पूर्वम्: ८।३।४४
अनन्तरम्: ८।३।४६
 
सूत्रम्
नित्यं समासेऽनुत्तरपदस्थस्य॥ ८।३।४५
काशिका-वृत्तिः
नित्यं समासे ऽनुत्तरपदस्थस्य ८।३।४५

इसुसोः इति वर्तते। समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्त्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्य इति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पो ऽप्यत्र न भवति। एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकम् इसुसोः प्रत्ययग्रहणे यस्मात् स विहितः तदादेः इत्ययं नियमो न भवति। तेन वाक्ये ऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये ८।३।४४ इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितम् इति समासे न भवति।
न्यासः
नित्यं समासेऽनुत्तरपदस्थस्य। , ८।३।४५

"सपिष्कुण्डिका" इति। षष्ठीसमासः। एवं "धनुष्कपालम्()" इत्यादावपि। "परममपिःखुम्डिका" इति। परमसर्पिः शब्दयोः सन्महत्()" २।१।६० इत्यादिना कर्मधारयं कृत्वा कुण्डिकाशब्देन सह षष्ठीसमासः। अत्र परमशब्दापेक्षया सर्पिःशब्द उत्तरपदम्(), तत्रस्थश्च विसर्जनीय इति षत्वं न भवति। ननु च "इसुसोः सामर्थ्ये" ८।३।४४ इत्यत्र "इसुसोः" इति प्रत्ययग्रहणमेतत्(), तत्र "प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य" (भो।पु।सू।७) इति नियमाद्यत एवेसुसौ विहितौ तदादेरेव ग्रहणेन भवितव्यम्(), नाधिकस्य, अधिकश्च परमशाब्दः; केवलाद्धि सपेरिस्प्रत्ययो विहितः, न परमशब्दादेः; एवञ्चोत्तरपदप्रकृतिरेव नास्ति, किं प्रतिवेधेन? इत्याह--"एतदेव" इत्यादि। यद्ययमिह नियमः स्यात्? "अनुत्तरपदस्थस्य" इति नोक्तं स्यात्(), उक्तञ्च, तस्मादेतज्ज्ञापयति--नायमिह नियमो भवतीति। किमस्य ज्ञापकस्य प्रयोजनम्()? इत्याह--"तेन" इत्यादि। यस्मादयमिह नियमो न भवति, तेन हेतुना वाक्येऽधिकस्यापि ग्रहणे सति परमसर्पिः करोति, परमसर्पिष्करोतीत्यत्र पूर्वसूत्रेण षत्वबिकल्पो भवति; नियमे तु सति न स्यात। समासेऽपि तर्हि परमसर्पिःकुण्डिकेत्यत्र षत्वविकल्पेन भवितव्यम्(); नियमाभावात्()? इत्यत आह--"व्यपेक्षा च तत्र" इत्यादि। चकोरोऽवधारणार्थः। इतिकरणो हेतौ। तत्र "इसुसोः" (८।३।४४) इत्यादौ सूत्रे सामाथ्र्यग्रहणाद्व्यपेक्षैव सामथ्र्य वत्वविकल्पस्य निमित्तं यस्मादाश्रितं तस्मात्? समासे न धवति; तत्र तदभावात्()॥