पूर्वम्: ८।३।४१
अनन्तरम्: ८।३।४३
 
सूत्रम्
तिरसोऽन्यतरस्याम्॥ ८।३।४२
काशिका-वृत्तिः
तिरसो ऽन्यतरस्याम् ८।३।४२

तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तृम्। तिरस्कर्तव्यम्। तिरःकर्ता। तिरः कर्तुम्। तिरः कर्तव्यम् गतेरित्येव, तिरः कृत्वा काण्डं गतः।