पूर्वम्: ८।३।५४
अनन्तरम्: ८।३।५६
 
सूत्रम्
अपदान्तस्य मूर्धन्यः॥ ८।३।५५
काशिका-वृत्तिः
अपदान्तस्य मूर्धन्यः ८।३।५५

पदाधिकारो निवृत्तः। अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतम् वेदितव्यम् आपादपरिसमाप्तेः। वक्ष्यति आदेशप्रत्यययोः ८।३।५९। सिषेव। षुष्वाप। अग्निषु। वायुषु। अपदान्तस्य इति किम्? अग्निस्तत्र। वायुस्तत्र। षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे।
न्यासः
अपदान्तस्य मूर्घन्यः। , ८।३।५५

मूर्धनि भवो मूर्धन्यः--"शरीरावयवाद्यत्()" ४।३।५५, "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिवद्भावः। "सिषेच", इति। "षिचिर्? क्षरणे" (धा।पा।१४३४), "ञिष्वप्? शये" (धा।पा।१०६८), "धात्वादेः षः सः" ९६।१।६४) इति सत्वम्(), लिट्(), तिप्(), णल्()। स्वपेः "लिट()भ्यासस्योभयेषाम्()" ६।१।१७ इति सम्प्रसारणम्()। अथ श्रूर्थन्यग्रहणं किमर्थम्(), न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह--"ष इत्येवं सिद्धे" इति। यदि ष इत्येवोच्येत अकृढवम्(), चकृढ्वे इत्यत्रापि "इणः षीध्वं लुङ्? लिटां धोऽङ्गात्()" (८।३।७८) इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्()यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः "इणः षीध्वम्()" इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्()। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्()। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कत्र्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात्? स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति--इह "ष" इत्युक्ते द्वे मात्रे उत्तरसूत्रे "ढ" इल्युक्ते द्वे, उत्तरत्र "ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात्? स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात्? स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। "अकृढवम्()" इति। "ह्यस्वादङ्गात्()" ८।२।२७ इति सिचो लोप-। अथान्तग्रहणहणं किमर्थम्()? "अपदस्य मूर्घन्यः" इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्(); पदसकारत्वात्()। क्व तर्हि स्यात्()? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते॥
बाल-मनोरमा
अपदान्तस्य मूर्धन्यः २०८, ८।३।५५

रामे--सु" इति स्थिते। आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य। मूर्धन्यः=मूर्धस्थानकः। अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम्। इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः।

तत्त्व-बोधिनी
अपदान्तस्य मूर्धन्यः १७५, ८।३।५५

अपदान्तस्य। "ष" इत्येव सिद्धे मूर्धन्यग्रहणम् "इणः षीध्व"मिति ढत्वार्थम्। चकृढ्वे। अकृढ्वम्।