पूर्वम्: ८।३।३६
अनन्तरम्: ८।३।३८
 
सूत्रम्
कुप्वोः क्ष्कक्ष्पौ च॥ ८।३।३७
काशिका-वृत्तिः
कुप्वोः ẖकḫपौ च ८।३।३७

कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासङ्ख्यम् ẖकḫप इत्येतावादेशौ भवतः, चकाराद् विसर्जनीयश्च। वृक्षẖ करोति, वृक्षः करोति। वृक्षẖ खनति, वृक्षः खनति। वृक्षḫ पचति, वृक्षः पचति। वृक्षḫ फलति, वृक्षः फलति। कपौ उच्चारणार्थौ। जिह्वामूलीयोपध्मानीयौ एतावादेशौ। विसर्जनीयस्य सः ८।३।३४ इत्येतस्मिन्नाप्राप्ते इदम् आरभ्यते इति एतस्य बाधकम्, शर्परे विसर्जनीयः ८।३।३५ इत्येतत् तु न बाध्यते, वासः क्षौमम्, अद्भिः प्सातम्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादुत्तरस्य इति शर्परे विसर्जनीयः ८।३।३५ इत्येतदेव भवति। केचित् तु एतदर्थं योगविभागं कुर्वन्ति। कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीयः आदेशो भवति, किमर्थम् इदम्, ẖकḫपौ च इति वक्ष्यति, तद्वाधनार्थम् इति।
लघु-सिद्धान्त-कौमुदी
कुप्वोः एक एपौ च ९८, ८।३।३७

कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥
न्यासः
कुष्वोः क पौ च। , ८।३।३७

"विसर्जनीयश्च" इति। अनेन विसर्जनीयानुकर्षणार्थश्चकार इति दर्शयति। अथ वाग्रहणमनुवच्यं जिह्वामूलीयोपध्मानीयौ कस्मान्न विकल्प्येते, एवञ्च विसर्जनीयानुकर्षणार्थश्चकारो न कत्र्तव्यो भवति; आभ्यां हि मुक्ते पक्षे विसर्जनीय एव भविष्यति? नैवम्(); शपंरयोरेव हि कुप्वोरेवं स्यात्। अशर्परयोस्तु पक्षे "विसर्जनीयस्य सः" ८।३।३४ इति सकारः प्रतज्येत। तस्माच्चकारः कत्र्तव्यः। इह ककारपकारयोर्जिह्वामूलोयोपष्मानोययोः सूत्र उच्चारणात्? तथाभूतावादेशो विसर्जैनीयस्य विज्ञायेते? इति कस्याचिवाशङ्का स्यात्(), अतस्तां निराकर्त्तुमाह--"ककारपकारावुच्चारणार्थो" इति। आभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः। कीदृशौ तावादेशौ? इत्यत आह--"जिह्वामूलीयोपध्मानीयावेव त्वादेशौ" इति। तुशब्द आशङ्किताभ्यां समुदायरूपाभ्यामादेशाभ्यां विशेषं द्योतयति। एवकारोऽवधारणार्थः। जिह्वामूलीयोपध्मानीयावेव केवलौ। न तु समुदायरूपावित्यर्थः। इह सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्? "कुप्वोः क पौ च" ८।४।३६ इत्यस्यानवकाशत्वम्(), अतो यथा वृक्षः करोतीत्यादौ "विसर्जनीयस्य सः" ८।३।३४ इतीमं विधिं बाधित्वः "कुप्वोः क पौ च" इति प्रवत्र्तते, तथा वासः क्षौमम्(), अद्भिः प्सातमित्यादौ "शर्परे" (८।३।३५) इतीममपि विधिं कस्मान्न बाधते? इति यो देशयेत्? तं प्रत्याह--"विसर्जनीयस्य" इत्यादि। "शर्परे विसर्जनीयः" (८।३।३५) इत्येतस्मिन्? प्राप्ते चाप्राप्ते चेदमारभ्यते। वाशः क्षौमम्(), अद्भिः प्सातमित्यादौ प्राप्ते; वृक्ष करोति वृक्ष पचतीत्यत्राप्राप्ते। "विसर्जनीयस्य सः" ८।३।३४ इत्येत()स्मस्तु सर्वत्र प्राप्ते। एवं तस्य विशेषणं खर्मात्रे विधानात्? स्यात्(), तस्यैवेदं बाधकम्(); नेतरस्य विधेः; तं प्रति बाधकलक्षणस्यायोगात्()। स्यादेतत्()--शर्परे विसर्जनीयस्य कवर्गपवर्गाभ्यामन्यः शर्परः खरवकाशः, "कुप्वोः क पौ च" ८।३।३७ इत्यस्याशर्परौ कवर्गपवर्गौ--वासः क्षौमम्(), अद्भिः प्सतमित्यत्रोभयं प्राप्नोति, तत्र "विप्रतिषेधे परं कायम्()" (१।४।२) इति विसर्जनीयं बाधित्वा जिह्वामूलीयोपध्मानीयाभ्यां भवितुं युक्तम्()? इत्याह--"पूर्वत्रासिद्धे" इत्यादि। अत्रैवोपपत्तिमाह--"अभावादुत्तरस्य" इति। द्वयोस्तुल्यबलयोर्युगपदेकत्र प्राप्तौ विरोधो भवति, नचात्र युगयत्? प्राप्तिरस्ति; पूर्वस्मिन्? कत्र्तव्ये सत्यसिद्धत्वादुत्तरस्याविद्यमानत्वात्()। इतिकरणो हेतौ। यस्मात्? पूर्वत्रासिद्धीये नास्ति विप्रतिषेधः, तस्माद्वासः क्षौमम्(), अद्भिः प्सातमित्यत्र "शर्परे विसर्जनीयः" ८।३।३५ इत्येतदेव भवति, न जिह्वामूलीयोपध्मानीयाविति। "केचित्()" इत्यादि। वासः क्षौमम्(); अद्भिः प्सातमित्यत्र विसर्जनीयो यथा स्यादित्येवमर्थ "कुप्वोः क पौ च" इत्यत्र योगविभाघं कुर्वन्ति--"कुप्वोः" योगः, " क पौ" इति द्वितीयः। तत्र पूर्वस्मिन्? योगे "शर्परे विसर्जनीयः" ८।३।३५ इत्येतदनुवत्र्तते। तेन शर्परयोः कुप्वोर्विसर्जनीय एव भवति, न जिह्वामूलीयोपध्मानीयाविति॥
बाल-मनोरमा
कुप्वो >< क >< पौ च १४१, ८।३।३७

