पूर्वम्: ८।३।४०
अनन्तरम्: ८।३।४२
 
सूत्रम्
इदुदुपधस्य चाप्रत्ययस्य॥ ८।३।४१
काशिका-वृत्तिः
इदुदुपधस्य च अप्रत्ययस्य ८।३।४१

इकारोपधस्य उकारोपधस्य च अप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्। निस् निष्कृतम्। निष्पीतम्। दुस् दुष्कृतम्। दुष्पीतम्। वहिस् बहिष्कृतम्। बहिष्पीतम्। आविस् आविष्कृतम्। आविष्पीतम्। चतुर् चतुष्कृतम्। चतुष्कपालम्। चतुष्कलम्। चतुष्कण्टकम्। प्रादुस् प्रादुष्कृतम्। प्राउद्ष्पीतम्। अप्रत्ययस्य इति किम्? अग्निः करोति। वायुः करोति। मातुः करोति, पितुः करोति, अत्र रात् सस्य ८।२।२४ इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्य अप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति? कस्कादिषु तु म्रातुष्पुत्रग्रहणं ज्ञापकम् एकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य। पुम्मुहुसोः प्रतिषेधो वक्तव्यः। पुंस्कामा। मुहुẖ कामा। नैष्कुल्यम्। दौष्कुल्यम्। दौष्पुरुष्यम्। नि३ष्कुलम्। दु३ष्कुलम्। दु३ष्पुरुषः। बहिरङ्गलक्षणयोर् वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्तते।
न्यासः
इदुदुपधस्य चाप्रत्ययस्य। , ८।३।४१

इच्च उच्च तौ इदुत्तौ। इकारोकारायुपधे यस्य स तथेक्तः। "निदुर्वहिः" इत्यादि। सम्भवदर्शनार्थमेतत्(), न परिगणनम्(); वयावर्त्त्याभावात्()। "मातुः करोति, पितुः करोति" इति। अत्र यथा न भवति तथा वक्ष्यति। "पुंस्कामा, मुहुःकामा" इति। अत्रापि यथा न भवति तथा वक्ष्यति। "चतुष्कपालम्(), चतुष्कष्टकम्()" इति। चतुःशब्दस्य कपालकण्टकशब्दाभ्यां बहुव्रीहिः, समाहारे द्विगुर्वा। "अकारान्तोत्तरपदो ["पदद्विगुः"--प्रांउ।पाठे] द्विगुः स्त्रियां भाष्यते" (वा।१५६) इति स्त्रीलिङ्गता न भवति; "पात्रादीनां प्रतिषेधः" (वा।१५९) इति वचनात्()। "मातुः करोति, पितुः करोति" इति देश्यम्()। मातुपितृशब्दाभ्यां षष्ठ()एकवचनम्(); "ऋत उत्()" ६।१।१०७ इत्युत्त्वमेकादेशः, रपरत्वम्(), "रात्सस्य" ८।२।२४ इति सलोपः, रेफस्य विसर्जनीयः। स च रेफस्याप्रत्ययत्वात्? प्रत्ययविसर्जनीयो न भवति, अतः षत्वं प्राप्नोति। तत्कस्मान्न भवति? इत्याह--"कस्कादिषु" इत्यादि। परोहारः। एकादेशश्चासो निमित्त्? चेति कर्मधारयः। यद्येकादेशादिणो निमित्तभूतात्? षत्वं स्यात्(), कस्कादिषु भ्रातुष्पुत्रशब्दस्य ग्रहणं न कुर्यात्(); अनेनैव सिद्धत्वात्(), कृतं च, एतदेव ज्ञापयति--एक#आदेशनिमित्तात् षत्वं न भवतीति। "पुम्मुहुसाः" इत्यादि। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--उत्तर ८।३।