पूर्वम्: ८।३।५८
अनन्तरम्: ८।३।६०
 
प्रथमावृत्तिः

सूत्रम्॥ आदेशप्रत्यययोः॥ ८।३।५९

पदच्छेदः॥ आदेश-प्रत्यययोः ६।२ नुम्विसर्जनीयशर्व्यवाये ७।१ ५८ अपि ५८ सः १।१ ५६ इण्कोः ५।१ ५७ अपदान्तस्य ६।१ ५५ मूर्धन्यः १।१ ५५ संहितायाम् ७।१ ८।२।१०८

समासः॥

आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः ॰ इतरेतरद्वन्द्वः

अर्थः॥

इण्कवर्गाभ्याम् उत्तरस्य आदेशः यः सकारः प्रत्ययस्य च यः सकारः तस्य मूर्धन्यादेशः भवति, संहितायाम्

उदाहरणम्॥

आदेशस्य - सिषेच, सुष्वापः। प्रत्ययस्य - अग्निषु, वायुषु, कर्त्तृषु, हर्त्तृषु
काशिका-वृत्तिः
आदेशप्रत्यययोः ८।३।५९

मूर्धन्यः इति वर्तते, स इति च। आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः। आदेशस्य तावत् सिषेव। सुष्वाप। प्रत्ययस्य अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात् प्रत्ययस्य इति षत्वं भवति। यजतेर् वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटो ऽडटौ ३।४।९४ इति अट्, सिब्बहुलं लेटि ३।१।३४ इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति।
लघु-सिद्धान्त-कौमुदी
आदेशप्रत्यययोः १५०, ८।३।५९

इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः॥
न्यासः
आदेशप्रत्यययोः। , ८।३।५९

अत्र चत्वारः पक्षाः सम्भवन्ति--१। आदेशप्रत्यययोरित्युभयत्र सकारपेक्षयाऽवयवयोगा येयं षष्ठी स्यात्()--आदेशावयवो यः सकारः, प्रत्ययो यः सकार इति। अथ वा--३ प्रत्यये समानाधिकरणाऽदेशेऽवयवयोगा--प्रत्ययो यः सकारः, आदेशावयवो यः सकार इति। ४।तस्य विपर्ययो वा--आदेशो यः सकारस्तस्य, प्रत्ययावयवो यस्तस्येति। कथं पुनरेका षष्ठी समानाधिकरणा वा स्यात्(), अवयवयोगा वा? विषयभेदात्()। यथैव हि "खरवसानयोः" ८।३।१५ इत्यत्रैकापि सप्तम्यधिकरणभेदादभिद्यते, तथेहप्येकस्या अपि षष्ठ()आ विषयभेदो वेदितव्यः। तन्नाद्यपक्ष आश्रीयमाणे "नित्यदीप्सयोः" ८।१।४ इति स्थाने द्विर्वचने कृते बसंबिसम्(), मुसलंमुसलमित्यत्रापि षत्वं प्राप्नोति, भवति ह्रत्रादेशावयवः सकारः। "सर्वस्य द्वे" ८।१।१ इति स्थाने द्विर्वचनपक्षोऽप्याश्रित एव। द्वितीये तु करिष्यतीत्यादौ न स्यात्(); सकारमात्रस्याप्रत्ययत्वात्()। तृतीये तु पक्षे यावाद्ययोर्दोषौ तावुभावपि प्रसज्येते इति विषु प्रक्षेषु दोषवत्तां दृष्ट्वा चतुर्थ पक्षमाश्रित्याह--"अदेशो यः सकारः" इत्यादि। चतुर्थे पक्षेऽप्याश्रीयमाणे--इन्द्रो मा वक्षत्(), "सदेवाम्? यक्षत्()" (अ।दे।३।४।६) इत्यत्र न प्राप्नोति, प्रत्ययो ह्रत्र सकारः, न तु प्रत्ययावयव इत्यत आह--"इन्द्रो मा वक्षत्()" इत्यादि। इतिकरणो हेतौ। यस्मादिहापि व्यपदेशिवद्भावात्? प्रत्ययावयवः सकारस्तस्माद्भवति मूर्धन्यः। वक्षादिति--वहेर्लेट्(), तिप्(), "इतश्च लोपः परस्मैपदेषु" ३।४।९७ इतीकारलोपः, "लेटोऽडाटौ" ३।४।९४ इत्यट, "सिब्बहुलं लेटि" ३।१।३४ इति सिप्(), "हो ढः" ८।२।३१, "षठोः कः सि" ८।२।४९ इति कत्वम्()। यक्षदिति--यजेः "चोः कुः" ८।२।३० इति कुत्वम्()--जकारसय गकारः, तस्य चत्र्वम्()--ककारः। शेषं यथायोगं पूर्ववत्()॥
बाल-मनोरमा
आदेशप्रत्यययोः २१०, ८।३।५९

