पूर्वम्: ८।३।५५
अनन्तरम्: ८।३।५७
 
सूत्रम्
सहेः साडः सः॥ ८।३।५६
काशिका-वृत्तिः
सहेः साडः सः ८।३।५६

सहेर् धातोः साड्रूपस्य यः सकारः तस्य मूर्धन्यः आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेः इति किम्? सह डेन वर्तते सडः, तस्य अपत्यं सादिः। साड्ग्रहणं किम्? यत्रास्य एतद् रूपं तत्र यथा स्यात्, इह मा भूत् जलासाहम्। तुरासाहम्। सः इति किम्? आकारस्य मा भूत्।
लघु-सिद्धान्त-कौमुदी
सहेः साडः सः २६४, ८।३।५६

साडरूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥
न्यासः
सहेः साडः सः। , ८।३।५६

"साड()पस्य" इति। साडित्येतद्रूपमापन्नस्येत्यर्थः। "जलाषाट्()" इति। जलं सहत इति "भजो ज्विः" ३।२।६२ इत्यनुवत्र्तमाने "छन्दसि सहः" ३।२।६३ इति ण्विः, "अत उपधायाः" ७।२।११६ इति वृद्धिः, "हो ढः" ८।२।३१ इति ढत्वम्(), तस्य जश्त्वम्--डकारः, "अन्येषामपि दृश्यते" ६।३।१३६ इति दीर्घः। सकारस्योष्मणो घोषवत आन्तरतम्यात्? तादृश एव षकारः। "सह डेन" इत्यादि। डीङः "सप्तम्यां जनेर्डः" ३।२।९७ इत्यनुवत्र्तमाने "अन्येष्वपि दृश्यते" ३।२।१०१ इति डप्रत्ययः; अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्()। सह डेन वत्र्तत इति "तेन सहेति तुल्ययोगे" २।२।२८ इति बहुव्रीहिः, "वोपसर्जनस्य" ६।३।८१ इति सहशब्दस्य सभावः, सडस्यापत्यमिति अत इञि ४।१।९५ "यस्येति च" ६।४।१४८ इत्यकारलोपः, आदिवृद्धौ च साडिरित्येतद्रूपं भवतीति, असति सहेरित्येतस्मिन्? मूर्घन्यः प्रसज्येत। "अचः परस्मिन्? पूर्वविधौ" (१।१।५७) इत्यकारस्य स्थानिवत्त्वान्नास्ति साडित्येतत्तद्रूपमिति चेत्()? न; "पूर्वत्रासिद्धे न स्थानिवत्()" (जै।प।वृ।४८) इति स्थानिवद्भावनिषेधात्()। नन्वेवमपि नैवात्र साडित्येतद्रूपमस्ति? षत्वे कत्र्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्व#आत्()। इहापि तर्हि न स्यात्()--जलाषाडिति? षत्वे कत्र्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादेव; सा ह्रङ्गमाश्रित्य भवति, अङ्गसंज्ञा च प्रत्यये सति, प्रत्ययो ह्रु पपदाश्रय इति व्यक्तमुपधादृद्धेर्वहिरङ्गत्वम्()। षत्वं त्वन्तरङ्गं साङ्भूतस्य विधीयत इति "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यसिद्धत्वात्? षत्वं न भविष्यतीति वचनमिदमनर्थकं स्यात्()। तस्मान्मा भूद्वचनस्य वैयथ्र्यमिति नैयं परिभाषोपतिष्ठते। "तुरासाहम्()" इति। द्वितदीयैकवचनान्तमेतत्()। क्वचित्? "जलासाहम्()" इति पाठः, स त्वयुक्तः; इष्टत्वादिह षत्वस्य। तथा च वक्ष्यति--८।३।११० "सवनादिष्व()आसनिग्रहणमनिणोऽपि षत्वं भवतीति ज्ञापनार्थम्()। तेन जलाषाहम्()। अ()आषाहमित्येतत्? सिद्धं भवति" इति। "स इति किम्()" इति। एवं मन्यते--अलोऽन्त्यपरिभाषया १।१।५१ अन्तस्य तावङ्डकारेण भवितव्यम्(), अन्तस्य भवन्नान्तरतम्याडुकारः स्यात्(), एतच्चायुक्तम्(); डकारस्य डकारविधाने प्रयोजनाभावात्()। तस्मादन्तरेणापि सग्रहणं सकारस्यैव भविष्यति। इतरस्तु "स" इत्येतस्मिन्नसति "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इत्याकारस्य द्विमात्रिकस्यान्तरतम्यात्? तादृश ऋकारो मूर्धन्यः स्यादित्यनेनाभिप्रायेणाअह--"आकारस्य मा भूत्()" इति॥
बाल-मनोरमा
सहेः साडः सः , ८।३।५६

अत तुरासाह्()शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह--सहे) साडः सः। "इक्()श्तिपौ धातुनिर्देशे" इति "षह मर्षणे" इति धातोरिक्()प्रत्यये "धात्वादेः षः सः" इति षस्य सत्वे सहिशब्दः। षह्धातोरित्यर्थः। साडिति कृतढत्वडत्ववृद्धेरनुकरणं। तदाह--साड()पस्येति। मूर्धन्येति। "अपदान्तस्य मूर्धन्यः" इति तदधिकारादिति भावः। मूर्धनि भवः--मूर्धन्यः। मूर्धस्थानक इत्यर्थः। तुराषट् तुराषाडिति। सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात्। "वाऽवासाने" इति चत्र्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे "साड" इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः। तुरासाहाविति। अपदान्तत्वान्न मूर्धन्य इति भावः। इत्यादीति। तुराषाड्भिः। तुराषाड्भ्यः। तुरासाहे। तुरासाहः। तुरासाहः। तुरासाहोः। तुराषाट्सु-तुराषाट्त्सु। अथ तुराषाट्शब्दं व्युत्पादयति--तुरं सहते इत्यर्थे छन्दसि सह इतीति। कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः। णकार इत्, उपदावृद्धिः, अपृक्तलोपः। ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह--लोके त्विति। सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः। ननु "नहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ" इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह--अन्येषामपीति। सहेः किम्?। डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोष()पि लक्षणया सडः। तस्यापत्यम्। [साडिः]। अत इञ्। "यस्येति चे"त्यकारलोपः। आदिवृद्धिः। साडिरिति रूपम्। अत्र न मूर्धन्य इति भाष्ये स्थितम्। इति हन्ताः। अथ वकारान्ताः। दिव्शब्दः स्त्रीलिङ्गः। "द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर"मित्यमरः। सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते-।

तत्त्व-बोधिनी
सहेः साडः सः २९५, ८।३।५६

सहेः साडः सः। सहेपिति किम्()। सह डेन वर्तते सडः। यस्य नाम्नि "ड"शब्देऽस्ति। यथा "मृड"इति। सडस्यापत्यं साडिः। इति हान्ताः।