४२ सूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतं विज्ञायेत। सा व्यवस्थितविभाषा, तेन पुंमुहुसोर्न भवति। अन्येषां तु नित्यमेव भविष्यति। पुमित्यस्य प्रहणं रुत्वादेशपक्षमाश्रित्य कृतम्()। सकारादेशपक्षे हि विसर्जनीयाभावात्? प्रतिषेधसर्जनीय" ८।३।३४ इति सकारः। जिह्वामूलीयस्तु यथा न भवति तथा पूर्वमेव प्रतिपादितम्()। "मुहुकामा" इति। षत्वे प्रतिषिद्धे जिह्वामूलीयो भवति। क्वचित्? "मुहुस्कामा" इति। सकारः पठ()ते। तत्र यथा पुंस्कामेत्यत्र जिह्वामूलीयाभावः प्राक्प्रतपादितस्तथेहापि प्रतिपाद्यः। "नैष्कुस्यम्(), दौष्पुरुध्यम्()" इति ब्राआहृणादित्वात्? ष्यञि कृते तन्निमित्तायां च वृद्धाविदुदुपधत्वाभावात्? षत्वं न प्राप्नोति। "निश्ष्कुलम्(), दुश्ष्पुरुषः" इत्यत्रापि "गुरोरनुतः" ८।२।८६ इत्यादिना प्लुते विहिते नैव तत्प्राप्नोति, इदुदुपधत्वाभावादिति यो देशयेत्(), तं प्रत्याह--"नैष्कुल्यम्()" इत्यादि। वुद्धे स्तावद्वहिरङ्गत्वं तद्धितापेक्षत्वात्(), तद्धितो भवाद्यर्थापेक्षत्वाद्वहिरङ्गः। तेन तदाश्रिताऽपि वृद्धिर्वहिरङ्गा भवत#इ। प्लुतोऽपि दूरद्धूतावावर्थे वाक्यस्य विधीयमानत्वाद्विहिरङ्गः, षत्वं तु वर्णस्य पदसम्बान्धिनो दिधीयत इतयल्पापेक्षीत्यन्तरङ्गम्()। तेनान्तरङ्गे षत्वे कत्र्तव्ये वृद्धिप्लुतयोर्थहिरङ्गयोरसिद्धत्वात्? प्रदत्र्तत एव षत्वम्()। [अयं भाहगः कांउ।पाठे नास्ति] तपरकरणमाशीः करोति, गोः करोति, धूः करोतीत्यत्र मा भूदित्येवमर्थम्()॥[अयं भाहगः कांउ।पाठे नास्ति] "इदुदुपधस्य" इत्यादिना द्विस्त्रिश्चतुरिति ग्रहणं प्रत्याचष्टे। एतद्धि एवमर्थं क्रियते--द्विरादीनामेव विसर्जनीयस्य षत्वं यथा स्यात्(), पञ्चकृत्वः करोतीत्यत्र मा भूदिति। ननु च "इदुदुपश्रस्य" ८।३।४१ इत्यस्मिन्ननुवत्र्तमाने कृत्वोऽर्थो विवयो यसय पदस्य तस्य यो विसर्जनीय इत्येवं कृत्वोऽर्थविषयेण पदेन विसर्जनीयो यदा विशेष्यते, तदान्यस्य न प्राप्नोति; द्विरादेरन्यस्येदुदुपधस्य कृत्वोऽर्थवृत्तेः पदस्यासम्भवात्()। तस्मादन्तरेणापि द्विरादीनां ग्रहणम्(), तेषामेव हि विसर्जनीयस्य षत्वं भविष्यति। द्विस्त्रिश्चतुरिति शक्यमकर्तुम्()। "कृत्वसुजर्थे षत्वं ब्रावीति कस्मात्()" इति। अस्मिन्? षत्वविक्लपविधाने हेतुं कृत्वोऽर्थवचनस्य पृच्छति। कस्मात्? "कृत्वोऽर्थे" इत्येवमुक्त्वेमं षत्वविकल्पं ब्रावीति? किं तत्? प्रयोजनं यतो हेतोरिह षत्वविकल्पविधौ कृत्वोऽर्थग्रहणं करोतीत्यर्थः। अत्र वक्ष्यमाण एवाभिप्रायः। अतो हेतुमाह--"चतुष्कपाले" इत्यादि। असति कृत्वोऽर्थग्रहणे चतुश्कपालेऽपि विभाषा षत्वं स्यात्(), नित्यं चोष्यते। तस्मादत्र विभाषा षत्वं मा भूदित्येवमर्थं कृत्वोऽर्थ इत्युच्यते। येनाभिप्रायेण परं पृष्टवान्(), तमाविष्कर्त्तुमाह--"ननु सिद्धं तत्र पूर्वेण" इति। नान्वित्यभ्युपगमे। एतदनेन दर्शयति--भवत्वनेन षत्वं विभाषा, तथापु पूर्वसूत्रेण नित्यं भविष्यति षत्वमस्य श्रवणम्(); यस्माद्यदाप्यनेन षत्वं न भवति तदापि पूर्वसूत्रेण "इदुदुपधस्य चाप्रत्ययस्य" ८।