति। न त्वयसो विकारः, "जानपदे"तिङीष्वप्रसङ्गात्। अयस्कर्णीति। अय इव कर्णौ यस्याः। "नासिकोदर" इति ङीष्। अधःशिरसी। एतयोरिति। सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या। अधस्पदमिति। पदस्याध इति विग्रहः। मयूरव्यंसकादित्वात्समासः। शिरस्पदमिति। षष्ठीसमासः।

* इति तत्वबोधिन्यां विसर्गसन्धिः *

अथ यङन्तप्रक्रिया।

धातोरेकाचो हलादेः क्रियासमभिहारे यङ्।३।१।२२।

धातोरेकाचो। क्रियासमभिहार इत्युक्तत्वाद्धातोरेव स्यान्न तु प्रातिपदिकादिति पृच्छति धातो धातोः किमिति।