पूर्वम्: ८।३।५६
अनन्तरम्: ८।३।५८
 
सूत्रम्
इण्कोः॥ ८।३।५७
काशिका-वृत्तिः
इण्कोः ८।३।५७

इण्कोः इत्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्। वक्ष्यति आदेशप्रत्यययोः ८।३।५९। सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोः इति किम्? दास्यति। असौ।
न्यासः
इण्कोः। , ८।३।५७

"इण्कोः" इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे "अनित्यमागमशासनम्()" (व्या।प।९९) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्()। "कु" इति कवर्गस्य। कुतः पुतरेत दवसितम्()--अनयोग्र्रहणम्(), न पुनरिकारककारोकाराणामिति? व्याख्यानात्()। सर्वसन्देहेष्विदमुपतिष्ठते--भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या।प।७५)। "वाक्षु, त्वक्षु" इति। "चोः कुः" ८।२।३० इति कुत्वम्()। "दास्यति" इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता "अणुदित्सवर्णस्य चाप्रत्ययः" १।१।६८ इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्(); तुल्यस्थानप्रयत्नत्वात्(); स्थानमस्ति ह्रनयोस्तुल्यमिति "अकुहविसर्जनीयाः कण्ठ्याः" इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणाअं स्वराणाञ्चेति; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; "नाज्झलौ" १।१।६८ इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्(); तुल्यस्थानप्रयत्नत्वात्(); स्थानमस्ति ह्रनयोस्तुल्यमिति "अकुहविसर्जनीयाः कण्ठ्याः" इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणां स्वराणाञ्चेत्(); तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; "नाज्झलौ" १।१।१० इति सवर्णसंज्ञाप्रतिषेणादिति चेत्(); न;[अयं भागा कांउ।पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्()यं भागः कांउ।पाठे नास्ति]? नैष दोषः; यदयं "वयस्यासु मूध्र्नो मतुप्()" ४।४।१२६ इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--मूध्र्नो मतुप्()" ४।४।१२६ इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--हकारो गृह्रमाणो नाकारं ग्राहयति; अन्यथा "वयस्यासु" इति निर्देशं न कुर्यात्()। "असौ" इति। "तदोः सः सावनन्त्ययोः" ७।२।१०६ इति दकारस्य सकारः, "अदस औ सुलोपश्च" ७।२।१०७ इत्यौत्वं सुलोपश्च॥
बाल-मनोरमा
इण्कोः २०९, ८।३।५७

इण्कोः। इत्यधिकृत्येति। उत्तरत्रव विधिष्वनुवर्तत इति भावः। इण् च कुश्चेति समाहारद्वन्द्वः। पुंस्त्वमार्षम्। इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम्। "इ" णिति परणकारेण प्रत्याहारः। कुः=कवर्गः।

तत्त्व-बोधिनी
इण्कोः १७६, ८।३।५७

इण्कोः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। कोः किम्?। गवाक्षु। गवाङ्षु।