३।४१ इत्यनेन चतुष्कपाले सिद्धं षत्वमिति। "सिद्धे ह्रयं विधत्ते" इति। सिद्धे प्राप्त इत्यर्थः। एतदाचष्टे--"इदुदुपधस्य" इत्यादिना नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विदधात। नाप्राप्ते तस्माद्येन नाप्राप्तिन्यायेन (व्या।प।४९) तस्यायं बाधकः स्यादिति। तदनेन यदुक्तम्()--"सिद्धं तत्र पूर्वेण" इति, तन्निराकृतम्()। तस्माद्विभाषानिवृत्त्यर्थ कृत्वोऽर्थग्रहणम्()। स्यादेतत्()--कृत्वोऽर्थविवक्षायां सुचि कृते तस्य यदा विसर्जनीयः क्रियते तदा पूर्वेण न प्राप्नोति, अप्रत्ययस्येति ८।३।४१ प्रतिषेधात्(); तपश्च "सिद्धे ह्रयं विधत्ते" इति यत्तन्नोपपद्यते, तत्कुतो ह्रनेन विकल्पेन नित्यं षत्वं बाध्येत? इत्याह--"यदापि कृत्वोऽर्थे" इत्यादि। चतुःशब्दो वत्र्तत इति शेषः। अस्य च "सिद्धे ह्रं दिधत्ते चतुरः षत्वम्()" इत्यनेन प्रकृतेन सम्बन्धः। अस्यार्थः--एतदुक्तं भवनि, न केवलं यदा कृत्वोऽर्थवृत्तिश्चतुःशब्दस्तदा पूर्वेण प्राप्ते सतीमं षत्वविकल्पं विधत्ते, अपि तु यदा कृत्वोऽर्थस्तदापीति। अत्रैवोपपत्तिमाह--"लुप्ते कृत्वोऽर्थोये" इत्यादि। इत्यादि। हिशब्दो हेतौ। कृत्वोऽर्थे भवः कृत्वोऽर्थीयः,क सुच, गहादित्वाच्छः। यस्मात्? "रात्सस्य" (८।२।२४) इति लुप्ते कृत्वोऽर्थीये रेफस्याप्रत्यस्य विसर्जनीयो भवति तस्मात्? कृत्वोऽर्थेऽपि पूर्वेण नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विधतते। ततश्च सर्वेत्र कृत्वोऽर्थेऽप्यकृत्वोऽर्थेऽपि नाप्राते पूर्वेण षत्वे विकल्प आरभ्यत इति तस्य बाधक एव स्यात्()। एवञ्चासति कृत्वोऽर्थग्रहणे चतुष्कपाले विभाषा षत्वं प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं कृत्वोऽर्थग्रहणमिति ["इति" नास्ति--प्रांउ।पाठः] स्थितमेतत्()। "एवम्()" इत्यादि। यदि कृत्वोऽर्थग्रहणं क्रियते, एवं तर्हि तस्मिन्? सति किमिदानीं द्विस्त्रिश्चतुरित्यनेन कार्यम्()? न किञ्चित; व्यावर्त्त्यभावात्()। तस्मान्न कत्र्तव्यमिदमित्त्येवाभिप्रायः।[मेदेत्यभिप्रायः--प्रांउ।पाठः] स्यादेतत्()--असत्यस्मिन्? पञ्चकृत्वः करोतीत्यादावपि विभाषा षत्वं स्यात्(), अतस्तन्निवृत्तिरनेन क्रियते इति? अत आह--"अन्यो हि" इत्यादि। "इदुदुपधस्य" ८।