अथ षत्वविधायकं सूत्रमाह--आदेश। षष्ठ()न्तमिति। "सहेः साडः सः" इति सूत्रे "स्" इति निर्दिष्टमिति भावः। तच्चेह द्विवचनान्ततया विपरिणम्य "आदेशप्रत्यययो"रित्यत्र सम्बध्यते। ततश्च "इण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या"दित्यर्थः। फलितमाह--इम्कवर्गाभ्यामित्यादिना। प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका। तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम्। सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम्। यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्--"आदेशावयवस्य सस्य ष" इति, तर्हि "तिरुआः" "तिसृणा"मित्यादौ दोषः। नच "त्रिचतुरोः स्त्रिया"मित्यत्रादेशे सकारोच्चारणसामथ्र्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्र "न रपरसृपिसृजिस्पृशिस्पृहिसवनादीना"मिति षत्वनिषेधेन चरितार्थत्वात्। विसम्विसमित्यादौ सकारस्याऽ‌ऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात्। "प्रत्ययो यः सकारस्तस्ये"ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात्। "रामेषु" इत्यादौ न स्यात्। अत "आदेशः प्रत्ययावयवश्च यः सकारस्तस्ये"ति व्याख्यातम्। प्रत्ययावयवसक्षणायां च "हलि सर्वेषां"मिति निर्देशो लिङ्गम्। विवृताघोषस्येति। मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम्। विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः। टकारनिवारणायाद्यं विशेषणम्। ऋकारवारणाय द्वितीयम्। रामेष्विति। ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात् "सात्पदाद्यो"रिति षत्वनिषेधः स्यादिति चेन्न, "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा"दित्यलम्। सुपिसाविति। "पिस गतौ"क्विप्। धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः।

अत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह--सर्वादीनि। सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि। अत्र सर्वशब्दः स्वरूपपरः।

तत्त्व-बोधिनी
आदेशप्रत्यययोः १७७, ८।३।५९

आदेशप्रत्ययोः। प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः, "हलि सर्वेषाम्" इति निर्देशात् "सात्पदाद्योः" इत्यत्र सातिग्रहणाच्च लिङ्गादित्याशयेन व्याचष्टे--आदेशः प्रत्ययावयवश्चेति। यदि तु आदेशावयवो गृह्रेत, तर्हि "तिसृणा"मित्यादौ दोषः। यद्यपि सकारोच्चारणसामथ्र्यात्तत्र षत्वं न स्यात्, तथापि बिसम्बिसं मुसलंमुसलमित्यादौ षत्वं दुर्वारं स्यात्। आष्टमिकद्विर्वचनस्यादेशरूपत्वात्। यदि तु "प्रत्ययो यः सकार" इति गृह्रेत, तर्हि "रामेषु" "करिष्यती"त्यादौ न स्यात्, किं तु "इन्द्रो मा वक्षत्" इत्यादावेव स्यात्। इह मनोरमायामेकापि षष्ठी विषयभेदाद्भिद्यत इत्युक्त्वा सहविवक्षाऽभावेऽपि सौत्रत्वान्द्वद्व इत्युक्तं, तत्तु प्रत्ययशब्दे लक्षणामनङ्गीकृत्य यथाश्रुताभिप्रायेणोक्तमिति बोध्यम्। विवृताघोषस्येति। "विवृतस्य सस्य तादृश एवे"त्युक्ते ऋकारेऽतिप्रसङ्गस्तद्वारणायाऽघोषस्येति। "अघोषस्ये"त्येतावदुच्यमाने ठकारेऽतिप्रसङ्गस्तद्वारणायोभयमुपात्तम्। तादृश एव ष इति। तादृशः ष एवादेशो भवति नान्य इत्यर्थः। नच "दधिसेचौ" "दधिसेच" इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञचमीसमासो भाष्ये उक्तस्ततश्चेहापि "सात्पदाद्योः" इति निषेधः स्यात्, "करिष्यती"त्यादौ षत्वविधेः सावकाशत्वादिति चेन्मैवम्, "स्वादिषु" इति या पदसंज्ञा तामाश्रित्य उक्तनिषेधो न प्रवर्तत इति सातिग्रहणेन ज्ञापितत्वात्। रामस्येति। "टाङसिङसामिनात्स्याः" इति वक्तव्ये सकारोच्चारणसामथ्र्यात्षत्वं न भवेत्, नडादिषु "अमुष्ये"ति निपातनात्ततः फगादौ "आमुष्यायण" इत्यादिवार्तिकनिर्देशाच्च "अमुष्ये"त्यत्र षत्वं भवेदिति यदि तर्हि "वि()आपास्वि"त्यादि प्रत्युदाहर्तव्यम् न च तत्रापि "षु"बिति वक्तव्ये "सु"बिति सकारोच्चारणसामथ्र्यादेव न भवेदिति शङ्क्यं लिट्त्सु" "प्रशान्त्सु" इत्यत्र "डः सि धट्" "नश्चे"ति धुटः प्रवृत्तये सकारोच्चारणस्यावश्यं स्वीकर्तव्यत्वादिति दिक्