"खरवसानयो"रिति रेफस्य नित्यं विसर्गे प्राप्ते-कुप्वौ ><क><पौ च। "कुप्वोः" इति छेदः। ओसस्सस्य रुत्वे तस्य खर्परत्वाद्विसर्गः, जिह्वामूलीयस्य शर्पूपसङ्ख्यातत्वेन खत्र्वात्। तस्य च विसर्गस्य "खर्परे शरि वा विसर्गलोपो वक्तव्य" इति लोपः। अतः सूत्रे कुप्वोरिति विसर्गो न श्रूयते। "विसर्जनीयस्य स" इत्यतो विसर्जनीयस्येत्यनुवर्तते। तदाह-कवर्गे इत्यादिना। "क्रमा"दिति यथासंख्यसूत्रलभ्यम्। चाद्विसर्ग इति "शर्परे विसर्जनीयः" इत्यतो "विसर्जनीय" इत्यनुकृष्यत इत्यर्थः। चकारः पक्षे विसर्गसमुच्चयार्थ इति यावत्। अन्यथा जिह्वामूलीयोलपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः। एवं च प्रकृते पकारे परे विसर्गस्य सत्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः। तयोरुच्चारणे भेदः। इहादेशयोः कपावुच्चारणार्थौ, न तु विधेयकोटिप्रविष्टौ।

ननु कुप्वोरिति जिह्लामूलीयोपध्मानीयविसर्गविधना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा "शर्परे विसर्जनीय" इति केवलविसर्गविधिरपि बाध्येत। तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचिज्जिह्वामूलीयः कदाचिद्विसर्गश्च स्याताम्। इष्यते तु केलविसर्ग इत्यत आह--येन नाप्राप्तीति। "येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः" इति न्यायः। प्रापेति भावे क्तः। येनेति कर्तरि तृतीया। कर्तृकर्मणोरिति षष्ठी तु न भवति, "न लोके"ति निषेधात्। द्वौ नञावावश्यकत्वं द्योतयतः। यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः। अनेन न्यायेन कुप्वोरिति विधिः "विसर्जनीयस्य स" इत्यस्यैपवादः। सत्वे प्राप्त एव तदारम्भात्। "शर्परे विसर्जनीय" इत्यस्य तु कुप्वोरिति नापवादः। "कः करोती"त्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः। तेनेति। "वासः क्षौम"मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाऽभावेन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ। नृ()#ँ><पाहिं, नृ()#ं><पाहीत्युपध्मानीयपक्षे आनुनासिक्येऽनुस्वारे च सति रूपद्वयम्। नृ()#ँ:पाहि,नृ()#ँ:पाहीति विसर्गपक्षेऽनुनासिकानुस्वाराभ्यां रूपद्वयम्। नृ()न्-पाहीति रुत्वाऽभावे रूपम्। तथाच पञ्च रूपाणि। सूत्रे "पे" इत्यकार उच्चारणार्थः। तथाच नृ()न्रुनातीत्यादावपि पञ्च रूपाणि भवन्ति।