३।४१ इत्यनुवत्र्तते, "कृत्वोऽर्थे" इति चोच्यते, न च द्विरादिभ्योऽन्य इदुदुपधः कृत्वोऽर्थे वत्र्तते; तस्मात्? सामथ्र्यादेषामेव भविष्यति, नान्येषामित्यनर्थकं द्विरादीनां ग्रहणम्()। "अक्रियमाणे" इत्यादिना असति हि द्विरादिग्रहणे यो दोषस्तं दर्शयति। यदि द्विरादिग्रहणं न क्रियेत, तदा विसर्जनीयस्य प्रकृतस्वात्स एव कृत्वोऽर्थग्रहणेन विशेष्यते--कृत्वोऽर्थे यो वत्र्तते विसर्जनीय इति। कः पुनरेवं सति दोषः स्यात्()? इत्यत आह--"चतुरो न सिध्यति" इति। "तथा" इति। तथैवं कृत्वोऽर्थग्रहणेन विसर्जनीये विशेष्यमाणे चतुःशब्दस्य विभाषा षत्वं न सिध्यति। किं कारणं न सिध्यति? इत्यत आह--"रेफस्य" इत्यादि। हिशब्दो हेतौ, यस्माच्चतुरः "रात्सस्य" ८।२।२४ इति सुचः सकारे लुप्ते प्रकृत्यवयवस्य रेफस्य विसर्जनीयः, तस्मान्न सिध्यति। न ह्रसौ विसर्जनीयः कृत्वोऽर्थे वत्र्तते। अथ क्रियमाणेऽपि तस्मिन्? कस्मादेव दोवो न भवति? इत्यत आह--"तस्मान्()" इत्यादि। तस्मिन्? द्विस्त्रिश्चतुरित्येत()स्मस्तूपादोयमाने कृत्वोर्थग्रहणं चतुःशदस्य विशेषणं न्यायं भवति। तथा हि--तस्य श्रुतत्वात्? स एव विशेष्यते, कृत्वोऽर्थ यो वत्र्तते चतुःशब्द इति। लुप्तेऽपि कृत्वोऽर्थीये चतुःशब्दः कृत्वोऽर्थे वत्र्तत इति न भवति द्विरादिग्रहणे क्रियमाणेऽपि दोषः। तस्माद्()द्विरादिग्रहणं कत्र्तव्यम्()--कृत्वोऽर्थग्रहणं तस्य विशेषणं यथा स्यात्()। एतदपि न भवति तस्य प्रयोजनमिति दर्शयन्नाह--"प्रकृतं पदं तदन्तम्()" इति। तदन्तं विसर्जनीयान्तम्()। अतः "तस्यापि तद्विशेषणं न्याय्यम्()" उपपत्तिमाह--तदन्तत्वं तु पदस्य विसर्जनीयेन विशेष्यत्वाल्लभ्यते। अपिशब्दोऽवधारणे। तस्यैवेत्यर्थः। कुत एतत्()? व्याप्तिन्यायात्()। विसर्जनीये हि विशेष्यमाणे चतुरो न सिध्यति, पदे तु विशेष्यमाणे सर्वत्र भवति। तस्मात्? तदेव विशेषयिष्यामः--कृत्वोऽर्थे यद्वत्र्तते पदमिति। पदे विशेष्यमाणे चतुरः षत्वं सिध्यत्येव। लुप्तेऽपि कृत्वोऽर्थीये चतुरित्येतत्पदं कृत्वोऽर्थे वत्र्तत इति। तस्मान्नार्थो द्विरदिग्रहणेनेति श्लोकवात्र्तककारेम प्रत्याख्यातं द्विरादिग्रहणम्()। सूत्रकारस्य त्वयमभिप्रायः--विसर्जनीयस्य कार्यित्वात्? पदेन विशेष्यमाणत्वाच्च प्राधान्यम्()। तत्रासति द्विरादिग्रहणे प्राधान्यादविसर्जनीय एव कृत्वोऽर्थग्रहणेन विशेष्यत ति। त()स्मस्तु सति तदुपादानसामथ्र्यात्? साक्षात्? क्षुतत्वाच्च द्विरादेरेव पदस्यैतद्विशेषणम्(), न तु स्वरितत्वादनुमितस्य विसर्जनीयसय। तस्माद्युक्तं द्विरादिग्रहणं कर्त्तुमिति। "एवं तु" इत्यादिना ग्रन्थेन द्विस्त्रिश्चतुग्र्रहणं सूत्रकारमतेन स्थापयति। "पूर्वेण" इति। "इदुदुपधस्य" ८।