पूर्वम्: ८।३।३८
अनन्तरम्: ८।३।४०
 
सूत्रम्
इणः षः॥ ८।३।३९
काशिका-वृत्तिः
इणः षः ८।३।३९

अपदादौ इति वर्तते। इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः पाशकल्पककाम्येषु। पाश सर्पिष्पाशम्। यजुष्पाशम्। कल्प सर्पिष्कल्पम्। यजुष्कल्पम्। क सर्पिष्कम्। यजुष्कम्। काम्य सर्पिष्काम्यति। यजुष्काम्यति। अपदादौ इत्येव, अग्निः करोति। वायुः करोति। अग्निः पचति। वायुः पचति। कुप्वोः इत्येव, सर्पिस्ते। यजुस्ते। इत उत्तरं सः इति, इणः सः इति च वर्तते। तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति।
लघु-सिद्धान्त-कौमुदी
इणः षः ९८५, ८।३।३९

इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥
न्यासः
इणः षः। , ८।३।३९

पूर्वेण सकारे प्राप्ते तदपवादः षकारो विधीयते। "सर्पिस्तत्र"["सर्पिस्ते"--काशिका] इति। "विसर्जनीयस्य सः" ८।२।३४ इति स एव भवति। इतः प्रभृति यदि षकार एवानुवत्र्तते, न सकारोऽपि; तदा "नमस्पुरसोर्गत्योः" ८।३।४०, "अतः कृकमिकंस" ८।३।४६ इत्यादौ सकारग्रहणं कर्त्व्यम्()। क्रियमाणेऽपि यदि षकारस्तन्नानुवर्तते, तदा सोऽपि, प्राप्नोति सङ्करः। अथेतः परभृति यदि सकार एवानुवत्र्तते, न षकारोऽपि, तदा "इदुदुपधसय चाप्रत्ययस्य" ८।३।४१, "द्विस्त्रिश्चतुरिति कृत्वोऽर्थे" ८।३।४३, "इसुसोः सामर्थ्ये" ८।३।४४, "नित्यं समासेऽनुत्तरपदस्थस्य" ८।३।४५ इत्येतेषु योगेषु षकारग्रहणं कर्त्व्यम्()। क्रियमाणेऽपि तस्मिन्? यदि सकारोऽप्यनुवत्र्तते, तदा सोऽपि प्राप्नोति, एषोऽपि सङ्करः प्रसज्येत? इत्याह--"उत्तरम्()" इत्यादि। एतेन सकारषकारयोः करणं यद्देशितं तन्निरस्तम्()। यस्तु सङ्करदोषो दर्शितः, तस्याप्यपाकरणमाह--"तत्र" इत्यादि। कथं पुनरुभयोरुत्तरत्र सममनुवृत्तौ सत्यामेष विषयविभागो लभ्यते? मण्डूकपलुतिन्यायेनानुवत्र्तमानत्वात्()॥
तत्त्व-बोधिनी
इणः षः १२४, ८।३।३९

इणः षः। सोऽपदादावित्यस्यापवादः।