३।४१ इत्यादिना। तत्रैतत्? स्यात्()--"इदुदुपधस्य" इत्यस्यावकाशः--निष्कृतम्(), दुष्कृतमिति; अस्यावकाशः--द्विष्करोतीत्यादौ; चतुष्करोतीत्यत्र परत्वात्? पूर्वविधिं बाधित्वाऽयमेव विकल्पो भविष्यति? इत्यत आह--"पूर्वत्रासिद्धे" इत्यादि। किं कारणं नास्तीति? अत आह--"अभावादुत्तरस्य" इति॥
तत्त्व-बोधिनी
इदुदुपधस्य चाऽप्रत्ययस्य १२६, ८।३।४१

इदुदुपधस्य। इदुदिति किम्?, गीः करोति। पूः करोति। इह "इदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्ग" इति वैयधिकरण्येन सम्बन्धः। "अप्रत्ययस्ये"ति तु "अप्रत्ययो यो विसर्ग" इति सम्बध्यते। सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्याऽन्याय्यत्वात्। न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्, "अग्निः करोती"त्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः। न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्, "अप्रत्ययस्ये"ति निषेधेनैव सिद्धतिवज्ञापनात्। अतएव "अग्नि"रित्यादौ रोर्विसर्गः सिध्यति। अन्यथाऽपदान्तत्वान्न स्यात्। विसर्गविधिस्तु "पुन"रित्यादौ चरितार्थः। ज्ञापकं च विशेषापेक्षम्। तेन "अचः परिस्मिन्-" इति त्रापाद्यां न प्रवर्तते। एवं च "पूर्वत्रासिद्धीये न स्थानिव"दिति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति मनोरमायां स्थितम्।

अत्र वदन्ति-"अप्रत्ययस्ये"त्यत्र प्रत्ययस्य यो विसर्जनीयो न भवतीत्याद्यर्थ एव आकारे स्थित इति "अप्रत्ययो यो विसर्ग" इति सामानाधिकरण्येनान्वयो न युक्तः। "सर्पिष्करोती"त्यत्र "इसुसोः सामर्थ्ये" इति वैकल्पिकशत्वप्रवृत्तावपि "तिष्ठतु सर्पिः पिबत्वमुदक"मित्यत्र "इदुदुपधस्ये"त्यनेन नित्यं षत्वप्रसङ्गात्। न चाकरमतेऽप्युणाअदीनामव्युत्पत्त्याश्रयणे तथा स्वीकारादिष्टापत्तिरिति वाच्यम्, व्युत्पत्त्याश्रयणे दोषतादवस्थ्यात्। "इसुसो"रित्यत्र "सर्पिष्करोती"त्युदाहरणेन व्युत्पत्तिपक्षस्यैव वार्तिककारेण स्वीकृतत्वानुमानात्। अन्यथा "इदुदुपधस्ये"त्यनेनैव व्युत्पत्त्यव्युत्पत्तिपक्षभेदेन षत्वविकल्पसिद्धेस्तदुदाहरणस्याऽसङ्गतिप्रसङ्गात्। किंच "तिष्ठतु सर्पि"रित्यादौ "इदुदुपधस्ये"ति षत्वस्येष्टत्वे-"कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः"-इति स्वमूलग्रन्थविरोध इति। अत्र केचित्, "इदुभ्द्यामप्रत्ययस्ये"ति वक्तव्ये "इदुदुपधस्ये"तिग्रहणं नित्यं य #इदुदुपधस्तस्यैव विसर्गस्य षत्वं यथा स्यात्, "कविभिः कृत"मित्यादौ मा भूदित्येवमर्थम्। भिसो विसर्गस्य हि नित्यमिदुदुपधत्वं नास्ति" "रामै"रित्यादौ तदभावादिति, तन्न; "अग्निः करोती"ति निषेधादाहारणस्याऽसाङ्गत्यापत्तेः। "देव" इत्यादावकारोपधत्वात्। "प्रियचत्वा" इत्यादावाकारोपधत्वेन "चतुष्कपाल" इत्यादौ षत्वानापत्तेश्चेति यत्किञ्चिदेतत्। अन्ये तु-"प्रत्ययस्य यो विसर्जनीयो न भवती"त्यादिव्याख्याने तूक्तोदाहरणे षत्वस्याऽप्रवृत्तेरुपधस्येत्येतत्सुत्यजमित्याहुः। स्यादेतत्। "अप्रत्ययग्रहणमेव--स्थानिवत्सूत्रं प्रति त्रिपादी सिद्धेत्यत्र ज्ञापक"मित्युक्तम्। तदिदं वैयधिकरण्येनान्वयमभ्युपगच्छतां न सिध्येत्। अत्राहुः--"न मु ने" इत्यत्र "ने"ति योगं विभज्य "स्थानिवत्सूत्रं प्रति त्रिपादी नासिद्धे"ति व्याख्यायते। "प्रत्ययः", परश्चे"त्यादिनिर्देशाश्चेहानुकूलाः। योगविभागस्येष्टसिद्ध्यर्थत्वात। "अचः परस्मिन्--" इति सूत्रं प्रति त्वसिद्धैव। ततश्च "पूर्वत्रासिद्धे न स्थानिव"दिति सिद्धान्तो युक्तिमूलक इत्यादि सर्वं सङ्गच्छत इति। "अप्रत्ययो यो विसर्ग" इति सामानाधिकरण्यपक्षे "मातुः कृपे"त्यादौ "इदुदुपधस्ये"ति षत्वमाशङ्क्याह--एकादेशशास्त्रनिमित्त कस्येति। "मातु"रित्यत्र हि "ऋत उत्" इति एकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम्। आकरे तु "एकादेशनिमित्ता"दिति प्रचुरः पाठः। तत्र एकादेशः--एकादेशशास्त्रं, तन्निमित्तं यस्य उकारस्य तस्मादित्यर्थः। नन्वेवम् "अप्रत्ययस्ये"त्यत्र सामानाधिकरण्यपक्षोऽप्याकरसंमत इति चेदत्राहुः, "प्रत्येकं संयोगसंज्ञे"ति पक्ष आकरसंमतोऽपि यथा निष्प्रयोजनस्तथायमपि। वैयधिकरण्यपक्षस्त्वावश्यक-एव। अन्यथा "तिष्ठतु सर्पिः पिब त्वमुदक"मित्याद्यसिध्द्यापत्तेरितिं। भ्रातुष्पुत्रशब्दस्य पाठादिति। नच "षत्वतुकोरसिद्धः" इत्येकादेशशास्त्रस्याऽसिद्धत्वात्षत्वाऽप्राप्तौ विध्यर्थ एव तत्र पाठो न ज्ञापनार्थं इति वाच्यम्, "षत्वे तुकि चंकर्तव्ये पदान्तपदाद्योः सतोरेवैकादेशोऽसिद्ध" इति सिद्धान्तात्। अन्यथा "शकहूष्वि"त्यत्रापि षत्वं न स्यात्। शकान् ह्वयन्तीत्यत्र "आदेच उपदेशे" इत्यात्वे क्विपि संप्रसारणे कृते "संप्रसारणाच्चे"ति पूर्वरूपैकादेशे च "हलः"इति दीर्घः। भवति हि "कोऽसिचत्" "सोऽसिच"दित्यादौ पदान्तपदाद्योरादेशः। तेन तत्र षत्वनिषेधः सिध्यति, न तु "शकहूष्वि"त्यत्र। एवं च "भ्रातुष्पुत्र" इत्यत्रापि "षत्वतुको"रित्येकादेशशास्त्रमसिद्धं न भवतीत्युक्तं न ज्ञापकं सुस्थमेव। ननूक्तज्ञापकात् "शकहूष्वि"त्यत्रापि "मातुः कृपे"त्यत्रेव षत्वं न स्यात्। मैवम्। तुल्यजातीयस्य ज्ञापकत्वात्। कश्च तुल्यजातीयः, यः कुप्वोरिति दिक्।